श्रीविष्णुपुराण - प्रथम अंश - अध्याय ६

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

अर्वाक्स्त्रोतास्तु कथितो भवता यस्तु मानुषः । ब्रह्मन्विस्तरतो ब्रूहि ब्रह्मा तमसृजद्यथा ॥१॥

यथा च वर्णानसॄजद्यद्‍गुणांश्च प्रजापतिः । यज्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥२॥

श्रीपराशर उवाच

सत्याभिध्यायिनः पूर्व सिसृक्षोर्ब्रह्मणो जगत् । अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥३॥

वक्षसो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् । रजसा तमसा चैव समुद्रिक्तस्तथोरुतः ॥४॥

पद्भ्‌यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम । तमः प्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः ॥५॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम । पादोरुवक्षःस्थलतो मुखतश्च्स समुद्गताः ॥६॥

यज्ञविष्पत्तये सर्वमेतद् ब्रह्मा चकार वै । चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥७॥

यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः । आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥८॥

निष्पाद्यन्ते नरैस्तैस्तु स्वधर्माभिरतैस्सदा । विशुद्धाचरणोपेतैः सिद्भिः सन्मार्गगामिभिः ॥९॥

स्वर्गापवर्गों मानुष्यात्प्रप्रुवन्ति नरा मुने । यत्र्चभिरुचितं स्थानं तद्यान्ति मनुज द्विज ॥१०॥

प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थिताः । सम्यक्छ्र्द्धासमाचारप्रवणा मुनिसत्तम ॥११॥

यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धान्तःकरणाः शुद्धाः कर्मानुष्थाननिर्मलाः ॥१२॥

शुद्धे च तासां मनसि शुद्धेऽन्तः संस्थिते हरौ । शुद्धज्ञानं प्रपश्यन्ति विष्णवाख्यं येन तप्तदम् ॥१३॥

ततः कालात्मको योऽसौ स चांशः कथितो हरेः । स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥१४॥

अधर्मबीजसमुद्भूतं तमोलोभसमुद्भवम् । प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥१५॥

ततः सा सहजा सिद्धिस्तासां नातीव जायते । रसोल्लासादयश्चान्याः सिद्धयोऽष्टौ भवन्ति याः ॥१६॥

तासु क्षीणास्वशेषासु वर्द्धमाने च पातके । द्वन्द्वाभिभवदुः खार्तास्ता भवन्ति ततः प्रजाः ॥१७॥

ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् । कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥१८॥

गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु । शीतातपादिबाधानां प्रशमाय महामते ॥१९॥

प्रतीकारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः । वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥२०॥

व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः । प्रियंगवो ह्युदाराश्च कोरदूषाः सतीनकाः ॥२१॥

माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः । आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥२२॥

इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने । ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥२३॥

व्रीहयस्सयवा माषा गोधूमाश्चाणवस्तिलाः । प्रियड्गुसप्तमा ह्योते अष्टमास्तु कुलत्थकाः ॥२४॥

श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तास्तथा मर्कटका मुने ॥२५॥

ग्राम्यारण्याः स्मृता ह्योता ओषध्यस्तु चतुर्दश । यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥२६॥

एताश्च सह यज्ञेन प्रजानां कारणं परम् । परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वते ॥२७॥

अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियामाणाघशान्तिदम् ॥२८॥

येषां तु कालसृष्टोऽसौ पापबिन्दुर्महामुने । चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥२९॥

वेदवादांस्तथा वेदान्यज्ञकर्मादिकं च यत् । तत्सर्व निन्दयासुर्यज्ञव्यासेधकारिणः ॥३०॥

प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचार बभूवुः कुटिलाशयाः ॥३१॥

संसिद्धायां तु वार्तायां प्रजाः सृष्टा प्रजापतिः । मर्यादा स्थापयामास यथास्थानं यथागुणम् ॥३२॥

वर्णानामाश्रमाणां च धर्मान्धर्मभृतां वर । लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥३३॥

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वनिवर्तिनाम् ॥३४॥

वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम । गान्धर्व शूद्रजातीनां परिचर्यानुवर्तिनाम् ॥३५॥

अष्टाशीतिसहस्त्राणि मुनीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥३६॥

सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गॄहस्थानां न्यासिनां ब्रह्मासंज्ञितम् ॥३७॥

योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् ॥३८॥

एकान्तिनः सदा ब्रह्माध्यायिनो योगिनश्च ये । तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥३९॥

गत्वा गत्वा निवर्त्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्त्तन्ते द्वादशाक्षरचिन्तकाः ॥४०॥

तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । असिपत्रवनं घोरं कालसुत्रमवीचिकम् ॥४१॥

विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥४२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP