मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| ध्यायेदाजानुबाहुं धृतशरधन... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... रामरक्षास्तोत्रम् - ध्यायेदाजानुबाहुं धृतशरधन... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessramstotraदेवतादेवीरामस्तोत्र रामरक्षास्तोत्रम् (बुधकौशिककृतम्) Translation - भाषांतर ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थंपीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभंनानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥१॥चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् ॥२॥ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।जानकीलक्ष्मणोपेतं जटामकुटमण्डितम् ॥३॥सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥४॥रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।शिरो मे राघवः पातु भालं दशरथात्मजः ॥५॥कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥६॥जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥७॥करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥८॥सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥९॥जानुनी सेतुकृत् पातु जङ्खे दशमुखान्तकः ।पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥१०॥एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥११॥पातालभूतलव्योमचारिणः छद्मारिणः ।न द्रष्टुमपि शक्तास्ते रक्षितं रमनामभिः ॥१२॥रामेति रामभद्रेति रामचन्द्रेति वा स्मरन ।नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१३॥जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥१४॥वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१५॥आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।तथा लिखितवान् प्राप्तः प्रबुद्धो बुधकौशिकः ॥१६॥आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।अभिरामस्त्रिलोकानां रामः श्रीमन्स नः प्रभुः ॥१७॥तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१८॥फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१९॥शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥२०॥आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौरक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२१॥सन्नद्धः कवची खड्गी चापबाणधरो युवा ।गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥२२॥रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२३॥वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२४॥इत्येतानि जपन्नितयं मद्भक्तः श्रद्धयान्वितः ।अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२५॥रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नराः ॥२६॥रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दॢंकाकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिंवन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२७॥रामाय रामभद्राय रामचन्द्राय वेधस ।रघुनाथाय नाथाय सीतायाः पतये नमः ॥२८॥श्रीराम राम रघुनन्दन राम रामश्रीराम राम भरताग्रज राम राम ।श्रीराम राम रणकर्कश राम रामश्रीराम राम शरणं भव राम राम ॥२९॥श्रीरामचन्द्रचरणौ मनसा स्मरामिश्रीरामचन्द्रचरणौ वचसा गृणामि ।श्रीरामचन्द्रचरणौ शिरसा नमामिश्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥३०॥माता रामो मत्पिता रामचन्द्रःस्वामी रामो मत्सखा रामचन्द्रः ।सर्वस्वं मे जीवितेशो दयालु-र्नान्यं दैवं नैव जाने न जाने ॥३१॥दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३२॥लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥३३॥मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३४॥कूजन्तं रामरामेति मधुरं मधुराक्षरं ।आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३५॥आपदामपहर्तारं दातारं सर्वसंपदाम ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३६॥भर्जनं भवबीजानां अर्जनं सुखसंपदाम् ।तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३७॥रमो राजमणिः सदा विजयते रामं रमेशं भजेरामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहंरामे चित्तलयः सदा भवतु मेभो राम मामुद्धर ॥३८॥राम रामेति रामेति रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ N/A References : N/A Last Updated : December 31, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP