मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| अक्षररामायणम् राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... अक्षररामायणम् अक्षररामायणम् Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र अक्षररामायणम् Translation - भाषांतर ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ ।वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥१॥श्रीः धन्यं मंगल्यमायुष्यं अलक्ष्मीकलिनाशनम् ।रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥२॥अ अयोध्यधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः ।राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः ।शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥४॥इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया ।दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥५॥ई ईहितेनाभिषेकेन रामस्संप्रस्थितो वनम् ।सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥६॥उ उपवासपरो रामः तपस्वी दण्डके वने ।सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥७॥ऊ ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् ।तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥८॥ऊ२ ऊनस्तु रामवीर्येण रावणो नाम राक्षसः ।तेन दुष्टात्मना सीता छलेनापहृता वने ॥९॥ऋ ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् ।आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥१०॥ॠ कॄतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे ।दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥११॥ॡ लोम्ना काञ्चनरूपेण मृगो भूत्वा स शृङ्गलृः ।लोभयित्वा तु वैदेहीं व्यहरद् दण्डकावने ॥१२॥ॡ सीतां कमलपत्राक्षीं उपासीनां वने तदा ।ॡकारकुटिलो हृत्वा रावणोऽगान्नभस्तलम् ॥१३॥ए एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः ।तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥१४॥ऐ ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् ।हत्वा तस्मिन् वने गृध्रं सीता लङ्कां प्रवेशिता ॥१५॥ओ ओघशोकनिमग्नस्सः सीतावत्सलराघवः ।कपिना हरिराज्येन सुग्रीवेण समागतः ॥१६॥औ औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् ।हत्वा च वालिनं रामः सुग्रीवं चाभिषेचयत् ॥१७॥अम् महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् ।सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥१८॥अः हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः ।तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥१९॥क कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् ।अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥२०॥ख खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः ।तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥२१॥ग गत्वा पारं समुद्रस्य वेगेन गरुडो यथा ।दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥२२॥घ घनेऽशोकवने देशे समागम्य च मैथिलीम् ।हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥२३॥ङ ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा ।क्रुद्धेनेन्द्रजिता धीरो गृहीतो हनूमान् कपिः ॥२४॥च चन्द्रमण्डलसंकाशं लांगुलं तस्य राक्षसाः ।शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥२५॥छ छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः ।लांगूलेन प्रदीप्तेन लंकामादीपयत् पुरीम् ॥२६॥ज जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः ।कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥२७॥झ झषालयं समुत्प्लुत्य हरिरुत्तम आगतः ।सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥२८॥ञ ञकारवदनो भूत्वा हनूमान् स हरीश्वरः ।न्यवेदयदशेषेण राघवाय महात्मने ॥२९॥ट टकारसदृशं चापं सशरं रघुनन्दनः ।गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥३०॥ठ ठकाराकारनेत्राणां हरीणामयुतव्रताः ।सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥३१॥ड डयन्त इव वेगेन गत्वा पारं महोदधेः ।राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥३२॥ढ ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा ।हनूमानग्रतो याति राघवस्य हिते रतः ॥३३॥ण णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः ।उवाच सागरो रामं सेतुं मम जले कुरु ॥३४॥त तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् ।नळ ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥३५॥थ स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः ।चकार सेतुं धर्मात्मा सागरे मकरालये ॥३६॥द दशयोजनविस्तीर्णं आयतं शतयोजनम् ।येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥३७॥ध धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः ।राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥३८॥न नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः ।ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥३९॥प पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः ।नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥४०॥फ फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः ।राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥४१॥ब बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः ।निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥४२॥भ भक्तोसि मयि रक्षेन्द्र धार्मिकश्चापि सुव्रतः ।अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो ! ॥४३॥म मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन ! ।सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥४४॥य यदर्थमयमारम्भः कृतो मे राक्षसेश्वर ।तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥४५॥र रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः ।आरोचयच्च वैदेहीं काकुत्स्थाय महात्मने ॥४६॥ल लङ्कां प्रविश्य नगरीं ददर्श जनकात्मजाम् ।कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥४७॥व वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः ।अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥४८॥श शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः ।नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥४९॥ष षाड्गुण्य सुगतिश्श्रीमान् राघवस्सह सीतया ।सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥५०॥स समेत्य हृष्टहृदयः पौरजानपदैस्सह ।गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥५१॥ह हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः ।शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥५२॥--------------------अनुबन्धःक्ष क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् ।ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥१॥सपञ्चशतसाहस्रसंवत्सरसनातनम् ।प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशतां स्थितम् ॥२॥बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् ।रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥३॥इदं बरोडानगरे राज्ञा मुद्रापितं पुरा ।स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥४॥नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् ।ऊप्लुतं ॡविकाराङ्कं अभेदं रलयोदशन् ॥५॥व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् ।ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥६॥प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् ।षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥७॥तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः ।अष्टश्लोकीं ततः कुर्वन् रामस्संस्कृतवानिदम् ॥८॥शुभमस्तु ॥ N/A References : N/A Last Updated : May 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP