श्रीविष्णुपुराण - प्रथम अंश - अध्याय २

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥१॥

नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥२॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥

सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥४॥

आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥५॥

ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥६॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥७॥

कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः ॥८॥

तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । सारस्वताय तेनापि मह्मं सारस्वतेन च ॥९॥

परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥

अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः । वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम् ॥११॥

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥

तद्‌ब्रह्म परंमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥१३॥

तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥

परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥१५॥

प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥१६॥

प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥१७॥

व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥

अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥

अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥२०॥

त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीद्व्‌यांत्पं वै प्रलयादनु ॥२१॥

वेदवादविदो विद्दन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम् ॥२२॥

नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥२३॥

विष्णोः स्वरूपात्मरतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्‌द्विज कालसंज्ञम् ॥२४॥

प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः ॥२५॥

अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥२६॥

गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते ॥२७॥

ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥

प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥३०॥

स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः ॥३१॥

विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥

गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥

प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् । सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥३४॥

प्रधानतत्वेन समं त्वचा बीजमिवावृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः ॥३५॥

त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । भुतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ।

यथा प्रधानेन महान्महता स तथावृतः ॥३६॥

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥३७॥

शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥

ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४०॥

स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह ॥४१॥

सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥

विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४३॥

तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥

तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥४५॥

न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात् ॥४६॥

तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥४७॥

त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज ॥४८॥

पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥४९॥

आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥५०॥

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५१॥

नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५२॥

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५३॥

पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते ॥५४॥

तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् । भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् ।

प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम् ॥५५॥

तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥५६॥

मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥५७॥

साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः ॥५८॥

वारिवह्‌न्यनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥५९॥

अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् । एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।

नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव ॥६०॥

जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते ॥६१॥

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥६२॥

तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥

भक्षयित्वा च भूतानि जगत्येकार्णवीकृते । नागपर्यंकशयने शेते च परमेश्वरः ॥६४॥

प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥६५॥

सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥६६॥

स्त्रष्टा सृजाति चात्मानं विष्णुः पाल्यंच पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥

पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् ॥६८॥

स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥६९॥

स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥७०॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP