मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| श्री शतकोटि रामचरितांतर्ग... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... आनंद रामायण - श्री शतकोटि रामचरितांतर्ग... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र आनंद रामायण पंचमः सर्गः एवं रामरक्षा Translation - भाषांतर श्री शतकोटि रामचरितांतर्गत श्रीमदानंदरामायणे पंचमः सर्गः प्रारंभः ।विष्णुदास उवाचश्री रामरक्षया प्रोक्तं कुशायह्यभिमंत्रणम् । कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥१॥रामरक्षां वरां पुण्यां बालानां शांतिकारिणीम् । इति शिष्यवचः श्रुत्वा रामदासोऽप्रवीद्वचः ॥२॥श्रीरामदास उवाचसम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते । या प्रोक्ता शंभुना पूर्वं स्कंदार्थं गिरिजां प्रति ॥३॥श्री शिव उवाचदेव्यद्य स्कंदपुत्राय रामरक्षाभिमंत्रिणम् । कुरु तारकधाताय समर्थोऽयं भविष्यति ॥४॥इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै । नमस्कृताय रामचंद्रं शुचिर्भूत्वा जितेन्द्रियैः ॥५॥अथ ध्यानम् ।वामे कोदंडदंडं निजकरकमले दक्षिणे बाणमेकं । पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् ।वामेऽवामे वसद्भ्यां सह मिलिततनुं जानकीलक्ष्मणाभ्याम् । श्यामं रामं भजेऽहं प्रणत जनमनः खेदविच्छेददक्षम् ॥६॥ॐ अस्य श्री रामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः । श्री रामचंद्रो देवता राम इति बीजम् ।अनुष्टुप् छंदः । श्री राम प्रीत्यर्थे जपे विनियोगः॥॥ॐ॥चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥७॥ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकी - लक्ष्मणोपेतं जटामुकुटमंडितम् ॥८॥सासितूण धनुर्बाण पाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥९॥रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥१०॥कौसल्येयो दृशौ पातु- विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥११॥जिह्वां विधानिधिः पातु कण्ठं भरतवंदितः । स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥१२॥करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनंदनः ॥१३ ॥(जादा चरण)मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥१४॥उरू रघूत्तमः पातु गुह्यं रक्षः कुलान्तकृत् । जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः ॥१५॥पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः । एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१६॥ पातालभूतलव्योम चारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥१७॥रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैउर्भुक्तिं मुक्तिं च विन्दति ॥१८॥जगच्चैकमंत्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥१९॥वज्रपंजरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥२०॥आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥२१॥रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली॥ काकुत्त्स्थः पुरुषः पूर्णः कौसल्यानंदवर्धनः ॥२२॥वेदांतवेधो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥२३॥इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयान्वितः । अश्वमेधधिकं पुण्यं लभते नात्रसंशयः ॥२४॥सन्नध्हः कवची खड्गी चायबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२५॥तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥२६॥फलमूलाशनौ दांतौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रतरौ रामलक्ष्मणौ ॥२७॥धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ । वरौ मां पथि रक्षेतां तावुबौ रामलक्ष्मणौ ॥२८॥शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥२९॥आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषंग संगिनौ । रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥३०॥आरामः कल्पवृक्षाणां विरामः सकलपदाम् । अभिरामस्त्रिलोकानं रामः श्रीमान्स नः प्रभुः ॥३१॥रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथय नाथाय सीतयाः पतये नमः ॥३२॥श्री राम रघुनंदन राम रामश्री राम भरताग्रज राम रामश्री राम रणकर्कश राम रामश्री राम शरणं भव राम राम ॥३३॥लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३४॥दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम् ॥३५गोष्पदीकृतवारीशं मशकीकृरराक्षसम् । रामायणमहामाला रत्नं वन्देऽनिलात्मजम् ॥३६॥अघौध तिष्ठ दूरे त्वं रोगास्तिष्ठंतु दूरतः । वरीवर्ती सदाऽस्माकं हृदि रमो धनुर्धरः ॥३७॥मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३८॥राम राम तव पाद पंकजं चिन्तयामि भवबंधमुक्तये । वंदितं सुरनरेंद्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥३७॥रामं लक्षमणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्यं करुणार्णवं गुणनिधिं विप्रप्रियं धर्र्मिकम् ।राजेन्द्रं सत्यसंधं दशरथनयं शामलं शान्तिमूर्तिम् । वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥४०॥एतानि रामनामानी प्रातरुत्थाय यः पठेत् । अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥४१॥माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥४२॥श्रीरामनामामृत मंत्रबीज संजीवनी चेन्मनसि प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥४३॥श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयनापि पुनः प्रयुक्तम् । त्रिःसप्तकृत्वो रघुनाथ नाम जपान्निहन्या द्विजकोटिहायाः ॥४४॥एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव । मयोपदिष्टा या स्वप्ने विश्वामित्राय वै पुरा ॥४५॥रामदास उवाचएवं शिवेनोपदिष्टं श्रुत्वा देवी गिरीन्द्रजा । रामरक्षां पठित्वा सा स्कंदं समभिमंत्रयत् ॥४६॥तस्यास्तेजोबलेनैव जघान तारकासुरम् । षडाननः क्षणदेव कृतकृत्योऽभवत् पुरा ॥४७॥सैवेयं रामरक्षास्ते मयाख्याताऽतिपुण्यदा । यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥४८॥वाल्मिकीनाऽनयापूर्वं कुशायह्यभिशेचनम् । कृतं बालग्रहाणां च शांत्यर्थं सा मयोदिता ॥४९॥बालानां ग्रहशांत्यर्थं जपनीया निरंतरम् । रामरक्षा महाश्रेष्ठा महाघौघ निवारिणी ॥५०॥नास्याः परतरं स्तोत्रं नास्याः परतरो जपः । नास्याः परतरं किंचित्सत्यं सत्यं वदाम्यहम् ॥५१॥॥ इति श्री शतकोटि रामचरितांतर्गत श्रीमदानन्दरामायणेवाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥ N/A References : भटिया शालीय ठक्कर गोवर्धनदास लक्ष्मीदासयांनी मुंबई येथे जगदीश्वर छापखान्यातलोकहितार्थ छापवून प्रसिद्ध केलाशके १८०८ सन् १८८७छापील पोथी : ग्रंथालय ग्रंथ क्र १०३ /१४५ )इ। स। १५ वे शतक Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP