मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| ह्ममहेन्द्रसुरेन्द्रमरुद्... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... श्रीसीतारामाष्टकम् - ह्ममहेन्द्रसुरेन्द्रमरुद्... श्री राम हा विष्णुचा सातवा अवतार आहे.The Ramayana is the world's oldest literature. Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर ह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् । भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्धनमूर्ति त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदांबुजदास्यम् ॥ १ ॥ पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरदनीलतनोऽखिललोकह्रदंबुजभासकभानो । कोमलगात्रपवित्रपदाब्जरजःकणपावितगौतमकान्तं त्वां भजतो० ॥ २ ॥ पूर्णपरात्पर पालयमामतिदीनमनाथमनन्त सुखाब्धे प्रावृडदभ्रतडित्सुमनोहरपीतवरांबर | राम नमस्ते कामविभंजन कांततरानन काञ्चनभूषण रत्नकिरीटं त्वां भजतो० ॥ ३ ॥ दिव्यशरच्छशिकांतिहरोज्जवलमौक्तिकमालविशालसुमौले कोटिरविप्रभचारुचरित्र पवित्रविचित्रधनुःशरपाणे । चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं त्वां भजतो० ॥ ४ ॥ दोषविहिंस्त्र भुजंगसहस्त्रसुरोषमहानलकीलकलापे जन्मजरामरणोर्मिमनोमदमन्मथनक्रविचक्रभवाब्धौ । दुःखनिधौ च चिरं पतितं कृपयाऽद्य समुद्धर राम ततो मां त्वां भजतो० ॥ ५ ॥ संसृतिघोरमदोत्कटकुंजरतृट्क्षुदनीरदपिंडिततुण्डं दण्डकरोन्मथितं च रजस्तम उन्मदमोहपदोज्झितमार्तम् । दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो० ॥ ६ ॥ जन्मशतार्जितपापसमन्वितह्रत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यतिमंदमनीषे । त्वं जननी भगिनी च पिता मम तावदसि त्वविताऽपि कृपालो त्वां भजतो० ॥ ७ ॥ त्वां तु दयालुमकिंचनवत्सलमुत्पलहारमपारमुदारं राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् । त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदाऽव ससीतं त्वां भजतो० ॥ ८ ॥ यः करुणामृतसिंधुरनाथजनोत्तमबंधुरजोत्तमकारी भक्तभयोर्मिभवाब्धितरी सरयूतटिनीतटचारुविहारी । तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु पठेदमरः । स नरो लभतेऽच्युतरामपदांबुजदास्यम् ॥ ९ ॥ इति श्रीमन्मधुसूदनाश्रमशिष्याच्युतयतिविरचितं श्रीमत्सीतारामाष्टकं संपूर्णम् । इति रामस्तोत्राणि ॥ १३ ॥ N/A References : N/A Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP