संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
तुलसीग्रहणकालः

धर्मसिंधु - तुलसीग्रहणकालः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तुलसीग्रहणकालः वैधृतौचव्यतीपातेभौमभार्गवभानुषु ।

पर्वद्वयेचसंक्रान्तौद्वादश्यांसूतकद्वये १ तुलसीयेविचिन्वन्तितेछिन्दन्तिहरेःशिरः ।

नैवच्छिन्द्याद्रवौदूर्वातुलसीनिशिसंध्ययोः २ धात्रीपत्रंकार्तिकेचपुण्यार्थमतिमान्नरः ।

द्वादश्यांचदिवास्वापस्तुलस्यवचयस्तथा ३ विष्णौश्चैवदिवास्नानंवर्जनीयंसदाबुधैः ।

अत्र दिवानिषेधाद्रात्रौस्नानादिषोडशोपचारैःपूजाकार्या दिवातुगन्धादिपुष्पाञ्जल्यन्ताएवोपचाराइतिकमलाकराह्निके

विष्णोर्द्वादश्यांनिर्माल्यापनयनमपिनकार्यमितितन्त्रान्तरेस्मर्यते एतदपवादःपुरुषार्थचिन्तामणौ नारदीये

पञ्चामृतेनसंस्नाप्यएकादश्यांजनर्दनम् । द्वादश्यांपयसास्नाप्यहरिसायुज्यमश्नुते १

इति देवार्थेतुलसीछेदोहोमर्थेसमिधांतथा । इन्दुक्षयेनदुष्येतगवार्थंतुतृणस्यच १

तुलसीग्रहणमन्त्रः तुलस्यमृतजन्मासिसदात्वंकेशवप्रिये । केशवाथविचिन्वामिवरदाभवशोभने २

जातिमल्लिकाकरवीराशोकोत्पलचम्पकबकुलबिल्वशमीकुशाएतानिसर्वदेवतानांविहितानि ॥

"तुलस्यमृतनामासि सदात्वं केशवप्रिये । केशवार्थ विचिन्वामि वरदाभव शोभने ॥"

अथ विहितप्रतिषिद्धत्वाद्वैकल्पिकानि पाटलाशमीपत्रंचदुर्गायाः कुन्दपलाशबकुलदूर्वाः

शिवस्य कुमुदतगरेसूर्यस्य तुलसीभृङ्गराजतमालपत्राणिशिवदुर्गयोः

अगस्तिमाधवीलतालोध्रपुष्पंविष्णुशिवयोः धत्तूरमन्दारौविष्णुसूर्ययोः इतिविकल्पितानि ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP