श्रीविष्णुपुराण - प्रथम अंश - अध्याय ११

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥१॥

तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूतद्बह्नान्पितुरत्यन्तवल्लभः ॥२॥

सुनीतिर्नाम या राज्ञस्तस्यान्महिषी द्विज । स नातिप्रीतिमांस्तस्यामभूद्यस्या ध्रूवः सुतः ॥३॥

राजासनस्थितस्यांक पितुर्भ्रातरमाश्रितम् । दृष्टोत्तमं ध्रुवश्चके तमारोढुं मनोरथम् ॥४॥

प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्संगरोहणोत्सुकम् ॥५॥

सपत्नीतनयं दृष्ट्वा तमंकारोहणोत्सुकम् । स्वपुत्रं च तथारुढं सुरुचिर्वाक्यमब्रवीत् ॥६॥

क्रियते किं वृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्यासम्भूय ममोदरे ॥७॥

उत्तमोत्तममप्राप्यमविवेको हि वात्र्छसि । सत्यं सुतस्त्वमप्यस्य किन्तु न स्वं मया धृतः ॥८॥

एतद्राजासनं सर्वभूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यते त्वया ॥९॥

उच्चैर्मनोरथस्तेऽयं मत्पुत्रस्येव किं वृथा । सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥१०॥

श्रीपराशर उवाच

उत्सुज्य पितरं बालस्तच्छुत्वा मातृभाषितम्‌ । जगाम कूपितो मातुर्निजाया द्विज मन्दिरम् ॥११॥

तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् । सुनीतिरड्कमारोप्य मैत्रेयेदमभाषत ॥१२॥

वत्स कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति । कोऽवजानाति पितरं वत्स यस्तेऽपराध्यति ॥१३॥

श्रीपराशर उवाच

इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतिगर्विता ॥१४॥

विनिःश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥१५॥

सुनीतुरुवाच

सुरुचिः सत्यमाहेदं मन्दभाग्योऽसि पुत्रक । न हि पुण्यवर्ता वत्स सपत्नैरेवमुच्यते ॥१६॥

नोद्वेगस्तात कर्त्तव्यः कृतं यद्भवता पुरा । तत्कोऽपहर्तुं शन्कोति दातुं कश्चाकृतं त्वया ॥१७॥

तत्त्वया नात्र कर्त्तव्यं दुःखं तद्वाक्यसम्भवम् ॥१८॥

राजासनं राजच्छत्रं वराश्ववरवारणाः । यस्य पुण्यानि तस्यैते मत्त्वैतच्छाम्य पुत्रक ॥१९॥

अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर्नृपः । भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥२०॥

पुण्योपचयसम्पन्नस्तस्याः पुत्रस्तथात्तमः । मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥२१॥

तथापि दुःखं न भवान्‌ कर्त्तुमर्हति पुत्रक । यस्य यावस्त तनैव स्वेन तुष्यति मानवः ॥२२॥

यदि ते दुःखमत्यर्थ सुरुच्या वचसाभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥२३॥

सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्रं यथापः प्रवणाः पात्रमायन्ति सम्पदः ॥२४॥

ध्रुव उवाच

अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम । नैतद्दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥२५॥

सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्यशेषाणां जगतामभिपूजितम् ॥२६॥

सुरुचिर्दयिता राज्ञस्तस्या जातोऽस्मि नोदरात् । प्रभावं पश्य मेऽम्ब त्वं वृद्धस्यापि तवोदरे ॥२७॥

उत्तमः स मम भ्राता यो गर्भेण धृतस्तया । स राजसनमान्पोतु पित्रा दत्तं तथास्तु तत् ॥२८॥

नान्यदत्तमभीप्सामि स्थानमम्ब स्वकर्मणा । इच्छामि तदहं स्थानं यन्न प्राप पिता मम ॥२९॥

श्रीपराशर उवाच

निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्वाह्योपवनं ययौ ॥३०॥

स ददर्श मुनीस्तत्र सप्त पूर्वागतान्ध्रुवः । कृष्णाजिनोत्तरीषु विष्टरेषु समास्थितान् ॥३१॥

स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्यभाषत । प्रश्रयावनतः सम्यगभिवाननपूर्वकम् ॥३२॥

ध्रुव उवाच

उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनीत्यां निर्वेदाद्युष्मांक प्राप्तमन्तिकम् ॥३३॥

ऋषय ऊचुः

चतुःपत्र्चाब्दसम्भूतो बालस्त्वं नृपनन्दन । निर्वेदकारणं कित्रिचित्तव नाद्यपि वर्त्तते ॥३४॥

न चिन्त्यं भवतः कित्र्चिद्‌ध्रियते भूपतिः पिता । न चैवेष्टवियोगादि तव पश्याम बालक ॥३५॥

शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥३६॥

श्रीपराशर उवाच

ततः स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥३७॥

अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ॥ सपन्‍त्या मातुरुक्तं यद्‍धृदयान्नापसर्पति ॥३८॥

भो भो क्षत्रियदायाद निर्वेदाद्यत्त्वयाधुना । कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥३९॥

यच्च कार्यं तवास्माभिः साहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥४०॥

ध्रुव उवाच

नाहमर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥४१॥

एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्रयं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥४२॥

मरीचिरुवाच

अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । नहि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्‌ ॥४३॥

अत्रिरुवा

परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । स प्राप्नोत्यक्षयं स्थानमेत्सत्यं मयोदितम् ॥४४॥

अंगिरा उवाच

यस्यान्तः सर्वमेवेदमच्य्तस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्रयं यदीच्छसि ॥४५॥

पुलस्त्य उवाच

परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् । तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥४६॥

पुलह उवाच

ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥४७॥

क्रतुरुवाच

यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥४८॥

वसिष्ठ उवाच

प्राप्नोष्याराधितो विष्णौ मनसा उद्यदिच्छसि । त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥४९॥

ध्रुव उवाच

आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परितोषाय यज्जत्पव्यं तदुच्यताम् ॥५०॥

यथा चाराधनं तस्य मया कार्यं महत्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥५१॥

ऋषय ऊचुः

राजपुत्र यथा विष्णोराराधनपरैर्नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥५२॥

बाह्यर्थादखिलच्चितं त्याजयेत्प्रथमं नरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥५३॥

एवमेकाग्रचित्तेन तन्मयेन धृतात्मना । जत्पव्यं यन्निबोधैतत्तन्नः पार्थिवनन्दनः ॥५४॥

हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे । ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥५५॥

एतज्जजाप भगवान् जप्यं स्वायम्भुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥५६॥

ददौ यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥५७॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP