संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
तृतीयभागेपोष्यवर्गांर्थधनार्जनम्

धर्मसिंधु - तृतीयभागेपोष्यवर्गांर्थधनार्जनम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.
This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तृतीयभागेपोष्यवर्गांर्थधनार्जनम् यजनाध्ययनदान्याजनाध्यापनप्रतिग्रहाः

षट्‌विप्रकर्माणि षण्णांतुकर्मणामस्यत्रीणिकर्माणिजीविका ।

याजनाध्यापनेचैवविशुद्धाच्चप्रतिग्रहः १ श्रीभागवते प्रतिग्रहंमन्यमानस्तपस्तेजोयशोनुदम् ।

अन्याभ्यामेवजीवेतशिलैर्वादोषदृक्‌तयोः १ इति तथा वार्ताविचित्राशालीनयायावरशिलोञ्छनम् ।

विचित्रावार्ता कृष्यादिः शालीनमयाचितम् यायावरंप्रत्यहंधान्ययाञ्चा कणिशोपादानंकणोपादानंचशिलोञ्छनम्

अत्रोत्तरोत्तराप्रशस्ता शिलोञ्छनंकलौनिषिध्म् कुसूलकुम्भीधान्योवात्र्याहिकोश्वस्तनोपिवा ।

कुटुम्बपोषणेद्वादशाहपर्याप्तधान्यः कुसूलधान्यः षडहपर्याप्तधान्यः कुम्भीधान्यः नुकर्यात्कृषिवाणिज्यंसेवावृत्तिंतथैवच ।

ब्राह्मण्याध्दीयतेतेनतस्मात्तानिविवर्जयेत् १ इत्युक्तेर्वार्तावृत्तिरापद्विषया पुत्रमांसं वरंभोक्‍तुंनतुराजप्रतिग्रह

इतिवाक्यमधर्मवर्तिराजप्रतिग्रहविषयम् वृद्धौचमातापितरौसाध्वीभार्याशिशुःसुतश्चायाज्ययाजनशूद्रप्रतिग्रहादिनापिपोषणीया

इत्यप्यापदि शाकपयोदधिपुष्पजलकुशभूमयः कुलटाषण्ढपतितभिन्नात्‌नीचादययाचितप्राप्ताग्राह्याः ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः ।

अध्वगःक्षीणवृत्तिश्चषट्‌पक्वान्नस्यभिक्षुकाः १ शूद्रस्यद्विजशुश्रूषावृत्तिः आपदिकृष्यादिः ॥

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP