श्रीविष्णुपुराण - प्रथम अंश - अध्याय १७

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


मैत्रेय श्रूयतां सम्यक् चरित तस्य धीमतः । प्रह्लादस्य सदोदाचरितस्य महात्मनः ॥१॥

दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥२॥

इन्दत्वमकरौद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥३॥

धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभूजेऽसुरः ॥४॥

देवाः स्वर्ग परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरुरवनौ सर्वे बिभ्राणा मानुर्षी तनुम् ॥५॥

जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वैर्बुभुजे विषयान्प्रियान् ॥६॥

पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासात्र्चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥७॥

अवादयन् जगुश्र्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदन्विताः ॥८॥

तत्र प्रनुत्ताप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥९॥

तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि गुरुगोहंगतोऽर्भकः ॥१०॥

एकदा तु स धर्मात्मा जगाम गरुणा सह । पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा ॥११॥

पादप्रणामवनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥१२॥

हिरण्यकशिपुरुवाच

पठ्यतां भवता वत्स सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्युक्तेन शिक्षितम ॥१३॥

प्रह्लाद उवाच

श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥१४॥

अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोऽस्म्यन्तसन्तानं सर्वकारणकारणम् ॥१५॥

श्रीपराशर उवाच

एतान्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तद्‌गुरूं प्राह स्फुरिताधरपल्लवः ॥१६॥

हित्रण्यकशिपुरुवाच

ब्रह्मबन्धो किमेतत्ते विपक्षसुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥१७॥

गुरुरुवाच

दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः ॥१८॥

हिरण्यकशिपुरुवाच

अनुशिष्टोऽसि केनेदृग्वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥१९॥

प्रह्लाद उवाच

शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानं तात कः केन शास्यते ॥२०॥

हिरण्यकशिपुरुवाच

कोऽयं विष्णुः सुदुर्बद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभं मम ॥२१॥

प्रह्लाद उवाच

न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥२२॥

हिरण्यकशिपुरुवाच

परमेश्वरसंज्ञोऽज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥२३॥

प्रह्लाद उवाच

न केवलं तात मम प्रजानां स ब्रह्माभूतो भवतश्च विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम् ॥२४॥

हिरण्यकशिपुरुवाच

प्रविष्टः कोऽस्य हॄदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥२५॥

प्रह्लाद उवाच

न केवलं मद्‌धृदयं स विष्णुराक्रम्य लोकानस्खिलानवस्थितः । स मां त्वदादींश्च पितस्समस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥२६॥

हिरण्यकसिपुरुवाच

निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयसुतौ ॥२७॥

श्रीपराशरच उवाच

इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः । जग्राह विद्यामनिशं गुरुशुश्रूषणोद्यतः ॥२८॥

कालेऽतीतेऽपि महति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीद्गाथा काचित्पुत्रक गीयताम् ॥२९॥

प्रह्लाद उवाच

यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य कुलांगरतां गतः ॥३०॥

हिरण्यकशिपुरुवाच

दुरात्मा वध्यतामेष नानेनार्थोऽस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलांगरतां गतः ॥३१॥

श्रीपराशर उवाच

इत्याज्ञप्तास्ततस्तेन प्रगृहितमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्त्रशः ॥३२॥

प्रह्लाद उवाच

विष्णुः शस्त्रेयु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥३३॥

श्रीपराशर उवाच

ततस्तैश्शतशो दैत्यैः शस्त्रौघैराहतोऽपि सन् । नावाप वेदनामल्पामभूच्चैव पुनर्नवः ॥३४॥

हिरण्यकशिपुरुवाच

दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवादतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥३५॥

प्रह्लाद उवाच

भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कृत तिष्ठिति । यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाण्यपयान्ति तात ॥३६॥

हिरण्यकशिपुरुवाच

भो भो सर्पाः दुराचारमेनमत्यन्तदुर्मतिम । विषज्वालाकुलैर्वक्त्रैः सद्यो नयत संक्षयम् ॥३७॥

श्रीपराशर उवाच

इत्युक्तास्ये ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥३८॥

स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लदसुस्थितः ॥३९॥

सर्पा ऊचुः

दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रशाधि दैत्येक्षर कार्यमन्यत् ॥४०॥

हिरण्यकाशिपुरुवाच

हे दिग्गजाः संकटदन्तमिश्रा घ्नतैनमस्मद्रिपुपक्षभिन्नम । तज्जा विनाशाय भवन्ति तस्य यथाऽरणेः प्रज्वलितो हुताशः ॥४१॥

श्रीपराशर उवाच

ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषावैर्वावपीडितः ॥४२॥

स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः । शीर्णा वक्षः स्थलं प्राप्य स प्राह पितरं ततः ॥४३॥

दन्ता गजानां कुलशाग्रनिष्ठुरः शीर्णा यदेते न बलं ममैतत् । महाविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभवः ॥४४॥

हिरण्यकशिपुरुवाच

ज्वाल्यतामसुरा वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दहृतामेष पापकृत् ॥४५॥

श्रीपराशर उवाच

महाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥४६॥

प्रह्लाद उवाच

तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् । पश्यामि पद्यास्तरणास्तृतानि शीतानि सर्वाणि दिशाम्मुखानि ॥४७॥

श्रीपराशर उवाच

अथ दैत्येश्वंर प्रोचर्भार्गवस्य्तात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूया वाग्निनः ॥४८॥

पुरोहिता ऊचुः

राजन्नियम्यतां कोपो बालेऽपि तनये निजे । कोपो देवनिकायेषु तेषु ते सफलो यतः ॥४९॥

तथातथैनं बालं ते शासितारो वयं नृप । यथा विपक्षनाशाय विनीतस्ते भविष्यति ॥५०॥

बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥५१॥

न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोऽनिवर्त्तिनीम् ॥५२॥

श्रीपराशर उवाच

एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैनिष्कासयामास पुत्रं पावकसत्र्चयात् ॥५३॥

ततो गुरुगृहे बालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥५४॥

प्रह्लाद उवाच

श्रुयतां परमार्थों मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥५५॥

जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा ॥५६॥

ततश्च मृत्युमभ्येति जन्तुदैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा ॥५७॥

मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥५८॥

गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावद्दुः खमेवावगम्यताम् ॥५९॥

क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥६०॥

अत्यन्तस्तिमितांगनां व्यायामेनं सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥६१॥

क्व शरीरमशेषाणां श्‍लेष्मादीनां महाचयः । क्व कान्तिशोभासौन्दर्यरमयीयादयो गुणाः ॥६२॥

मांसासृक्‌पूयविण्मुत्रसन्न्युमज्जास्थिहंतौ । देहे चेत्प्रीतिमान् मूढो भविता नरकेऽप्यसौ ॥६३॥

अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥६४॥

करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतासि यच्छति ॥६५॥

यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियानु । तावन्तोऽस्य निखन्यन्ते हृदये शोकशंकवः ॥६६॥

उद्यद्‌गृहे तन्मनसि यह तत्रावतिष्ठतः । नाशदाहोपकरणं तस्य तत्रैव तिष्ठति ॥६७॥

जन्मन्यत्र महद्‌दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥६८॥

गर्भेषु सुखलेशोऽपि भवद्धिरनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥६९॥

तदेवमतिदुःखानामास्पदेऽत्र भवार्णवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥७०॥

मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥७१॥

बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्ते करिष्याम्यात्मनो हितम् ॥७२॥

वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थन न यत्कृतम् ॥७३॥

एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कदाचिप्तिपासितः ॥७४॥

बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्द्धकं समुपस्थितम् ॥७५॥

तस्माद्वाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्धाद्यैर्देहभावैरसंयुक्तः ॥७६॥

तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥७७॥

प्रयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥७८॥

सर्वभूस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायमामेवं सर्वक्लेशान्प्रहास्यथ ॥७९॥

तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥८०॥

अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥८१॥

बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तनीति मनीषिणाम् ॥८२॥

एते भिन्नदृशां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेपः श्रुयतां मम ॥८३॥

विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥८४॥

समुत्सृज्यासुरं भावंज तस्माद्युयं तथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥८५॥

या नाग्निगा न चार्केण नेन्दुना च न वायुना । पर्जन्यवरुणाभ्यां वा न सिर्द्धैर्न च राक्षसैः ॥८६॥

न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवैः ॥८७॥

ज्वराक्षिरोगातीसारप्लीहगुल्मादिकैस्तथा । द्वेषेर्ष्यामत्सराद्यैर्वा रागलोभादिभिः क्षयम् ॥८८॥

न चान्यैर्नीयते कैश्चीन्नित्या यात्यन्तनिर्मला । तामाप्रोत्यमले न्यस्य केशवे हृदयं नरः ॥८९॥

असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्यास्समतामुपेत समत्वमाराधनमच्युतस्य ॥९०॥

तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्बह्यातरोरनन्तान्निःसंशयं प्राप्स्यथ वै महत्फलम् ॥९१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP