मन्त्र - ६५१ ते ७००

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।

दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥६५१॥

नमस्तस्यै नमो नमः ॥६५२॥

ऋषिरुवाच ॥६५३॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता॥नमस्तस्यै ॥६५४॥

परमैश्व र्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।

एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥६५५॥

नमस्तस्यै ॥६५६॥

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।

भज त्वं च चञ्चलापाङ्‌गि रत्नरभूतासि वै यतः ॥६५७॥

नमस्तस्यै नमो नमः ॥६५८॥

स्त्रीरत्नाभूतां त्वां देवि लोके मन्यामहे वयम् ।

सा त्वमस्मानुपागच्छ यतो रत्न भुजो वयम् ॥६५९॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता॥नमस्तस्यै ॥५६०॥

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।

रत्न भूतानि भूतानि तानि मय्येव शोभने ॥६६१॥

नमस्तस्यै ॥६६२॥

क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।

उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥६६३॥

नमस्तस्यै नमो नमः ॥६६४॥

त्रैलोक्ये वररत्नानि मम वश्यापन्यशेषतः ।

तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् ॥६६५॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६६६॥

मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।

यज्ञभागानहं सर्वानुपाश्ना मि पृथक् पृथक् ॥६६७॥

नमस्तस्यै ॥६६८॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।

निर्जिताखिलदैत्यारिः स यदाह श्रृणुष्व तत् ॥६६९॥

नमस्तस्यै नमो नमः ॥६७०॥

देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वणरः ।

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥६७१॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥६७२॥

दूत उवाच ॥६७३॥

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।

नमस्तस्यै ॥६७४॥

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।

सा देवी तां ततः प्राह  श्लक्ष्णं मधुरया गिरा ॥६७५॥

नमस्तस्यै ॥६७६॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम ।

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥६७७॥

नमस्तस्यै नमो नमः ॥६७८॥

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥६७९॥

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।

करोतु सा नः शुभहेतुरीश्वसरी शुभानि भद्राण्यभिहन्तु चापदः ॥६८०॥

ऋषिरुवाच ॥६८१॥

या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥६८२॥

एवं दैत्येन्द्र रत्नादनि समस्तान्याहृतानि ते ।

स्त्रीरत्ननमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥६८३॥

ऋषिरुवाच ॥६८४॥

निशुम्भस्याब्धिजाताश्चस समस्ता रत्नजातयः ।

वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥६८५॥

एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।

स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥६८६॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।

पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥६८७॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।

शरीरकोशतश्चा्स्याः समुद्भूताब्रवीच्छिवा ॥६८८॥

छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।

तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः ॥६८९॥

स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः ।

देवैः समेतैः समरे निशुम्भेन पराजितैः ॥६९०॥

निधिरेष महापद्मः समानीतो धनेश्व्रात् ।

किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम् ॥६९१॥

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।

कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥६९२॥

विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्‌गणे ।

रत्ननभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥६९३॥

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।

कालिकेति समाख्याता हिमाचलकृताश्रया ॥६९४॥

ऐरावतः समानीतो गजरत्नंस पुरन्दरात् ।

पारिजाततरुश्चा यं तथैवोच्चैःश्रवा हयः ॥६९५॥

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।

ददर्श चण्डो मुण्डश्च  भृत्यौ शुम्भनिशुम्भयोः ॥६९६॥

यानि रत्नाठनि मणयो गजाश्वानदीनि वै प्रभो ।

त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥६९७॥

ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।

काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥६९८॥

स्त्रीरत्नामतिचार्वङ्‌गी द्योतयन्ती दिशस्त्विषा ।

सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥६९९॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥७००ॐ॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येऽध्यायः॥
===========
मन्त्र प्रतिलोम दुर्गासप्तशतीचा पाठ केल्यानंतर अङ्गन्यास करून ध्यान पूर्वक देवी सूक्तचे पठन करावे. आणि एक माला नवार्ण मन्त्राचा जप करून रहस्यत्रय (प्राधानिक, मूर्ति, वैकृतिक रहस्यम्) चा पण पाठ करावा.

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP