संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| विंशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - विंशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत विंशः सर्गः Translation - भाषांतर अथ स्फुरत्काञ्चनभित्तिपुष्पकंसजानिरारुह्य विभीषणान्वितः ।समं सुमित्रात्मजवानरेश्वरैःखमुत्पपात स्वपुरीयियासया ॥१॥ललाटविन्यस्तकराग्रवारित-प्रभाकरांशुस्रवजिह्मितेक्षणैः ।निशाचरैरस्य विमानमीक्षितंविवेश भृङ्गोदरसन्निभं नभः ॥२॥चिरप्रवासानलधूमसन्ततिंकरेण वेणीमवमोचयन्त्ययम् ।उदस्तचक्षुः परिरभ्य वक्षसामिथः प्रियामेवमुवाच राघवः ॥३॥जनेन रामाकृतिरत्नमीदृशंसमीयते नाकृतपुण्यकर्मणा ।इति स्वयं चिन्तयतः पदे पदेमम स्फुरत्यात्मनि भूरि गौरवम् ॥४॥जगद्द्वयं द्वावधितिष्ठतः प्रियेपतिव्रतालाभविभूतिगर्वितौ ।अहं भवत्या भृतको महीतलंमहामुनिः स्वर्गमरुन्धतीपतिः ॥५॥पतिव्रतायास्तव देवि तेजसाहतप्रभावो निहतो निशाचरः ।मनुष्यमुक्तः कथमन्यथा शरःक्रमेत लोकत्रितयस्य जेतरि ॥६॥इदं विधायोचितमङ्कमासनंभुजेन मत्कच्छतटावलम्बिनी ।समीरणाकम्पितपक्ष्मसन्ततीदृशौ मुहुः पातय देवि दिङ्मुखे ॥७॥दिगङ्गना हारिवृहत्पयोधरादृशो दहन्ती वडवामुखेने नः ।शुभाशुभैरश्वमुखीव सेवितागुणैरियं दण्डधरेण रक्ष्यते ॥८॥अमूमधः पश्य जवेन पुष्पकेनभः समाक्रामति ते वियोगतः ।समुद्भवच्छोकरयेण तापिनाकृशीभवन्तीमिव विद्विषः पुरीम् ॥९॥पयोधिरत्नालयमीक्ष्यते समंसमुन्नमद्वीचिविभिन्नमप्यदः ।निमज्जतीवाम्बुनिघौ समन्ततःक्रमेण लङ्का सहशैलकानना ॥१०॥विशालशृङ्गः शिखरैरधिष्ठितोविभाति वल्मीक इवैष भूधरः।यतः स्रवन्त्यः सरितः समन्ततःपरिस्फुरन्त्यः कुटिला इवोरगाः ॥११॥सचन्दनेयं मणिचित्रमेखलापरिस्फुटन्नीलतमालकानना ।हदि प्रियेव प्रमदं तनोति नःसुवर्णकूटानुगशैलसन्ततिः ॥१२॥क्रमादतिक्रामति पुष्पके घनंस्वविग्रहोल्लङ्घनशङ्कया यथा ।तिरोदधानं गगनं समन्ततःप्रवर्धते मण्डलमुष्णदीधितेः ॥१३॥निधाय पादौ दृढमक्षपाटकेविसृज्य देहं गगने सकौतुकम् ।अमी समीषागतमेघभित्तिषुस्पृशन्ति विद्युद्वलयं वलीमुखाः ॥१४॥परिक्वणत्काञ्चनकिङ्किणीगुणंविमानमग्रे दशनस्य पुष्करम् ।निधाय कर्णौ विनियम्य निश्चलंसकौतुकं दिग्गज एष वीक्षते ॥१५॥इदं समासन्नरविप्रदीपितंदधानमुष्णद्युतिकान्तमण्डनम् ।भ्रमत्युपाहत्य करोति निस्वनंविमानमम्भस्मृतिमन्तमम्बुदम् ॥१६॥सदैव पूर्णो बहुरत्नसम्पदा-मुपान्तभागस्थिततालभूषणः ।अयं समुद्रः परिकर्षति श्रियंप्रचेतसो रत्नसमुद्गसम्भवाम् ॥१७॥हरौ हृतेऽसौ हरितुल्यतेजसःक्रतुप्रसङ्गे सगरस्य सागरः ।विभिद्य तत्सम्भववीरबाहुभि-र्गभीरभावं किल भूरि लम्भितः ॥१८॥अयं त्वदर्थे गिरिसेतुराहितःप्रमित्सुनेव प्रथिमानमम्बुधेः ।सकौतुकेनावनिमण्डलेन यःप्रसारितो बाहुरिवावभासते ॥१९॥समुत्प्लुतस्योदधिदन्तिनो मुखेशरीरभागेव विभिन्नसंहतिः ।विभाति सा भक्तिविधानभासुरासितेव भूतिर्नवफेनसन्ततिः ॥२०॥शिखिप्रभाभासुरविद्रुमद्रुम-प्रताननिर्भिन्नतरङ्गसंहतिः ।अयं पयःशोषविशेषनिःस्पृहंद्वितीयमौर्वं वहतीव वारिधिः ॥२१॥बिभर्ति शङ्खप्रकरावतंसकःप्रवालरत्नाकर एष वारिधेः ।परिभ्रमन्मन्दरकोटिखण्डितःव्रणश्रियं प्रस्फुरदस्थिदन्तुराम् ॥२२॥अपूर्वसोमार्धविभावनस्फुर-त्फणालपाशाङ्ककपालभूषणः ।ककुप्प्रदेशोऽयमुपैति पश्चिमःसरूपभावं वपुषः पिनाकिनः ॥२३॥असौ निजोत्सङ्गलुठत्पयोधरापतद्द्विजासन्नतरत्रिविष्टपा ।विदूरिता बृद्धतरेव कामिनीविवर्जिता मेखलयाऽद्रिसन्ततिः ॥२४॥हृताम्बरोऽसाबुपकण्ठनीलतांसमुद्वहन्निन्दुविषक्तमस्तकः ।बिभर्ति कान्तावृतभागसुन्दरःश्रियं प्रिये देवि गिरिस्त्रिशूलिनः ॥२५॥परिभ्रमन्तो मनुजा महीतलेविदूरभावादतिसूक्ष्मदर्शनाः ।विभान्त्यमी वर्त्मनि शुक्लवाससोमुखाहिताण्डा इव कीटपङ्क्तयः ॥२६॥विवर्धमानः किल सोऽयमायतंनिरन्तरत्वं प्रसभं दिशन्दिशाम् ।हतः पदा पातितगर्वखर्वता-मगादगस्त्येन रयादगाधिपः ॥२७॥अयं नगः सङ्गतनन्दकः सदामनोज्ञपद्माकरसक्तपादकः ।अनन्तनागासनबन्धबन्धुरोहिरण्यगर्भो मधुसूदनायते ॥२८॥मनोज्ञसौगन्धिकजातिरञ्जितःसपद्मरागारुणतोयसंहतिः ।अयं कुपालो बहुसागरः प्रियेविराजते नैकविराजिमण्डनः ॥२९॥परिस्फुरत्काञ्चनकान्तिरन्तिक-प्रयाततारो हरिसैन्यसेवितः ।दिवाकराचुम्बिततुङ्गन्मस्तकोविभाति सुग्रीव इवैष मन्दरः ॥३०॥सदप्सरोभिः परितोऽभिवेष्टितःसमीपवर्तिद्विजराजमण्डलः ।बिभर्ति पीताम्बर एष भूधरःश्रियं मुरारेरपि रूपसंश्रयाम् ॥३१॥इहानुगेहं निशि चन्द्ररश्मिभि-र्निषेव्यमाणौ सुरतश्रमान्तरे ।प्रियेऽभिजानासि मनोज्ञसङ्कथौतटे चरिष्याव उपान्तसैकते ॥३२॥पयःप्रवाहः सरितः सरित्पतिंगिरिं च विन्ध्यं प्रथतेऽयमन्तरा ।भुवं समालम्बितुमद्रिमस्तकेपयोधिना बाहुरिव प्रसारितः ॥३३॥अनेकपुष्पप्रकराधिवासिताभुजङ्गविक्षोभितलोलमानसा ।स्पृहावता वेशविलासिनी यथादिगुत्तराऽसौ धनदेन सेव्यते ॥३४॥निषेव्यमाणो हरिभिर्मतङ्गजक्षत-क्षरद्भूरिनिषिक्तबाहुभिः ।हिमालयः सानुजरत्नभूषणोगुणश्रियाऽसावनुगच्छतीव माम् ॥३५॥सधातुकूटं घृतबिश्वसम्पदंशिवोपभोगप्रणयस्य भाजनम् ।इमं तपत्सिद्धिसुखाय वृष्ण्वतेश्मशानकल्पं व्रतिनो विरागिणः ॥३६॥हतः समुद्रद्वितयेन वेगतःतटोरसि प्रस्फुरदूर्मिबाहुभिः ।बृहद्दरीनिस्सृतधातुनिर्झरोमुखादयं प्रोद्गिरतीव शोणितम् ॥३७॥इह प्रवृत्तं रविरश्मिसङ्गमेपतङ्गकान्तप्रभवं दबानलम् ।निशासु निर्वापयति क्षपाकरःप्रवाहिता चन्द्रमणिस्रवाम्बुना ॥३८॥अनेन शैलेन सुरालयस्पृशातिरोभवन्नैशतमिस्रसंचयः ।विवस्वतो भीत इवोग्रतेजसःपरिभ्रमत्यञ्जनखण्डकर्बुरम् ॥३९॥निशि प्रवृत्तोदयया दवानलेतुषारवृष्ट्या शमितेऽपि सर्वतः ।इहौषधिज्योतिषि दत्तदृष्टय-स्त्यजन्ति भीतिं न कुरङ्गयोषितः ॥४०॥अमुष्य शृङ्गे दुहितुर्महीभृत-स्तपश्चरन्त्याः सविता समीपगः ।शशाङ्कशोभामवहद्विलोचन-प्रभाततिश्यामितमध्यमण्डलः ॥४१॥पतिप्रसादादरमण्डितालकागुहाननासक्तगलत्पयोधरा ।अधित्यकाऽसौ हिमशैलसम्भवाबिभर्ति गौरीव मनोहरं वपुः ॥४२॥असौ गुहाधातुपरिस्नवारुणाविलुप्तपक्षस्य तटे महीभृतः ।स्रवन्मुखस्य त्रिदशाधिपायुध-व्रणस्य नालीव विभाति रावणी ॥४३॥स एष शीतद्युतिहासिनिर्झरोविकीर्णवारिस्कटिकोपलोच्छ्रयेगुहानिबद्धप्रतिशब्दभैरवै-रलक्षितोऽपि ध्वनिभिर्विभाव्यते ॥४४॥शिखासु पुष्पप्रकरो महीरुहां मुहुःकिलाधोऽञ्जनशैलभित्तिषु ।क्षणं विनष्टः स्फटिकोपले घनःसितप्रभोऽयं मरुता विधूयते ॥४५॥विमुच्यमानः सितवारिदैरसौविभाति धातूपलराशिरुच्छ्रितःसमन्ततो भस्मनि भासुरप्रभःप्रयाति वातैरिव वह्निसञ्चयः ॥४६॥घनस्य तिष्ठन्ति ततो धृताम्भसःतटे पतन्तः शिरसो महीभृतः ।अमी रवैरूर्ध्वमुखांशुवह्निनापराहताः पादतलेषु किन्नराः ॥४७॥विकृष्यमाणे सितमेघमण्डलेनभस्वता यो विसखण्डपाण्डुरः ।विभाति निर्मोकमिव त्यजन्नितःस एष कैलासतटो विलोक्यताम् ॥४८॥कुतः कुरङ्गः किरणस्य चन्द्रमाःसदा शिरःस्पर्शकृतं बिभर्ति सः ।स्वयं च तद्धर्षणजातनिष्पत-द्धिमांशुधूलीकृतशुक्लिमाऽचलः ॥४९॥लतावितानावरणे शिलातलेगिरावमुष्मिन्तुरसिद्धयोषिताम् ।सवृत्तकाञ्चीगुणसृष्टरेखयाविदन्ति वृत्तं सुरतं वनेचराः ॥५०॥उपागतोऽपि ग्रसितुं विलोचन-प्रभानिषेकाहितमेचकद्युतिम् ।मृगीसमूहः परिणामदूषितंविशङ्क्य भूयस्त्वजतीव पल्लवम् ॥५१॥ननु विदधति पादपूरणानिप्रथितरुचावचले किरातदेशाः ।विशदमतिभिरीर्ष्यया प्रबन्धेरचित इवार्थवतीह विप्रहीणाः ॥५२॥दुरुत्तरं विवरमुखस्थपन्नगंवनश्रिया परिगतमुत्प्रवालया ।इति स्तुवञ्जलधिमिवाथ भूभृतंसुतो भुवं समवततार भूभुजः ॥५३॥महर्षयो नरपतिपौरसंहितामुखानि तं नुतिमुखराणि बिभ्रतःउपस्थितश्रियमभिषेकसम्भृतिंप्रगृह्य तं नृपतिसुतं प्रपेदिरे ॥५४॥रामो वृतो भरतलक्ष्मणतत्कनिष्ठैर्बद्धाञ्जलिर्गुरुविधेयतयैव पृच्छन् ।वीरश्चकार हदयं सहसा सतीव्र-व्रीडावतारविधुरं भरतस्य मातुः ॥५५॥तस्यानुजद्वयकरस्थितशातकुम्भ-कुम्भच्युतं तदिह मूर्धनि रावणारेः ।श्वेतातपत्रतलभाजि निबद्धधारंमातुर्ममार्ज भरतस्य कलङ्कमम्भः ॥५६॥दृष्ट्वा राज्यग्रहणविभवंतं महान्तं महान्तंगत्वा रामे विहितविनतिःसत्सभार्ये सभार्ये ।सिद्धैः क्रीडानुभवविधिभि-र्मानितान्तं नितान्तम्शैलं प्रायाद्गिरिरिव निरा-तङ्कपीनः कपीनः ॥५७॥पारावारं नयनसलिलातानमस्यन्नमस्य-न्रामं वर्णस्थितिपरिकरत्रासकान्तं सकान्तम् ।तेन प्रायात्सुररिपुपतिः शोकसन्नः कसन्नःखेदं मा गा इति कृतसमाश्वासमुक्तः स मुक्तः ॥५८॥चक्रे देवीमुपकृतमुनिस्थानयज्ञो नयज्ञोवृत्तौ सक्तामविचलगुणाभ्याससत्यां ससत्याम् ।क्रोधा हन्त्रीमपि बहुमतासृग्वसानां वसानांह्रीशौचाख्ये सततमहिते वाससी तां स सीताम् ॥५९॥ईर्ष्यामोहस्मयमदधनप्रमेहीनान्महीना-कृत्वा भ्रातन्महति विभवे न्यस्यदासः तदा सः ।रामोऽरक्षत्कृतपरहितस्वोदयायां दयायांस्थित्वा पृथ्वीमविचलतया तत्समस्तां समस्ताम् ॥६०॥नित्यं सद्गणभक्तिरिन्द्रयदमःश्रीसंयतः संयतःशस्त्रद्योतितमूर्ध्रि मुक्तहृदयो-ऽभीसङ्गतः सङ्गतः ।विद्वानस्य कवेः पिताऽऽर्यहृदयःश्रीमानितो मानितोलङ्कैश्वर्यभुजः कुमारमणिरि-त्यासन्नयः सन्नयः ॥६१॥येनारिप्रकृतिं निराकृतवतासन्मानितो मानितोयस्य स्वाङ्गमभिघ्नतोऽरिषु भृशंनाशोऽभितः शोभितः ।श्रीमेघोऽस्य कवेरसौ किल वृह-द्धामातुलो मातुलोदृष्टस्त्रासजडं द्विषामधिगत-त्रासेनया सेनया ॥६२॥श्रीमानेकः शरण्यः परिभवविपदांभाजनानां जनानांरूपेणानुप्रयातो दिवमतिसुभगंरञ्जयन्तं जयन्तम् ।भ्राता तन्मातुरन्यः शशिधवलयशःकारणानां रणानांकर्तुः पुत्रोऽग्रबोधिः जनशिरसि लस-द्भासुराज्ञः सुराज्ञः ॥६३॥आदायैनं दशायां स्थितमपितदहः स्रस्तनाम्यां स्तनाभ्यांतुष्टौ तस्मिन्गदाना-मरिहतपितृके वारयन्तौ रयं तौ॥आत्मापत्याविशेषं पुपुषतुरहत-प्रमेदान्तौ मदान्तौयत्सानाथ्यात् स काव्यं व्यरचय-दसुरद्विण्महार्थं महार्थम् ॥६४॥इति श्रीसिंहलस्य कुमारदासस्य कृतौ जानकीहरणे महाकाव्येविंशतिः सर्गः समाप्तिमगमत्॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP