मन्त्र - ४५१ ते ५००

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।

वाराहमूर्त्या न्यपतंश्चषक्रेण च विदारिताः ॥४५१॥

या मुक्तिहेतुरविचिन्त्यमहाव्रता त्व-मभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-र्विर्द्यासि सा भगवती परमा हि देवि ॥४५२॥

ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः ।

पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥४५३॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-मुद्‌गीथरम्यपदपाठवतां च साम्नाम् ।

देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री ॥४५४॥

माहेश्वणरी त्रिशूलेन तथा चक्रेण वैष्णवी ।

दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥४५५॥

मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्‌गा ।

श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥४५६॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।

ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥४५७॥

ईषत्सहासममलं परिपूर्णचन्द्र-बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥४५८॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।

खट्‌वाङ्‌गपोथितांश्चा ।रीन् कुर्वती व्यचरत्तदा ॥४५९॥

दृष्ट्‌वा तु देवि कुपितं भ्रुकुटीकराल-मुद्यच्छशाङ्‌कसदृशच्छवि यन्न सद्यः ।

प्राणान्मुमोच महिषस्तदतीव चित्रं  कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥४६०॥

सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वःधान् ।

चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभिः ॥४६१॥

देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञातमेतदधुनैव यदस्तमेत-न्नीतं बलं सुविपुलं महिषासुरस्य ॥४६२॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।

ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥४६३॥

ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त एव निभृतात्मजभृत्यदारा  येषां सदाभ्युदयदा भवती प्रसन्ना ॥४६४॥

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।

अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥४६५॥

धर्म्याणि देवि सकलानि सदैव कर्मा-ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवतीप्रसादात्  लोकत्रयेऽपि फलदा ननु देवि तेन ॥४६६॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥४६७॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥४६८॥

बलावलेपादथ चेद्भवन्तो युद्धकाङ्‌क्षिणः ।

तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥४६९॥

एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् ।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि ॥४७०॥

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥४७१॥

दृष्ट्‌वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता  इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ॥४७२॥

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥४७३॥

खड्‌गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड-योग्याननं तव विलोकयतां तदेतत् ॥४७४॥

सा चाह धूम्रजटिलमीशानमपराजिता ।

दूत त्वं गच्छ भगवन् पार्श्वंर शुम्भनिशुम्भयोः ॥४७५॥

दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां  वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥४७६॥

ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।

चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥४७७॥

केनोपमा भवतु तेऽस्य पराक्रमस्य  रूपं च शत्रुभयकार्यतिहारि कुत्र ।

चित्ते कृपा समरनिष्ठुरता च दृष्टा  त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥४७८॥

ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।

हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽऽहचण्डिकाम् ॥४७९॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्त-मस्माकमुन्मदसुरारिभवं नमस्ते ॥४८०॥

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥४८१॥

शूलेन पाहि नो देवि पाहि खड्‌गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥४८२॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥४८३॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥४८४॥

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।

शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥४८५॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥४८६॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।

शङ्‌खचक्रगदाशाङ्‌र्गखड्‌गहस्ताभ्युपाययौ ॥४८७॥

खड्‌गशूलगदादीनि यानि चास्त्राणी तेऽम्बिके ।

करपल्लवसङ्‌गीनि तैरस्मान् रक्ष सर्वतः ॥४८८॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥४८९॥

ऋषिरुवाच ॥४९०॥

माहेश्व्री वृषारूढा त्रिशूलवरधारिणी ।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥४९१॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥४९२॥

हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।

आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥४९३॥

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥४९४॥

यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।

तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥४९५॥

देव्युवाच ॥४९६॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चचण्डिकां ययुः ॥४९७॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥४९८॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।

भवायामरसिंहानामतिवीर्यबलान्विताः ॥४९९॥

देवा ऊचुः ॥५००॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP