संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
जपमालानांसंस्कारः

धर्मसिंधु - जपमालानांसंस्कारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथरुद्राक्षतुलस्यादिसर्वजपमालानांसंस्कारः

अथरुद्राक्षतुलस्यादिसर्वजपमालानांसंस्कारः कुशोदकसहितैःपञ्चगव्यैर्मालांप्रक्षाल्य

ॐ र्‍हींअंआंइंईउऊऋऋलृलृंएंऐंओंऔंअंअः कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं

पंफंबंभंमंयंरंलंवंशंषंसंहंक्षं इत्येतानि पञ्चाशन्मातृकाक्षराणि अश्वत्थपत्रस्थापितमालायांविन्यस्य

ॐ सद्योजातं० वामदेवाय० अघोरेभ्यो० तत्पुरुषाय० ईशानःसर्वविद्याना० इतिपञ्चमन्त्रान्‌जपित्वा

सद्योजातेतिमन्त्रेणमालांपञ्चगव्येनप्रोक्ष्यशीतजलेनप्रक्षाल्यवामदेवेतिचंदनेनाघृष्याघोरेति

मालांधूपयित्वातत्पुरुषेतिचन्दनकस्तूर्यादिनालेपयित्वेशान

इतिमन्त्रेणप्रतिमणिंशतवारंदशवारंवाभिमन्त्र्यअघोरइतिमन्त्रेणमेरुंशतवारमभिमन्त्रयेत्

ततएतैरेवपञ्चभिर्मन्त्रैर्मालांपञ्चोपचारैः पूजयेदिति ॥

बोपदेवः रुद्राक्षान्कण्ठदेशेदशनपरिमितान्मस्तकेविंशतीद्वे षट्षट्‌कर्णप्रदेशेकरयुगुलकृतेद्वादशद्वादशैव ।

बाह्वोरिन्दोःकलाभिर्नयनयुगकृते एकमेकंशिखायांवक्षस्यष्ठाधिकंयःकलयतिशतकंसस्वयंनीलकण्ठः १ रुद्राक्षदानाद्रुदपदप्राप्तिः ॥

पञ्चविंशत्पलंलिङ्गेष्वभ्यङ्गंकारयेदथ ।

स्नापयेत्तिलतैलैश्चकरयन्नोद्भवैःशिवम् १ स्नानंपलशतंज्ञेयमभ्यङ्गपञ्चविंशतिः १

पलानांद्विसहस्त्रेणमहास्नानंजलेनतत् । पयोदधिघृतक्षौद्रशर्कराद्यैस्ततःक्रमात् २

शिवस्यसर्पिषास्नानंप्रोक्तंपलशतेनवै । तावतामधुनाचैवदध्नाचपयसापिच ३

पलसार्धसहस्त्रेणरसेनैवैक्षवेणच । भक्त्याचोष्णोदकैःशीतोदकैःसंस्नापयेच्छिवम् ४

श्रीविष्णुंक्षीरदध्याद्यैःक्रमाद्दशगुणोत्तरैः । स्नापयेत्केचिदूचुक्षीराद्यैःपञ्चभिःसमैः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP