संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| ४०१ ते ४५० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - ४०१ ते ४५० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - ४०१ ते ४५० Translation - भाषांतर जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।स पपात महीपृष्ठे शस्त्रडसङ्घसमाहतः ॥४०१॥इति क्रोधसमाध्मातमापतन्तं महासुरम् ।दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥४०२॥तांश्चमखादाथ चामुण्डा पपौ तस्य च शोणितम् ।देवी शूलेन वज्रेण बाणैरसिभिर्ऋष्टिभिः ॥४०३॥सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥४०४॥यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥४०५॥ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत ॥४०६॥न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥४०७॥तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥४०८॥मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥४०९॥करेण च महासिंहं तं चकर्ष जगर्ज च ।कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥४१०॥भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥४११॥ततो महासुरो भूयो माहिषं वपुरास्थितः ।तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥४१२॥भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥४१३॥ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।पपौ पुनः पुनश्चैजव जहासारुणलोचना ॥४१४॥मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् ।रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥४१५॥ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥४१६॥तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा ।उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥४१७॥सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥४१८॥तैश्चाऽसुरासृक्सम्भूतैरसुरैः सकलं जगत् ।व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥४१९॥देव्युवाच ॥४२०॥तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥४२१॥गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥४२२॥स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥४२३॥ऋषिरुवाच ॥४२४॥शक्त्या जघान कौमारी वाराही च तथासिना ।माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥४२५॥एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम् ।पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥४२६॥वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥४२७॥ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः ।अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृतः ॥४२८॥वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।गदया ताडयामास ऐन्द्री तमसुरेश्व रम् ॥४२९॥अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥४३०॥पुनश्चत वज्रपातेन क्षतमस्य शिरो यदा ।ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥४३१॥ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥४३२॥ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४३३॥तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः ।जगुर्गन्धर्वपतयो ननृतुश्चायप्सरोगणाः ॥४३४॥यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥४३५॥ऋषिरुवाच ॥४३६॥कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥४३७॥शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ।तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥४३८॥युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।ततश्चै न्द्री स्ववज्रेण रक्तबीजमताडयत् ॥४३९॥देव्या यया ततमिदं जगदात्मशक्त्या निश्शे षदेवगणशक्तिसमूहमूर्त्या ।तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥४४०॥रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः ॥४४१॥यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्चम न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥४४२॥पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् ।योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥४४३॥या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः ।श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वमम् ॥४४४॥इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥४४५॥किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि ।किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥४४६॥चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।पेतुः पृथिव्यां पतितांस्तांश्च ।खादाथ सा तदा ॥४४७॥हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ।सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥४४८॥नखैर्विदारितांश्चातन्यान् भक्षयन्ती महासुरान् ।नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥४४९॥यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि ।स्वाहासि वै पितृगणस्य च तृप्तिहेतु-रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥४५०॥ N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP