मन्त्र - ५०१ ते ५५०

मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.


तं निनादमुपश्रुत्य दैत्यसैन्यैश्चरतुर्दिशम् ।

देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥५०१॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते ॥५०२॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्‌मुखा ।

निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥५०३॥

यदयं निहतः शत्रुरस्माकं महिषासुरः ।

यदि चापि वरो देयस्त्वयास्माकं महेश्वमरि ॥५०४॥

ततः सिंहो महानादमतीव कृतवान् नृप ।

घण्टास्वनेन तन्नादमम्बिका चोपबृंहयत् ॥५०५॥

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।

यश्चम मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥५०६॥

आयान्तं चण्डिका दृष्ट्‌वा तत्सैन्यमतिभीषणम् ।

ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥५०७॥

तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥५०८॥

इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥५०९॥

ऋषिरुवाच ॥५१०॥

कालका दौर्हृद मौर्याः कालकेयास्तथासुराः ।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥५११॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽऽत्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥५१२॥

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥५१३॥

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥५१४॥

अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥५१५॥

पुनश्चे गौरीदेहात्सा समुद्भूता यथाभवत् ।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥५१६॥

ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥५१७॥

रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ॥५१८॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वारः ॥५१९॥

"ॐ क्लीं" ऋषिरुवाच ॥५२०॥

"ॐ" ऋषिरुवाच ॥५२१॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।

त्रैलोक्यं यज्ञभागाश्चम हृता मदबलाश्रयात् ॥५२२॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।

चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॥५२३॥

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।

कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥५२४॥

तावानीतौ ततो दृष्ट्‌वा चण्डमुण्डौ महासुरौ ।

उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥५२५॥

तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।

ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥५२६॥

ऋषिरुवाच ॥५२७॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।

महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥५२८॥

मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।

युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥५२९॥

तयास्माकं वरो दत्तो यथाऽऽपत्सु स्मृताखिलाः ।

भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥५३०॥

शिरश्च ण्डस्य काली च गृहीत्वा मुण्डमेव च ।

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥५३१॥

इति कृत्वा मतिं देवा हिमवन्तं नगेश्वमरम् ।

जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥५३२॥

हतशेषं ततः सैन्यं दृष्टवा चण्डं निपातितम् ।

मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥५३३॥

देवा ऊचुः ॥५३४॥

अथ मुण्डोऽभ्यधावत्तां दृष्ट्‌वा चण्डं निपातितम् ।

तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥५३५॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥५३६॥

उत्थाय च महासिं हं देवी चण्डमधावत ।

गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥५३७॥

रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः ।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥५३८॥

ततो जहासातिरुषा भीमं भैरवनादिनी ।

काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥५३९॥

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।

नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥५४०॥

तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥५४१॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥५४२॥

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।

छादयामास चक्रैश्च् मुण्डः क्षिप्तैः सहस्रशः ॥५४३॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५४४॥

क्षणेन तद् बलं सर्वमसुराणां निपातितम् ।

दृष्ट्‌वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥५४५॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै ॥५४६॥

असिना निहताः केचित्केचित्खट्‌वाङ्‌गताडिताः ।

जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥५४७॥

नमस्तस्यै ॥५४८॥

बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम् ।

ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्  तथा ॥५४९॥

नमस्तस्यै नमो नमः ॥५५०॥

N/A

References : N/A
Last Updated : July 28, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP