मन्त्र - ४०१ ते ४५०

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।

स पपात महीपृष्ठे शस्त्रडसङ्घसमाहतः ॥४०१॥

इति क्रोधसमाध्मातमापतन्तं महासुरम् ।

दृष्ट्‌वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥४०२॥

तांश्चमखादाथ चामुण्डा पपौ तस्य च शोणितम् ।

देवी शूलेन वज्रेण बाणैरसिभिर्ऋष्टिभिः ॥४०३॥

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥४०४॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।

मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥४०५॥

ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।

छिनत्ति तावत्पुरुषः खड्‌गपाणिरदृश्यत ॥४०६॥

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥४०७॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।

तं खड्‌गचर्मणा सार्धं ततः सोऽभून्महागजः ॥४०८॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥४०९॥

करेण च महासिंहं तं चकर्ष जगर्ज च ।

कर्षतस्तु करं देवी खड्‌गेन निरकृन्तत ॥४१०॥

भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥४११॥

ततो महासुरो भूयो माहिषं वपुरास्थितः ।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥४१२॥

भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।

एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥४१३॥

ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।

पपौ पुनः पुनश्चैजव जहासारुणलोचना ॥४१४॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् ।

रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥४१५॥

ननर्द चासुरः सोऽपि बलवीर्यमदोद्‌धतः ।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥४१६॥

तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा ।

उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥४१७॥

सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।

उवाच तं मदोद्‌धूतमुखरागाकुलाक्षरम् ॥४१८॥

तैश्चाऽसुरासृक्सम्भूतैरसुरैः सकलं जगत् ।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥४१९॥

देव्युवाच ॥४२०॥

तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।

पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥४२१॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥४२२॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।

मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥४२३॥

ऋषिरुवाच ॥४२४॥

शक्त्या जघान कौमारी वाराही च तथासिना ।

माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥४२५॥

एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥४२६॥

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।

सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरैः ॥४२७॥

ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः ।

अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृतः ॥४२८॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।

गदया ताडयामास ऐन्द्री तमसुरेश्व रम् ॥४२९॥

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।

तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥४३०॥

पुनश्चत वज्रपातेन क्षतमस्य शिरो यदा ।

ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥४३१॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।

प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥४३२॥

ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४३३॥

तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः ।

जगुर्गन्धर्वपतयो ननृतुश्चायप्सरोगणाः ॥४३४॥

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।

तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥४३५॥

ऋषिरुवाच ॥४३६॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥४३७॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्‌गमचारुदेहाः ॥४३८॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।

ततश्चै न्द्री स्ववज्रेण रक्तबीजमताडयत् ॥४३९॥

देव्या यया ततमिदं जगदात्मशक्त्या निश्शे षदेवगणशक्तिसमूहमूर्त्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥४४०॥

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।

समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः ॥४४१॥

यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्चम न हि वक्तुमलं बलं च ।

सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥४४२॥

पलायनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान् ।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥४४३॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वमम् ॥४४४॥

इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।

दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥४४५॥

किं वर्णयाम तव रूपमचिन्त्यमेतत्  किं चातिवीर्यमसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥४४६॥

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।

पेतुः पृथिव्यां पतितांस्तांश्च ।खादाथ सा तदा ॥४४७॥

हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥४४८॥

नखैर्विदारितांश्चातन्यान् भक्षयन्ती महासुरान् ।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥४४९॥

यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥४५०॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP