मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| विशुद्धं परं सच्चिदानन्दर... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... श्रीरामभुजङ्गप्रयातस्तोत्रम् - विशुद्धं परं सच्चिदानन्दर... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessramstotraदेवतादेवीरामस्तोत्र श्रीरामभुजङ्गप्रयातस्तोत्रम् (श्री शंकराचार्यकृतम्) Translation - भाषांतर विशुद्धं परं सच्चिदानन्दरूपंगुणाधारमाधारहीनं वरेण्यम् ।महान्तं विभान्तं गुहान्तं गुणान्तंसुखान्तं स्वयं धाम रामं प्रपद्ये ॥१॥शिवं नित्यमेकं विभुं तारकाख्यंसुखाकारमाकारशून्यं सुमान्यम् ।महेशं कलेशं सुरेशं परेशम्नरेशं निरीशं महीशं प्रपद्ये ॥२॥यदावर्णयत्कर्णमूलेऽन्तकालेशिवो रामरामेति रामेति काश्याम् ।तदेकं परं तारकब्रह्मरूपंभजेऽहं भजेऽहं भजेऽहं भजेऽहं ॥३॥महारत्नपीठे शुभे कल्पमूलेसुखासीनमादित्यकोटिप्रकाशम् ।सदा जानकीलक्ष्मणोपेतमेकंसदा रामचन्द्रं भजेऽहं भजेऽहं ॥४॥क्वणद्रत्नमञ्जीरपादारविन्दंलसन्मेखलाचारुपीताम्बराढ्यम् ।महारत्नहारोल्लसत्कौस्तुभाङ्गंनदच्चञ्चरीमन्ञ्जरीलोलमालम् ॥५॥लसच्चन्द्रिकास्मेरशोणाधराभंसमुद्यत्पतङ्गेन्दुकोटिप्रकाशम् ।नमद्ब्रह्मरुद्रादिकोटीररत्न-स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥६॥पुरः प्राञ्जलीनाञ्जनेयादिभक्तान्स्वचिन्मुद्रया भद्रया बोधयन्तम् ।भजेऽहं भजेऽहं सदा रामचन्द्रंत्वदन्यं न मन्ये न मन्ये न मन्ये ॥७॥यदा मत्समीपं कृतान्तः समेत्यप्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् ।तदाविष्करोषि त्व्दीयं स्वरूपंसदापत्प्रणाशं सकोदण्डबाणम् ॥८॥निजे मानसे मन्दिरे सन्निधेहिप्रसीद प्रसीद प्रभो रामचन्द्र ।ससौमित्रिणा कैकयीनन्दनेनस्वशक्त्यानुभक्त्या च संसेव्यमान ॥९॥स्वभक्ताग्रगण्यैः कपीशैर्महीशै-रनीकैरनेकैश्च राम प्रसीद ।नमस्ते नमोऽस्त्वीश राम प्रसीदप्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥१०॥त्वमेवासि दैवं परं मे यदेकंसुचैतन्यमेतत्त्वदन्यं न मन्ये ।यतोऽभूदमेयं वियद्वायुतेजो-जलोर्व्यादिकार्यं चरं चाचरं च ॥११॥नमः सच्चिदानन्दरूपाय तस्मैनमो देवदेवाय रामाय तुभ्यम् ।नमो जानकीजीवितेशाय तुभ्यंनमः पुण्डरीकायताक्षाय तुभ्यम् ॥१२॥नमो भक्तियुक्तानुरक्ताय तुभ्यम्नमः पुण्यपुञ्जैकलभ्याय तुभ्यम् ।नमो वेदवेद्याय चाद्याय पुंसेनमः सुन्दरायेन्दिरावल्लभाय ॥१३॥नमो विश्वकर्त्रे नमो विश्वहर्त्रेनमो विश्वभोक्त्रे नमो विश्वमात्रे ।नमो विश्वनेत्रे नमो विश्वजेत्रेनमो विश्वपित्रे नमो विश्वमात्रे ॥१४॥नमस्ते नमस्ते समस्तप्रपञ्च-प्रभोगप्रयोगप्रमाणप्रवीण ।मदीयं मनः त्वत्पदद्वन्द्वसेवांविधातुं प्रवृतं सुचैतन्यसिद्ध्यै ॥१५॥शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-प्रसादाद्धि चैतन्यमाधत्त राम ।नरस्त्वत्पदद्वन्द्वसेवाविधाना-त्सुचैतन्यमेतीति किं चित्रमत्र ॥१६॥पवित्रं चरित्रं विचित्रं त्वदीयंनरा ये स्मरन्त्यन्वहं रामचन्द्र ।भवन्तं भवान्तं भरन्तं भजन्तोलभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥१७॥स पुण्यः स गण्यः शरण्यो ममायंनरो वेद यो देवचूडामणिं त्वाम् ।सदाकारमेकं चिदानन्दरूपंमनोवागगम्यं परं धाम राम ॥१८॥प्रचण्डप्रतापप्रभावाभिभूत-प्रभूतारिवीर प्रभो रामचन्द्र ।बलं ते कथं वर्ण्यतेऽतीव बाल्येयतोऽखण्डि चण्डीशकोदण्डदण्डम् ॥१९॥दशग्रीवमुग्रं सपुत्रं समित्रंसरिद्दुर्गमध्यस्थरक्षोगणेशम् ।भवन्तं विना राम वीरो नरो वाऽ-सुरो वामरो वा जयेत् कस्त्रिलोक्याम् ॥२०॥सदा राम रामेति रामामृतं तेसदा राममानन्दनिष्यन्दकन्दम् ।पिबन्तं नमन्तं सुदन्तं हसन्तंहनुमन्तमन्तर्भजे तं नितान्तम् ॥२१॥सदा राम रामेति रामामृतं तेसदा राममानन्दनिष्यन्दकन्दम् ।पिबन्नन्वहं नन्वहं नैव मृत्योर्-बिभेमि प्रसादादसादात्तवैव ॥२२॥असीतासमेतैरकोदण्डभूषै-रसौमित्रिवन्द्यैरचण्डप्रतापैः ।अलङ्केशकालैरसुग्रीवमित्रै-ररामाभिधेयैरलं दैवतैर्नः ॥२३॥अवीरासनस्थैरचिन्मुद्रिकाढ्यै-रभक्ताञ्जनेयादितत्वप्रकाशैः ।अमन्दारमूलैरमन्दारमालै-ररामाभिधेयैरलं दैवतैर्नः ॥२४॥असिन्धुप्रकोपैरवन्द्यप्रतापै-रबन्धुप्रयाणैरमन्दस्मिताढ्यैः ।अदण्डप्रवासैरखण्डप्रबोधै-ररामाभिधेयैरलं दैवतैर्नः ॥२५॥हरे राम सीतापते रावणारेखरारे मुरारेऽसुरारे परेति ।लपन्तं नयन्तं सदाकालमेवंसमालोकयालोकयाशेषबन्धो ॥२६॥नमस्ते सुमित्रासुपुत्राभिवन्द्यनमस्ते सदा कैकयीनन्दनेड्य ।नमस्ते सदा वानराधीशवन्द्यनमस्ते नमस्ते सदा रामचन्द्र ॥२७॥प्रसीद प्रसीद प्रचण्डप्रतापप्रसीद प्रसीद प्रचण्डारिकाल ।प्रसीद प्रसीद प्रपन्नानुकंपिन्प्रसीद प्रसीद प्रभो रामचन्द्र ॥२८॥भुजन्ङ्गप्रयातं परं वेदसारंमुदा रामचन्द्रस्य भक्त्या च नित्यम् ।पठन् सन्ततं चिन्तयन् स्वान्तरङ्गेस एव स्वयं रामचन्द्रः स धन्यः ॥२९॥ N/A References : N/A Last Updated : December 31, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP