संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथशय्यादानम्

धर्मसिंधु - अथशय्यादानम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशय्यादानम् एकादशाहेशय्यायादानेएषविधिःस्मृतः ।

तेनोपभुक्तंयत्किंचिद्वस्त्रवाहनभाजनम् यद्यदिष्टंचतस्यासीत्तत्सर्वपरिकल्पयेत् ।

प्रेतंचपुरुषंहैमंतस्यांसंस्थापयेत्तदा पूजयित्वाप्रदातव्यामृतशय्यायथोदिता ।

तस्माच्छय्यांसमासाद्यसारदारुमयींदृढाम् दन्तपत्नाचितांरम्यांहेमपट्टैरलंकृताम् ।

हंसतूलिप्रतिच्छन्नांशुभगण्डोपधानिकाम् प्रच्छादनपटीयुक्तांगन्धधूपादिवासिताम् ।

उच्छीर्षकेघृतभृतंकलशंपरिकल्पयेत् ताम्बूलकुङ्कुमक्षोदकर्पूरागरुचन्दनम् ।

दीपिकोपानहच्छत्नचामरासनभाजनम् पार्श्वषुस्थापयेद्भत्तयासप्तधान्यानिचैवहि ।

शयनस्थस्यभवतियदन्यदुपकारकम् भृङ्गाकरकाद्यंतत्पञ्चवर्णवितानकम् ।

संपूज्यद्विजदाम्पत्यंनानाभरणभूषितम् उपवेश्यतुशय्यायांमधुपर्कततोवदेत् ।

दानमन्त्रस्तु । यथानकृष्णशयनं शून्यंसागरजातया ।

शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि यस्मादशून्यशयनंकेशवस्यशिवस्यच ।

शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि दत्त्वैवंतस्यसकलंप्रणिपत्यविसर्जयेत् ।

पाद्मेतु अस्थिलालाटकंगृह्यसूक्ष्मंकृत्वासपायसम् ।

भोजयेद्द्विजदांपत्यंविधिरेषसनातनः इत्यक्तम् नैतन्महाराष्ट्रदेशादिशिष्टैराद्रियते

यद्देशेतदाचारस्तत्रास्तु स्वर्गेपुरंदरपुरेलोकपालालयेतथा । सुखंवसत्यसौजन्तुःशय्यादानप्रभावतः ।

आभूतसंप्लवंयावत्तिष्ठत्यातङ्कवर्जितः प्रेतशय्याप्रतिग्राहीनभूयःपुरुषोभवेत् ।

गृहीतायांतुतस्यांवैपुनःसंस्कारमर्हति ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP