मन्त्र - ५५१ ते ६००

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।

मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥५५१॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै ॥५५२॥

एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।

पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥५५३॥

नमस्तस्यै ॥५५४॥

तथैव योधं तुरगै रथं सारथिना सह ।

निक्षिप्य वक्त्रे दशनैश्चनर्वयन्त्यतिभैरवम् ॥५५५॥

नमस्तस्यै नमो नमः ॥५५६॥

पार्ष्णिग्राहाङ्‌कुशग्राहियोधघण्टासमन्वितान् ।

समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥५५७॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै ॥५५८॥

सा वेगेनाभिपतिता घातयन्ती महासुरान् ।

सैन्ये तत्र सुरारीणामभक्षयत तद्‌बलम् ॥५५९॥

नमस्तस्यै ॥५६०॥

अतिविस्तारवदना जिह्वाललनभीषणा ।

निमग्नारक्तनयना नादापूरितदिङ्‌मुखा ॥५६१॥

नमस्तस्यै नमो नमः ॥५६२॥

विचित्रखट्‌वाङ्‌गधरा नरमालाविभूषणा ।

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥५६३॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै ॥५६४॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।

काली करालवदना विनिष्क्रान्तासिपाशिनी ॥५६५॥

नमस्तस्यै ॥५६६॥

ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।

कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५६७॥

नमस्तस्यै नमो नमः ॥५६८॥

ते दृष्ट्‌वा तां समादातुमुद्यमं चक्रुरुद्यताः ।

आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥५६९॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै ॥५७०॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।

सिंहस्योपरि शैलेन्द्रशृङ्‌गे महति काञ्चने ॥५७१॥

नमस्तस्यै ॥५७२॥

आज्ञप्तास्ते ततो दैत्याश्चाण्डमुण्डपुरोगमाः ।

चतुरङ्गाबलोपेता ययुरभ्युद्यतायुधाः ॥५७३॥

नमस्तस्यै नमो नमः ॥५७४॥

ऋषिरुवाच ॥५७५॥

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता॥ नमस्तस्यै ॥५७६॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥५७७॥

नमस्तस्यै ॥५७८॥

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥५७९॥

नमस्तस्यै नमो नमः ॥५८०॥

हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।

तत्र गच्छत गत्वा च सा समानीयतां लघु ॥५८१॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता॥नमस्तस्यै ॥५८२॥

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥५८३॥

नमस्तस्यै ॥५८४॥

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥५८५॥

नमस्तस्यै नमो नमः ॥५८६॥

क्षणेन तद्‌बलं सर्वं क्षयं नीतं महात्मना ।

तेन केसरिणा देव्या वाहनेनातिकोपिना ॥५८७॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता॥नमस्तस्यै ॥५८८॥

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।

पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥५८९॥

नमस्तस्यै ॥५९०॥

केषांचित्पाटयामास नखैः कोष्ठानि केसरी ।

तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥५९१॥

नमस्तस्यै नमो नमः ॥५९२॥

कांश्चिरत् करप्रहारेण दैत्यानास्येन चापरान् ।

आक्रम्य चाधरेणान्यान्‌ स जघान महासुरान् ॥५९३॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता॥नमस्तस्यै ॥५९४॥

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥५९५॥

नमस्तस्यै ॥५९६॥

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वाधैः ॥५९७॥

नमस्तस्यै नमो नमः ॥५९८॥

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।

हुंकारेणैव तं भस्म सा चकाराम्बिका ततः ॥५९९॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता॥नमस्तस्यै ॥६००॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP