मन्त्र - ३५१ ते ४००

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


अट्टाट्टहासमशिवं शिवदूती चकार ह ।

तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥३५१॥    

स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।

यथा मेरुगिरेः श्रृङ्‌गं तोयवर्षेण तोयदः ॥३५२॥

ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।

कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥३५३॥

तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।

जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥३५४॥

ततः सिंहो महानादैस्त्याजितेभमहामदैः ।

पूरयामास गगनं गां तथैव दिशो दश ॥३५५॥

चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् ।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥३५६॥

पूरयामास ककुभो निजघण्टास्वनेन च ।

समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥३५७॥

सच्छिन्नधन्वा विरथो हताश्वोन हतसारथिः ।

अभ्यधावत तां देवीं खड्‌गचर्मधरोऽसुरः ॥३५८॥

तमायान्तं समालोक्य देवी शङ्‌खमवादयत् ।

ज्याशब्दं चापि धनुषश्चीकारातीव दुःसहम् ॥३५९॥

सिंहमाहत्य खड्‌गेन तीक्ष्णधारेण मूर्धनि ।

आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥३६०॥

स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।

भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥३६१॥

तस्याः खड्‌गो भुजं प्राप्य पफाल नृपनन्दन ।

ततो जग्राह शूलं स कोपादरुणलोचनः ॥३६२॥

तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।

भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥३६३॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥३६४॥

ततः परशुहस्तं तमायान्तं दैत्यपुङ्‌गवम् ।

आहत्य देवी बाणौघैरपातयत भूतले ॥३६५॥

दृष्ट्वाम तदापतच्छूलं देवी शूलममुञ्चत ।

तच्छूलं शतधा तेन नीतं स च महासुरः ॥३६६॥

आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।

सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥३६७॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।

आजगाम गजारूढश्चारमरस्त्रिदशार्दनः ॥३६८॥

कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।

आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥३६९॥

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।

हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ॥३७०॥

छिन्ने चर्मणि खड्‌गे च शक्तिं चिक्षेप सोऽसुरः ।

तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥३७१॥

भग्नां शक्तिं निपतितां दृष्‌ट्वा क्रोधसमन्वितः ।

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥३७२॥

ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।

निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥३७३॥

ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥३७४॥

निशुम्भो निशितं खड्‌गं चर्म चादाय सुप्रभम् ।

अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥३७५॥

युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।

युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥३७६॥

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।

ताडयामास चाङ्‌गेषु शस्त्रौघैरसुरेश्वतरौ ॥३७७॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।

करप्रहारेण शिरश्चा्मरस्य पृथक्कृतम् ॥३७८॥

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।

शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥३७९॥

उदग्रश्चे रणे देव्या शिलावृक्षादिभिर्हतः ।

दन्तमुष्टितलैश्चै व करालश्चक निपातितः ॥३८०॥

आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।

निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥३८१॥

देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥३८२॥

तस्याग्रतस्तथा पृष्ठे पार्श्वरयोश्च । महासुराः ।

संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥३८३॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥३८४॥

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।

अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥३८५॥

बिडालस्यासिना कायात्पातयामास वै शिरः ।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥३८६॥

चकार कोपमतुलं रक्तबीजे निपातिते ।

शुम्भासुरो निशुम्भश्चे हतेष्वन्येषु चाहवे ॥३८७॥

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ।

माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥३८८॥

ऋषिरुवाच ॥३८९॥

कांश्चितुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।

लाङ्‌गूलताडितांश्चारन्याञ्छृङ्‌गाभ्यां च विदारितान् ॥३९०॥

भूयश्चे्च्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।

चकार शुम्भो यत्कर्म निशुम्भश्चा तिकोपनः ॥३९१॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।

निःश्वासपवनेनान्यान् पातयामास भूतले ॥३९२॥

विचित्रमिदमाख्यातं भगवन् भवता मम ।

देव्याश्चदरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥३९३॥

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥३९४॥

राजोवाच ॥३९५॥

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।

श्रृङ्‌गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥३९६॥

तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धतः ॥३९७॥

वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।

लाङ्‌गूलेनाहतश्चासब्धिः प्लावयामास सर्वतः ॥३९८॥

नीरक्तश्ची महीपाल रक्तबीजो महासुरः ।

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥३९९॥

धुतश्रृङ्‌गविभिन्नाश्च‍ खण्डं खण्डं ययुर्घनाः ।

श्वा्सानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥४००॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP