संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| २०१ ते २५० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - २०१ ते २५० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - २०१ ते २५० Translation - भाषांतर एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२०१॥विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥२०२॥सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२०३॥ ऋषिरुवाच ॥२०४॥मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२०५॥तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः ॥२०६॥लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे ।महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते ॥२०७॥एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते ॥२०८॥दंष्ट्राकरालवदने शिरोमालाविभूषणे ।चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥२०९॥ऋषिरुवाच ॥२१०॥शिवदूतीस्वरूपेण हतदैत्यमहाबले ।घोररूपे महारावे नारायणि नमोऽस्तु ते ॥२११॥देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥२१२॥किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥२१३॥तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥२१४॥नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥२१५॥ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥२१६॥गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे ।वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥२१७॥यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥२१८॥शङ्खचक्रगदाशाङ्र्गगृहीतपरमायुधे ।प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥२१९॥सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ॥२२०॥मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥२२१॥स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥२२२॥त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।माहेश्वचरीस्वरूपेण नारायणि नमोऽस्तु ते ॥२२३॥एतद्वः कथितं सर्वममरारिविचेष्टितम् ।शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥२२४॥हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥२२५॥इत्थं निशम्य देवानां वचांसि मधुसूदनः ।चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥२२६॥शरणागतदीनार्तपरित्राणपरायणे ।सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥२२७॥ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।निश्चिक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥२२८॥सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥२२९॥ अन्येषां चैव देवानां शक्रादीनां शरीरतः ।निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥२३०॥सर्वमङ्गलमंङ्गल्ये शिवे सर्वार्थसाधिके ।शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥२३१॥अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥२३२॥कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।विश्वषस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥२३३॥अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥२३४॥सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥२३५॥यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥२३६॥सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी ।त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥२३७॥सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।वारुणेन च जङ्घो्रू नितम्बस्तेजसा भुवः ॥२३८॥विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु ।त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः ॥२३९॥ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥२४०॥त्वं वैष्णवी शक्तिरनन्तवीर्या विश्ववस्य बीजं परमासि माया ।सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥२४१॥तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।नयनत्रितयं जज्ञे तथा पावकतेजसा ॥२४२॥आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि ।अपां स्वरूपस्थितया त्वयैत- दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥२४३॥भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च ।अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥२४४॥देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ।प्रसीद विश्वेगश्वीरि पाहि विश्वंभ त्वमीश्विरी देवि चराचरस्य ॥२४५॥ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥२४६॥देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः ॥२४७॥शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः ॥२४८॥ऋषिरुवाच ॥२४९॥शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।मारुतो दत्तवांश्चारपं बाणपूर्णे तथेषुधी ॥२५०॥ N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP