मन्त्र - ५१ ते १००
मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.
मोह्यन्ते मोहिताश्चै्व मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीरम् ॥५१॥
राजोवाच ॥५२॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्ययश्च् तथैवान्ये विवेकिनः ॥५३॥
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥५४॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥५५॥
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥५६॥
ऋषिरुवाच ॥५७॥
वैश्य उवाच ॥५८॥
स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ।
ददाति वित्तं पुत्रांश्चर मतिं धर्मे गतिं शुभाम् ॥५९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥६०॥
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथाऽलक्ष्मीर्विनाशायोपजायते ॥६१॥
किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥६२॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥६३॥
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥६४॥
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्व्र ।
महाकाल्या महाकाले महामारीस्वरूपया ॥६५॥
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वा सो दौर्मनस्यं च जायते ॥६६॥
तयैतन्मोह्यते विश्वंत सैव विश्वं । प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥६७॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥६८॥
एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम् ॥६९॥
मार्कण्डेय उवाच ॥७०॥
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥७१॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥७२॥
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
दैत्याश्चज देव्या निहते शुम्भे देवरिपौ युधि ॥७३॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥७४॥
पश्यतामेव देवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्काः स्वाधिकारान् यथा पुरा ॥७५॥
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यतपार्थिवौ ॥७६॥
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥७७॥
राजोवाच ॥७८॥
ऋषिरुवाच ॥७९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥८०॥
दूरादेव पलायन्ते स्मरतश्चयरितं मम ॥८१॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥८२॥
स्मरन्ममैतच्चरितं नरो मुच्येत संकटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥८३॥
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥८४॥
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥८५॥
स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥८६॥
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥८७॥
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥८८॥
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥८९॥
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥९०॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥९१॥
ऋषिरुवाच ॥९२॥
तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
युष्माभिः स्तुतयो याश्चभ याश्चत ब्रह्मर्षिभिःकृताः ॥९३॥
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥९४॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥९५॥
विषयश्च महाभाग याति चैवं पृथक् पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥९६॥
प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते ।
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥९७॥
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥९८॥
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्चं विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥९९॥
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥१००॥
N/A
References : N/A
Last Updated : July 28, 2026

TOP