संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| १५१ ते २०० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - १५१ ते २०० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - १५१ ते २०० Translation - भाषांतर दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति ।पुनश्चादहं यदा भीमं रूपं कृत्वा हिमाचले ॥१५१॥त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेत च सर्वदा ।विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥१५२॥शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥१५३॥तथा संहृतिरूपान्तेा जगतोऽस्य जगन्मये ।महाविद्या महामाया महामेधा महास्मृतिः ॥१५४॥ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥१५५॥महामोहा च भवती महादेवी महासुरी ।प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥१५६॥ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥१५७॥कालरात्रिर्महारात्रिर्मोहरात्रिश्च् दारुणा ।त्वं श्रीस्त्वमीश्विरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥१५८॥भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥१५९॥लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥१६०॥ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥१६१॥शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥१६२॥भक्षयन्त्याश्चा तानुग्रान् वैप्रचित्तान्महासुरान् ।रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥१६३॥परापराणां परमा त्वमेव परमेश्वतरी ।यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥१६४॥पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥१६५॥तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ।यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥१६६॥नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥१६७॥सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वोरः ।विष्णुः शरीरग्रहणमहमीशान एव च ॥१६८॥वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।शुम्भो निशुम्भश्चैावान्यावुत्पत्स्येते महासुरौ ॥१६९॥कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥१७०॥देव्युवाच ॥१७१॥मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥१७२॥सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वकरि ।एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥१७३॥बोधश्चं क्रियतामस्य हन्तुतमेतौ महासुरौ ॥१७४॥देवा ऊचुः ॥१७५॥ऋषिरुवाच ॥१७६॥वरदाहं सुरगणा वरं यन्मनसेच्छथ ।तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥१७७॥एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥१७८॥देव्युवाच ॥१७९॥विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥१८०॥प्रणतानां प्रसीद त्वं देवि विश्वागर्तिहारिणि ।त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥१८१॥निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥१८२॥पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च् महोपसर्गान् ॥१८३॥एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ ॥१८४॥विश्वेश्वरि त्वं परिपासि विश्वं॥विश्वात्मिका धारयसीति विश्विम् ।विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥१८५॥देवि प्रसीद परिपालय नोऽरिभीते-र्नित्यं यथासुरवधादधुनैव सद्यः ।क्रोधरक्तेुक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥१८६॥रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र ।दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्व्म् ॥१८७॥पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥१८८॥विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या ।ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वाम् ॥१८९॥उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥१९०॥एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् ।रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या ॥१९१॥श्रीभगवानुवाच ॥१९२॥रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥१९३॥ भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥१९४॥असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥१९५॥ किमन्येन वरेणात्र एतावद्धि वृतं मम ॥१९६॥हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥१९७॥ऋषिरुवाच ॥१९८॥ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥१९९॥वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥२००॥ N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP