मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
राजीवलोचनः श्रीमान् श्रीर...

श्रीरामसहस्रनामस्तोत्रं - राजीवलोचनः श्रीमान् श्रीर...


श्री राम हा विष्णूचा सातवा अवतार आहे.


राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥१॥
अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥२॥
विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥३॥
ज्ञानभाव्योऽपरिच्छेद्योवाग्मीसत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥४॥
द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥५॥
ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः । विपुलांसो महोरस्कः परमेष्ठी परायणः ॥६॥
सत्यव्रतः सत्यसंधो गुरुः परमधार्मिकः । लोकज्ञो लोकवन्द्यश्च लोकात्मालोककृत्परः ॥७॥
अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः । रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥८॥
ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः । सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥९॥
सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः । कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥१०॥
भव्यो जितारिषड्वर्गो महोदरोऽघनाशनः । सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥११॥
अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥१२॥
धीरो दान्तो घनश्यामः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥१३॥
सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः । यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥१४॥
वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः । विभीषणप्रतिष्ठाता परमात्मा परात्परः ॥१५॥
प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः । अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥१६॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ॥१७॥
विनीतात्मा वीतरागः तपस्वीशो जनेश्वरः । कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः ॥१८॥
अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः । लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥१९॥
आनन्दविग्रहो ज्योतिर्हनुमत्प्र्भुरव्ययः । भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥२०॥
सुखदः कारणं कर्ता भवबन्धविमोचनः । देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥२१॥
संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् । विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् ॥२२॥
नित्योनियतकल्याणः सीताशोकविनाशकृत् । काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥२३॥
मारीचमथनो रामो विराधवधपण्डितः । दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥२४॥
महाधनुर्महाकायो भीमो भीमपराक्रमः । तत्त्वस्वरूपी तत्त्वज्ञः तत्त्ववादी सुविक्रमः ॥२५॥
भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः । अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥२६॥
स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः । भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतोध्रुवः ॥२७॥
कवची कुण्डली चक्री खड्गी भक्तजनप्रियः । अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ॥२८॥
अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः । समः समात्मा समगो जटामुकुटमण्डितः ॥२९॥
अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः । लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥३०॥
सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः । अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ॥३१॥
धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः । हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः ॥३२॥
व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः । जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ॥३३॥
सम्भवोऽतीन्द्रियोवेद्योऽनिर्देशोजाम्बवत्प्रभुः । मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ॥३४॥
नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः । नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ॥३५॥
जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ॥३६॥
चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः । अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥३७॥
सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् । वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥३८॥
अतुलः सात्त्विको धीरः शरासनविशारदः । ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥३९॥
वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः । गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥४०॥
कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः । मायावी व्यापको व्यापी रैणुकेयबलापहः ॥४१॥
पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः । लोकत्रयाश्रयो लोकचरितो भरताग्रजः ॥४२॥
श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः । मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ॥४३॥
यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः । तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ॥४४॥
चाणूरमर्दनो दिव्यश्शान्तो भरतवन्दितः । शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः ॥४५॥
लोकगर्भश्शेषशायी क्षीराब्धिनिलयोऽमलः । आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् ॥४६॥
अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः । त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती ॥४७॥
पर्जन्यः कुमुदो भूतावासः कमललोचनः । श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥४८॥
लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । सनातनतमो मेघश्यामलो राक्षसान्तकृत् ॥४९॥
दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः । भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥५०॥
उत्तमः सात्विकः सत्यः सत्यसंधस्त्रिविक्रमः । सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ॥५१॥
दामोदरोऽच्युतश्शार्ङ्गी वामनो मधुराधिपः । देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥५२॥
सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः । कालस्वरूपी कालात्माकालः कल्याणदःकविः संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः ॥५३॥
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः । अनादिनिधनः सर्वलोकपूज्यो निरामयः ॥५४॥
रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥५५॥
शेषो विशेषो विगतकल्मषो रघुनायकः । वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ॥५६॥
कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः । देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ॥५७॥
सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः । मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥५८॥
अहल्यापावनः स्वामी पितृभक्तो वरप्रदः । न्यायो न्यायी नयी श्रीमान्नयो नगधरोध्रुवः ॥५९॥
लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः । वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥६०॥
देवाग्रणीः शिवध्यानतत्परः परमः परः । सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः ॥६१॥
पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः । जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥६२॥
अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी । कलानिधिः कलानाथो कमलानन्दवर्धनः ॥६३॥
जयी जितारिः सर्वादिः शमनो भवभञ्जनः । अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥६४॥
आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः । निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ॥६५॥
आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् । सनातनतमस्स्रग्वी पेशलो जविनां वरः ॥६६॥
शक्तिमाञ्शङ्खभॄन्नाथः गदापद्मरथाङ्गभृत् । निरोहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥६७॥
शताननः सहस्राक्षः शतमूर्तिर्धनप्रभः । हृत्पुण्डरीकशयनः कठिनो द्रव एव च ॥६८॥
उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः । अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ॥६९॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । हिरण्यगर्भोज्योतिष्मान् सुललाटः सुविक्रमः ॥७०॥
शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी । नरो नारायणः श्यामः कपर्दीनीललोहितः ॥७१॥
रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः । मातामहोमातरिश्वाविरिञ्चोविष्टरश्रवाः ॥७२॥
अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः । वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥७३॥
निदाघस्तपनोऽमोघः श्लक्ष्णः परबलापहृत् । कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ॥७४॥
शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः । असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥७५॥
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । रामोनीलोत्पलश्यामोज्ञानस्कन्धोमहाद्युतिः ॥७६॥
पवित्रपादः पापारिर्मणिपूरो नभोगतिः । उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः ॥७७॥
अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः । भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥७८॥
उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः । नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥७९॥
चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः । निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ॥८०॥
श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः । भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ॥८१॥
अकायो भक्तकायस्थः कालज्ञानी महावटुः । परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥८२॥
स्वभावभद्रो मध्यस्थः संसारभयनाशनः । वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥८३॥
सुरेन्द्रः करणं कर्म कर्मकृत्कर्म्यधोक्षजः । ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ॥८४॥
परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः । विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः ॥८५॥
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः । केशवः केशिहा काव्यः कविः कारणकारणम् ॥८६॥
कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः । आदिकर्ता वराहश्च माधवो मधुसूदनः ॥८७॥
नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ॥८८॥
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः । नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ॥८९॥
आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः । गोविन्दोगोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥९०॥
पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः । त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥९१॥
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः । भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ॥९२॥
कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः । संन्यासी शास्त्रतत्वज्ञो मन्दराद्रिनिकेतनः ॥९३॥
बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः । भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ॥९४॥
तपोवासो मुदावासः सत्यवासः सनातनः । पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥९५॥
पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः । शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली ॥९६॥
किरीटी कुण्डली हारी मेखली कवची ध्वजी । योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ॥९७॥
शास्ता शास्त्रकरः शास्त्रं शंकर: शंकरस्तुतः । सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ॥९८॥
पवनः संहतः शक्तिः सम्पूर्णाङ्गः समृद्धिमान् । स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ॥९९॥
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । सर्वात्मासर्वलोकेशः प्रेरकः पापनाशनः ॥१००॥
सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥१०१॥
अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥१०२॥
सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । अधिकारी विभुर्नित्यः परमात्मा सनातनः ॥१०३॥
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ॥१०४॥
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । सत्यवान् गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान् ॥१०५॥
कालात्मा भगवान् कालः कालचक्रप्रवर्तकः । नारायणः परंज्योतिः परमात्मा सनातनः ॥१०६॥
विश्वसृड्विश्वगोप्ता च विश्वभोक्ता च शाश्वतः । विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥१०७॥
सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः । सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ॥१०८॥
सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ॥१०९॥
अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः । नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी ॥११०॥
जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः । कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः ॥१११॥
सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः । पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात् ॥११२॥
तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः । परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥११३॥
परंज्योतिः परंधामः पराकाशः परात्परः । अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ॥११४॥
नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः । हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः ॥११५॥
रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः । तत्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥११६॥
अकारवाच्योभगवान् श्रीर्भूलीलापतिः पुमान् । सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ॥११७॥
स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् । नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी ॥११८॥
कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम् । श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ॥११९॥
श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः । अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् ॥१२०॥
॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP