मन्त्र - २५१ ते ३००

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


जज्वलुश्चा ऽग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥२५१॥

वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात् ॥२५२॥

अवादयंस्तथैवान्ये ननृतुश्चावप्सरोगणाः ।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥२५३॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥२५४॥

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥२५५॥

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।

कालश्चो दत्तवान् खड्‌गं तस्याश्चर्म च निर्मलम् ॥२५६॥

उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥२५७॥                             

क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥२५८॥

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥२५९॥

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥२६०॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः ।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥२६१॥

अङ्‌गुलीयकरत्नानि समस्तास्वङ्‌गुलीषु च ।

विश्वौकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥२६२॥

तमायान्तं ततो देवी सर्वदैत्यजनेश्ववरम् ।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥२६३॥

अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।

अम्लानपङ्‌कजां मालां शिरस्युरसि चापराम् ॥२६४॥

स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः ।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥२६५॥

अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम् ।

हिमवा‍न् वाहनं सिंहं रत्नाचनि विविधानि च ॥२६६॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।

उत्पात्य भ्रामयामास चिक्षेप धरणीतले ॥२६७॥

ददावशून्यं सुरया पानपात्रं धनाधिपः ।

शेषश्चन सर्वनागेशो महामणिविभूषितम् ॥२६८॥

नियुद्धं खे तदा दैत्यश्चणण्डिका च परस्परम् ।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥२६९॥

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्॥

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥२७०॥

उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।

तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥२७१॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥२७२॥

तलप्रहाराभिहतो निपपात महीतले ।

स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥२७३॥

अमायतातिमहता प्रतिशब्दो महानभूत् ।

चुक्षुभुः सकला लोकाः समुद्राश्च् चकम्पिरे ॥२७४॥

स मुष्टिं पातयामास हृदये दैत्यपुङ्‌गवः ।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥२७५॥

चचाल वसुधा चेलुः सकलाश्चद महीधराः ।

जयेति देवाश्चल मुदा तामूचुः सिंहवाहिनीम् ॥२७६॥

चिच्छेदापततस्तस्य मुद्‌गरं निशितैः शरैः ।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥२७७॥

तुष्टुवुर्मुनयश्चैकनां भक्तिनम्रात्ममूर्तयः ।

दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ॥२७८॥

हताश्वः  स तदा दैत्यश्छिदन्नधन्वा विसारथिः ।

जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यतः ॥२७९॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥२८०॥

तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका ।

धनुर्मुक्तैः शितैर्बाणैश्चवर्म चार्ककरामलम् ॥२८१॥

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥२८२॥

ततः खड्‌गमुपादाय शतचन्द्रं च भानुमत् ।

अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः ॥२८३॥      

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥२८४॥

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥२८५॥

दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम् ।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥२८६॥

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥२८७॥

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।

महिषासुरसेनानीश्चिधक्षुराख्यो महासुरः ॥२८८॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वभरी ।

बभञ्ज लीलयैवोग्रहुङ्‌कारोच्चारणादिभिः ॥२८९॥

युयुधे चामरश्चा्न्यैश्चुतुरङ्‌गबलान्वितः ।

रथानामयुतैः षड्‌भिरुदग्राख्यो महासुरः ॥२९०॥

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।

बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥२९१॥

अयुध्यतायुतानां च सहस्रेण महाहनुः ।

पञ्चाशद्‌भिश्च् नियुतैरसिलोमा महासुरः ॥२९२॥

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैःव दारुणैः ।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥२९३॥

अयुतानां शतैः षड्‌भिर्बाष्कलो युयुधे रणे ।

गजवाजिसहस्रौघैरनेकैः परिवारितः ॥२९४॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।

पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥२९५॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥२९६॥

ऋषिरुवाच ॥२९७॥

युयुधे संयुगे तत्र रथानां परिवारितः ।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥२९८॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥२९९॥

युयुधुः संयुगे देव्या सह तत्र महासुराः ।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥३००॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP