मन्त्र - ६०१ ते ६५०

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


ऋषिरुवाच ॥६०१॥

नमस्तस्यै ॥६०२॥

दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः ।

बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥६०३॥

नमस्तस्यै नमो नमः ॥६०४॥

देव्युवाच ॥६०५॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता॥नमस्तस्यै ॥६०६॥

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥६०७॥

नमस्तस्यै ॥६०८॥

स दृष्ट्‌वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥६०९॥

नमस्तस्यै नमो नमः ॥६१०॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।

वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥६११॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६१२॥

ऋषिरुवाच ॥६१३ ॥

नमस्तस्यै ॥६१४॥

तत्परित्राणदः कश्चिंद्यदि वोत्तिष्ठतेऽपरः ।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥६१५॥

नमस्तस्यै नमो नमः ॥६१६॥

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।

तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम् ॥६१७॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता॥नमस्तस्यै ॥६१८॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥६१९॥

नमस्तस्यै ॥६२०॥

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।

समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥६२१॥

नमस्तस्यै नमो नमः ॥६२२॥

ऋषिरुवाच ॥६२३॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६२४॥

स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।

तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत्  ॥६२५॥

नमस्तस्यै ॥६२६॥

एवमेतद् बली शुम्भो निशुम्भश्चायतिवीर्यवान् ।

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥६२७॥

नमस्तस्यै नमो नमः ॥६२८॥

देव्युवाच ॥६२९॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता॥नमस्तस्यै ॥६३०॥

सा त्वं गच्छ मयैवोक्ता पार्श्वंय शुम्भनिशुम्भयोः ।

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥६३१॥

नमस्तस्यै ॥६३२॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।

शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥६३३॥

नमस्तस्यै नमो नमः ॥६३४॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।

तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥६३५॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता॥नमस्तस्यै ॥६३६॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।

त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥६३७॥

नमस्तस्यै ॥६३८॥

दूत उवाच ॥६३९॥

नमस्तस्यै नमो नमः ॥६४०॥

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः ।

मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥६४१॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता॥नमस्तस्यै ॥६४२॥

यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥६४३॥

नमस्तस्यै ॥६४४॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥६४५॥

नमस्तस्यै नमो नमः ॥६४६॥

सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।

त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥६४७॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता॥नमस्तस्यै ॥६४८॥

देव्युवाच ॥६४९॥

नमस्तस्यै ॥६५०॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP