मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| ॥ बालकाण्डः ॥ शुद्धब्... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... नामरामायणम् - ॥ बालकाण्डः ॥ शुद्धब्... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र नामरामायणम् Translation - भाषांतर ॥ बालकाण्डः ॥ शुद्धब्रह्मपरात्पर राम् । कालात्मकपरमेश्वर राम् । शेषतल्पसुखनिद्रित राम् । ब्रह्माद्यमरप्रार्थित राम् । चण्डकिरणकुलमण्डन राम् । श्रीमद्दशरथनन्दन राम् । कौसल्यासुखवर्धन राम् । विश्वामित्रप्रियधन राम् । घोरताटकाघातक राम् । मारीचादिनिपातक राम् । कौशिकमखसंरक्षक राम् । श्रीमदहल्योद्धारक राम् । गौतममुनिसंपूजित राम् । सुरमुनिवरगणसंस्तुत राम् । नाविकधाविकमृदुपद राम् । मिथिलापुरजनमोहक राम् । विदेहमानसरञ्जक राम् । त्र्यंबककार्मुखभञ्जक राम् । सीतार्पितवरमालिक राम् । कृतवैवाहिककौतुक राम् । भार्गवदर्पविनाशक राम् । श्रीमदयोध्यापालक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ अयोध्याकाण्डः ॥ अगणितगुणगणभूषित राम् । अवनीतनयाकामित राम् । राकाचन्द्रसमानन राम् । पितृवाक्याश्रितकानन राम् । प्रियगुहविनिवेदितपद राम् । तत्क्षालितनिजमृदुपद राम् । भरद्वाजमुखानन्दक राम् । चित्रकूटाद्रिनिकेतन राम् । दशरथसन्ततचिन्तित राम् । कैकेयीतनयार्पित राम् । विरचितनिजपितृकर्मक राम् । भरतार्पितनिजपादुक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ अरण्यकाण्डः ॥ दण्डकावनजनपावन राम् । दुष्टविराधविनाशन राम् । शरभङ्गसुतीक्ष्णार्चित राम् । अगस्त्यानुग्रहवर्दित राम् । गृध्राधिपसंसेवित राम् । पञ्चवटीतटसुस्थित राम् । शूर्पणखार्त्तिविधायक राम् । खरदूषणमुखसूदक राम् । सीताप्रियहरिणानुग राम् । मारीचार्तिकृताशुग राम् । विनष्टसीतान्वेषक राम् । गृध्राधिपगतिदायक राम् । शबरीदत्तफलाशन राम् । कबन्धबाहुच्छेदन राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ किष्किन्धाकाण्डः ॥ हनुमत्सेवितनिजपद राम् । नतसुग्रीवाभीष्टद राम् । गर्वितवालिसंहारक राम् । वानरदूतप्रेषक राम् । हितकरलक्ष्मणसंयुत राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ सुन्दरकाण्डः ॥ कपिवरसन्ततसंस्मृत राम् । तद्गतिविघ्नध्वंसक राम् । सीताप्राणाधारक राम् । दुष्टदशाननदूषित राम् । शिष्टहनूमद्भूषित राम् । सीतवेदितकाकावन राम् । कृतचूडामणिदर्शन राम् । कपिवरवचनाश्वासित राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ युद्धकाण्डः ॥ रावणनिधनप्रस्थित राम् । वानरसैन्यसमावृत राम् । शोषितशरदीशार्त्तित राम् । विभीष्णाभयदायक राम् । पर्वतसेतुनिबन्धक राम् । कुम्भकर्णशिरश्छेदन राम् । राक्षससङ्घविमर्धक राम् । अहिमहिरावणचारण राम् । संहृतदशमुखरावण राम् । विधिभवमुखसुरसंस्तुत राम् । खःस्थितदशरथवीक्षित राम् । सीतादर्शनमोदित राम् । अभिषिक्तविभीषणनुत राम् । पुष्पकयानारोहण राम् । भरद्वाजादिनिषेवण राम् । भरतप्राणप्रियकर राम् । साकेतपुरीभूषण राम् । सकलस्वीयसमानस राम् । रत्नलसत्पीठास्थित राम् । पट्टाभिषेकालंकृत राम् । पार्थिवकुलसम्मानित राम् । विभीषणार्पितरङ्गक राम् । कीशकुलानुग्रहकर राम् । सकलजीवसंरक्षक राम् । समस्तलोकोद्धारक राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । ॥ उत्तरकाण्डः ॥ आगत मुनिगण संस्तुत राम् । विश्रुतदशकण्ठोद्भव राम् । सितालिङ्गननिर्वृत राम् । नीतिसुरक्षितजनपद राम् । विपिनत्याजितजनकज राम् । कारितलवणासुरवध राम् । स्वर्गतचम्बुक संस्तुत राम् । स्वतनयकुशलवनन्दित राम् । अश्वमेधक्रतुदिक्षित राम् । कालावेदितसुरपद राम् । आयोध्यकजनमुक्तित राम् । विधिमुखविभुदानन्दक राम् । तेजोमयनिजरूपक राम् । संसृतिबन्धविमोचक राम् । धर्मस्थापनतत्पर राम् । भक्तिपरायणमुक्तिद राम् । सर्वचराचरपालक राम् । सर्वभवामयवारक राम् । वैकुण्ठालयसंस्तित राम् । नित्यनन्दपदस्तित राम् । रामराम जयराजा राम् । रामराम जयसीता राम् । N/A References : N/A Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP