मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| श्रीगणेशाय नम: ॥ अस्य श्र... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... श्रीरामरक्षा - श्रीगणेशाय नम: ॥ अस्य श्र... श्रीरामरक्षास्तोत्र - Shri Ramraksha Stotra Tags : ramstotraरामस्तोत्र श्रीरामरक्षास्तोत्र Translation - भाषांतर श्रीगणेशाय नम: ॥ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: । श्रीसीताराचन्द्रौ देवता । अनुष्टुप् छंद: । सीता शक्ति: । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रमंत्रजपे विनियोग : । ॥ अथ ध्यानम् ॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् ।पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाड्कारुढसीतामुखकमलमिलल्लोचनं नीरदाभम् । नानाऽलंकारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम ॥ ॥ इति ध्यानम् ॥ चरितं रघुनाथस्य शतकोटीप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ ध्यात्वा नीलोप्तलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥ सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । स्वलीलया जगतत्रातुमाविर्भूतमजं विभुम् ॥३॥ रामरक्षां पठेत् प्राज्ञ: पापघ्नीं सर्वकामदाम् । ' शिरो ' मे राघव:पातु, ' भालं ' दशरथात्मज: ॥४॥ "कौसल्येयो " दृशौ ' पातु, विश्वामित्रप्रिय: ' श्रुती ' । ' घ्राणं ' पातु मखत्राता, 'मुखं ' सौमित्रिवत्सल: ॥५॥ ' जिव्हा ' विद्यानिधि: पातु ' कण्ठं भरतवन्दित: । ' स्कन्धौ ' दिव्यायुध: पातु, ' भुजौ ' भग्नेशकार्मूक: ॥६॥ ' करौ ' सीतापति: पातु, ' हृदयं ' जामदग्न्यजित् । ' मध्यं ' पातु खरध्वंसी , ' नाभिं ' जाम्बवदाश्रय: ॥७॥ सुग्रीवेश: ' कटी ' पातु, ' सक्थिनी ' हनुमत्प्रभु: । ' उरु ' रघूत्तम: पातु , रक्ष: कुलविनाशकृत् ॥८॥ ' जानुनी ' सेतुकृत्पातु, ' जंघे ' दशमुखान्तक: । ' पादौ ' बिभीषणश्रीद: पातु, रामोऽखिलं वपु: ॥९॥ एतां रामबलोपेता रक्षां य: सुकृती पठेत् । स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ पातालभूतलव्योमचारीणश्छद्मचारिण: । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामाभि: ॥११॥ रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥ जगजैत्रैकमंत्रेण रामनान्माऽभिरक्षितम् । य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥१३॥ वज्रपत्र्त्ररनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञ: सर्वत्र लभते जयमड्गलम् ॥१४॥ आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: । तथा लिखितवान्प्रात: प्रबुद्धो बुधकौषिक: ॥१५॥ आराम: कल्पवृक्षाणां विराम: सकलापदाम् । अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥ तरुणौ रुपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्षणौ ॥१८॥ शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्ष: कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥ आतसज्जधनुषाविषुस्पृशावक्षयाशुगनिषड्गसंगिनौ । रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥२०॥ सन्नद्ध: कवची खड्गी चापबाणधरो युवा । गच्छन्मनोरथऽस्माकं राम: पातु सलक्ष्मण: ॥२१॥ रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । काकुत्स्थ: पुरुष: पूर्ण : कौसल्येयो रघुत्तम: ॥२२॥ वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥२३॥ इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयाऽन्वित: । अश्वमेधाधिकं पुण्य संप्राप्नोति न संशय: ॥२४॥ रामं दुर्वादलश्यामं पद्याक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्थं करुणार्णवं गुणानिधि विप्राप्रियं धार्मिकम् । राजेंन्द्रं सत्यसंघं दशरथतनयं श्यामलं शान्तमूर्तिम् । वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥ रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥ श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥२८॥ श्रीरामचन्द्ररणौ मनसा स्मरामि । श्रीरामचन्द्ररणौ वचसा गृणामि । श्रीरामचन्द्ररणौ शिरसा नमामि । श्रीरामचन्द्ररणौ शरणं प्रपद्ये ॥२९॥ माता रामो मप्तिता रामचन्द्र: । स्वामी रामो मत्सखा रामचंन्द्र: । सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं । जाने नैव जाने न जाने ॥३०॥ दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥ लोकभिरामं रणरड्गधीरं राजीवनेत्र रघुवंशनाथम् । कारुण्यरुपं करुणाकरं तं श्रीरामचंद्र शरणं प्रपद्ये ॥३२॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदुतं शरणं प्रपद्ये ॥३३॥ कूजत्नं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥ आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥ भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदुतानां रामरामेति गर्जनम् ॥३६॥ रामो राजमणि: सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नम: । रामन्नस्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्त्रनामतत्तुल्यं रामनाम वरानने ॥३८॥ ॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ N/A N/A Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP