मन्त्र - ३०१ ते ३५०

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


देव्युवाच ॥३०१॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।

तोमरैर्भिन्दिपालैश्च  शक्तिभिर्मुसलैस्तथा ॥३०२॥

ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥३०३॥

युयुधुः संयुगे देव्या खड्‌गैः परशुपट्टिशैः ।

केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे ॥३०४॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा ।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥३०५॥

देवीं खड्गकप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥३०६॥

देव्युवाच ॥३०७॥

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥३०८॥

बलावलेपाद्दुष्टे त्वं मा दुर्गे गर्वमावह ।

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३०९॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वकरी ।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी ॥३१०॥

निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम् ।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥३११॥

चचारासुरसैन्येषु वनेष्विव हुताशनः ।

निःश्वारसान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥३१२॥

ऋषिरुवाच ॥३१३॥

त एव सद्यः सम्भूता गणाः शतसहस्रशः ।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥३१४॥

केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।

भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥३१५॥

नाशयन्तोऽसुरगणान् देवीशक्त्यु पबृंहिताः ।

अवादयन्त पटहान् गणाः शङ्‌खांस्तथापरे ॥३१६॥

खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।

वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥३१७॥

मृदङ्‌गांश्चा तथैवान्ये तस्मिन् युद्धमहोत्सवे ।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥३१८॥

माहेश्वणरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।

वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥३१९॥

खड्‌गादिभिश्चय शतशो निजघान महासुरान् ।

पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥३२०॥

कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।

ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥३२१॥

असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत् ।

केचिद् द्विधा कृतास्तीक्ष्णैः खड्‌गपातैस्तथापरे ॥३२२॥

ततः सिंहश्चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ।

असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥३२३॥

विपोथिता निपातेन गदया भुवि शेरते ।

वेमुश्चा केचिद्रुधिरं मुसलेन भृशं हताः ॥३२४॥

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।

शिरश्चिच्छेद खड्‌‍गेन ततोऽसावपतद्भुवि ॥३२५॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥३२६॥

भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।

महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥३२७॥

श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥३२८॥

शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।

हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥३२९॥

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।

विच्छिन्नजङ्‌घास्त्वपरे पेतुरुर्व्यां महासुराः ॥३३०॥

तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।

खड्‌गेन शितधारेण स च शूलं समाददे ॥३३१॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः ।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥३३२॥

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।

अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः ॥३३३॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।

ननृतुश्चा परे तत्र युद्धे तूर्यलयाश्रिताः ॥३३४॥

ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।

चिच्छेद तानि चक्राणि स्वशरैः सायकांश्चश तान् ॥३३५॥

कबन्धाश्छिन्नशिरसः खड्‌गशक्त्यृष्टिपाणयः ।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥३३६॥

पुनश्चश कृत्वा बाहूनामयुतं दनुजेश्वथरः ।

चक्रायुधेन दितिजश्छा दयामास चण्डिकाम् ॥३३७॥

पातितै रथनागाश्वैषरसुरैश्चह वसुन्धरा ।

अगम्या साभवत्तत्र यत्राभूत्स महारणः ॥३३८॥

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।

आजघान शरैर्देवीं कालीं केसरिणं तथा ॥३३९॥

शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥३४०॥

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।

स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥३४१॥

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥३४२॥

शुम्भमुक्ताञ्छरान्दे वी शुम्भस्तत्प्रहिताञ्छरान् ।

चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥३४३॥

स च सिंहो महानादमुत्सृजन्धुतकेसरः ।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥३४४॥

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।

निर्घातनिःस्वनो घोरो जितवानवनीपते ॥३४५॥

देव्या गणैश्चर तैस्तत्र कृतं युद्धं महासुरैः ।

यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥३४६॥

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।

आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥३४७॥

ऋषिररुवाच ॥३४८॥

दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।

तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥३४९॥

निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।

सेनानीश्चि क्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥३५०॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP