जानकीहरणम् - एकोनविंशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथारिणा मर्मणि कालनेमिना
रयादयश्चक्रनिभेन निर्वृतः ।
कथञ्चिदेनं विनिगृह्य मारुतिः
समुद्वहन्भूधरशृङ्गमाययौ ॥१॥
हरिर्भिषग्भूधरसानुतो नुतो
महौषधं प्राप्य मुदा ततस्ततः ।
चकार रामावरजं हृतक्लमं
पुनः समुन्मीलितवीक्षणं क्षणात् ॥२॥
ततो रथः सारथिना मरुत्वतो
मरुन्नदीमारुतकम्पितध्वजः ।
अरान्तरासक्तपयोदखण्डकः
प्रभोरुपानीयत सूनवे भुवः ॥३॥
सुरेश्वरप्राजितृहस्तसङ्गिना
करेण सव्येन स वासवोपमः ।
तदन्यहस्तस्थशरासनः शनैः
समारुरोह प्रधृतं वरूथिनम् ॥४॥
रणं दिदृक्षुः सुरसंहतिर्घनं
समाक्षिपत्ससम्मुखमागतं रुषा ।
परस्पराघातनिवृत्तवृत्ति
तद्वलं च तस्थौ निहितेक्षणं तयोः ॥५॥
पुरन्दरारातिमरातिसूदनः
शरं सलीलं शरधेः समुद्धरन् ।
उपाययौ सायकदष्टकार्मुकं
रणे रथस्थं रथिको महारथः ॥६॥
शरं सृज त्वं प्रथमं प्रतीच्छ
वेत्युदीरणानन्तरमिन्द्रविद्विषः ।
विपाटयन्तः श्रुतिमस्य निस्वनै-
र्निपेतुरुग्रैरभिराममाशुगाः ॥७॥
विभिद्य रामच्छलमादिपूरुषं
हृता यथा दुष्प्रसहेन पाप्मना ।
प्रपद्य तिर्यग्गतिमस्य सायकाः
क्षणेन पातालमभि प्रपेदिरे ॥८॥
मुखैरसक्तं दशभिर्दशाननो
नदत्तटित्सन्निभहेमभूषणः ।
युगान्तमेघप्रतिमो महेषुभि-
स्ततान धाराभिरिवान्तरं दिवः ॥९॥
वनं ततस्तत्र शरप्रभञ्जन-
क्षतावनम्रीकृतभूरुहौषधि ।
महापगापातपरास्तनामित-
स्फुटत्तटीकाननकान्तिमाददे ॥१०॥
न केवलं वारिणि वारिधेरगै-
र्नरेन्द्रसूनुर्विजयाय विद्विषः ।
बबन्ध भानोरपि सेतुमायतं
पथि प्रतानेन घनेन पत्त्रिणाम् ॥११॥
ससर्ज पूगं विजयं यथा रिपु-
र्नृपाय यावद्वयसं पतत्रिणाम् ।
क्षणादवाप द्विगुणं ततः स्वयं
कृतानि साधोर्हि फलन्ति भूरिशः ॥१२॥
निरन्तराकर्षणसृष्टसम्पदः
प्रसक्तसंचारविधिर्धनुर्गुणः ।
ररक्ष वक्षो नृवरस्य रक्षसः
कृतप्रणादं पततोऽस्य पत्त्रिणः ॥१३॥
शरस्य मोक्षः प्रथमं महीभुज-
स्ततश्च तद्वैरिशरीरविक्षतिः ।
इति क्रमोऽगादनुमानगम्यता-
मलक्ष्यवेगेषु शरेषु धन्विनः ॥१४॥
असौ शरातानमयं मरुन्नदी
विधाय रूपं पतिता नु सस्वना ।
जयश्रियः सङ्क्रमणाय भास्वतः
पथि प्रयुक्तो नु महेषुसङ्क्रमः ॥१५॥
कटु क्वणन्तस्तपनस्य दीधितिं
तिरोदधाना निकरेण पत्त्रिणः।
विहाय बाणासनमस्य विद्विषः
स्वयं विहन्तुं नु नभः समुद्गताः ॥१६॥
बृहत्पृषत्कग्रथिता मरुत्पथे
मृगं ग्रहीतुं द्विजराजशायिनम् ।
प्रसारिता नु प्रसरं निरुन्धती
रविप्रभाया गुरुवागुराततिः ॥१७॥
विधाय नाराचमयं समन्ततः
सृजन्ति धारानिकरं नु वारिदाः ।
इति क्षणं क्षीणमुखेन तत्र
तद्वलेन तीव्रं मुमुहे महाहवे ॥१८॥
अशेषमन्तःकृतसैनिकं तयो-
र्बृहद्भुजस्तम्भनिबद्धमायतम् ।
निरस्ततिग्मद्युतिरश्मि भूयसा
रुरोध तद्वाणवितानमम्बरम् ॥१९॥
चकर्त शत्रोरधिजत्रु राघवः
शरेण बाहुं शरसन्ततिच्युतः ।
बभार तच्छेदविनिर्गतो मुहुर्दृढं
करोऽन्यो निपतच्छरासनम् ॥२०॥
ततस्ततं घर्मजलस्य रेखया
रिपुर्महेन्द्रस्य सुतस्य भूभुजः ।
लुठज्जटासन्ततिवेल्लितं ज्वलत्तटं
ललाटस्य बिभेद पत्त्रिणा ॥२१॥
अथ भ्रुवोरन्तरलक्ष्यहाटक-
प्रदीप्तपुङ्खेण शरेण राघवः ।
श्रियं ज्वलत्पिङ्गललाटतारका-
मुवाह रूपस्य विरूपचक्षुषः ॥२२॥
शरैरुपाक्रोशपदे नृपात्मजः
शिरो रिपोरच्छिनदर्धभाषिते ।
प्रणादतः शेषमुदीरयन्मुहुः
शिरोऽपरं प्रादुरभूदविक्षतम् ॥२३॥
ददर्श भल्लाभिनिपातपातित-
प्रशीर्णमौलीनि समुद्गताननः ।
मुखानि दन्तक्रकचक्षताधर-
प्रवर्तितासृञ्जि निजानि राक्षसः ॥२४॥
बृहद्विषत्सक्तपूषत्कपातित-
स्वमस्तकप्रस्तरणे रथे स्थितः ।
स युध्यमानो महिमानमाहवे
विदर्शयामास नृलोकदुर्लभम् ॥२५॥
तयोरयोवाणरयोपबृंहितस्फुट-
द्ध्वनिस्फोटितकर्णमाहवम् ।
गरुत्मदाशीविषपातदुःसहं
निरीक्षितुं कोऽपि शशाक तत्समम् ॥२६॥
अथो हिताय प्रथितं मरुत्वता
सुरद्विषो मर्म निगद्य मातलिः ।
नरेन्द्रपुत्राय तनुत्रभेदिनं
विचित्रपत्त्रं विततार पत्त्रिणम् ॥२७॥
विकर्षणादस्य मरुन्मरुत्सख-
प्रसन्नससुत्पुङ्खफलेन वेगिना ।
स्वयं च तन्मर्म विवक्षुणा
यथा शरेण मूलं श्रवणस्य शिश्रिये ॥२८॥
स तेन भीमं रसता भुजान्तरे
गिरीन्द्रसारेण शरेण मर्मणि ।
हतः सुराणामहितो महीयसा
पपात भीमेन रवेण रावणः ॥२९॥
निकृत्य रक्षोऽधिपमर्म मार्गणः
पपात पातालतले महीयसः ।
कृतापराधो भुवनत्रयाधिपं निहत्य
भीत्येव तिरोबुभूषया ॥३०॥
अथ क्षितिस्तत्क्षणबद्धनिस्वनं
चचाल भीतेव शरेण ताडिता
पपात वृष्टिः कुसुमस्य राघवे
दिवो निवृत्तेव रिपोर्यशस्ततिः ॥३१॥
सुता नरेन्द्रस्य परासुरीश्वरस्त्वया
विपक्षक्षतवृत्तिरीक्षिता ।
इतीव काञ्च्या विनिपत्य पादयो-
र्निरुध्यमानाऽपि ययौ रणाजिरम् ॥३२॥
द्विधा न यातं निजमिन्द्रजिद्गुरौ
सुता मयस्योपततेऽपि वैशसम् ।
शुचा नु रोषेण नु मुक्तनिस्वनं
रुरोज पाणिद्वयपातनैरुरः ॥३३॥
नृपात्मजासङ्ग्रहविग्रहेण यद्
बभूव यत्नादपि तेन दुर्लभम् ।
तमिन्द्रशत्रुश्चिरवाञ्छितं
क्षणादवाप देव्या मृदुबाहुबन्धनम् ॥३४॥
हृदि प्रियाऽभावकृशानुदीपिता
भिदामुपैतीति यथाऽविशङ्किनी ।
विलोचने तामनुतापविह्वला-
मसिञ्चतामश्रुजलेन सन्ततम् ॥३५॥
प्रियस्य बाणव्रणरन्ध्ररोधिनं
महीरजस्सञ्चयमश्रुवर्षिणी ।
प्रिया परासोरपि खेदशङ्कया
सकम्पहस्ता शनकैरपाहरत् ॥३६॥
मयात्मजाया नयने मुहुर्मुहुः
प्रियेण पूर्वं परिचुम्ब्य लालिते ।
तदाऽश्रुभिश्चक्षुपुटान्तनिस्सृतै-
र्हतस्य तोयाञ्जलिमस्य तेनतुः ॥३७॥
पुराऽनुरक्तो रतिदायिनि प्रियः
प्रियामुखस्यावयवेषु यत्र सः ।
तदा तदापत्कृतशोकशोषितः
स एव सावेगमकम्पताधरः ॥३८॥
कृशोदरी काञ्चनकुम्भसन्निभं
कुचद्वयं रावणमित्रमात्मनः ।
गते दिवं तत्र विलोचनच्युतै-
र्जलैरपस्नानविधावयोजयत् ॥३९॥
शुचं मुखेन व्यपनीतरोचिषा
सुता मयस्य व्यथिताऽनुबन्धिनी ।
विलापमेवं करुणं समाददे दिशि
क्षिपन्ती कृपणे विलोचने ॥४०॥
प्रियस्य सोऽयं पिशिताभिकाङ्खिभिर्वृकै-
र्विकृष्यावयवोऽपि कम्पितः ।
प्रहर्षमाशाविषयं विधाय मे पुन-
र्यथाऽर्थावगमे निरस्यते ॥४१॥
त्रिलोकभर्तुर्वनितासु तादृशी
न काचिदासीदनवद्यलक्षणा ।
अलक्षणायामपि यत्प्रसादतः स्थितिं
लभेताविधवायशोमयीम् ॥४२॥
इयानलं विग्रह एव मानिनां
धुरि व्यवस्थापयितुं विचेतसाम् ।
प्रियं सुरारिक्षतविग्रहेऽपि यद्यशो
हरन्ति श्वसितं न साधवः ॥४३॥
पुरन्दरानेन पुरा पराभवं कृतं
कृथाभ्रेतसि माऽतिमानिना ।
मुखादिमं दण्डधरस्य तेजस-
श्च्युतं नमन्तं तव पाहि पादयोः ॥४४॥
प्रवेपमानाधरपत्त्रसन्ततिं
विलोलदृष्टिभ्रमरं त्वदिष्टये ।
स्मरासिना देव निकृत्तमुज्वल-
त्रिलोकभर्तुर्मुखपद्मसञ्चयम् ॥४५॥
विधाय वित्तस्य कृते कृती जनः
कुबेरवैरं सह बन्धुभिर्बुघः ।
सति प्रवृत्ते परतः पराभवे
कुलस्य कुल्यः कुरुते सहार्थताम् ॥४६॥
गुरुर्गुरोरस्य गुरुप्रसादने
चतुर्मुख त्वं चतुरस्य नेक्षसे ।
विकीर्यमाणं भुवि विष्ण्वरे-
रिमं शिखासमूहं मणिवन्मनस्विनः ॥४७॥
तथाऽतिदीनैः परिदेविताक्षरैर्न
लोकपालेषु गतेषु विक्रियाम् ।
अतः प्रमाणेन च शब्दमात्र-
मित्युदीरितं तत्र जनेन देवताः ॥४८॥
विपाण्डुगण्डाधरबिम्बसंश्रया
विशेषकालक्तकमण्डनश्रियम् ।
सखीव तत्कालविधेयवेदिनी
ममार्ज तस्या नयनाम्बुसन्ततिः ॥४९॥
जने विधिज्ञे विधिमौर्ध्वदैहिकं
सुरद्विषः तन्वति तस्य वह्निना ।
प्रिया ततः स्नानविधौ जलाशयं
बलेन नीता परिगृह्य बन्धुभिः ॥५०॥
असौ विभिन्ने चरमे च कर्मणि
कृशानुतामाकरदाहगाहने ।
अभिन्नवृत्त्योरिह युक्तिमावयो-
र्भृशं भजेते इति नादमाददे ॥५१॥
शिखापरिस्पृष्टशिरोऽवकुञ्चनात्
करेषु मुष्टिं वलयन्तुमानिनः ।
हतेऽपि सम्यग्ज्वलितं नभस्वता
न भीतभीतेन हिरण्यरेतसा ॥५२॥
पुमानमित्रस्य पुरं पुरातनः
प्रविश्य मायामनुजो विभीषणे ।
निसृष्टराज्यो रजनीचरैरसौ
सभां स भेजे परितः सभाजितः ॥५३॥
निधिं कलानामथ लक्ष्मणान्वितं
हितावहन्तं कुमुदस्य सैनिकाः ।
प्रणेमुरिन्द्रद्विषदास्यनिर्गतं
शिवेन रामाह्वयमिन्दुमादृताः ॥५४॥
कृतास्पदं धामनि कौशिकद्विषो
जयेन दीप्तं दशकण्ठसूदनम्
हृताऽनुरागेण जगाम वीक्षितुं
सुता नृपस्य त्रिजटादिभिर्वृता ॥५५॥
विपाण्डुनो धूसरवेणिरोचिषः
पदं दधत्या वपुरीक्षितुं मनः ।
तया शुचःस्थानमुपाहिता रतिं
प्रियस्य चक्रे गलदश्रुधारया ॥५६॥
भयं विमृश्य प्रतिसंहृतेक्षणे
जनापवादादथ रावणद्विषि ।
मनस्विनी मन्युनिरन्तरा गिरः
परिस्खलन्तीरिति दीनमाददे ॥५७॥
अयं सरोजस्य परम्परा भवन्वपु-
र्विनिद्रस्य कटाक्षषट्पदः ।
निपातितस्ते यशसो विपर्ययं
मयि स्वयं पुष्यति वीर कीदृशम् ॥५८॥
अविच्छिदामस्य विवृद्धिमेयुष-
स्तवाननादर्शनजन्मनस्त्वया ।
चिरप्रवृत्तस्य कृतं कृतात्मना
कथं न विच्छेदनमात्रमश्रुणः ॥५९॥
दुःखासितामसुतरां सुतरां प्रपद्य
वैवर्ण्यसम्पदमिता दमिता तपोभिः ।
तस्थौ गुणैरविकलं विकलङ्कमेव-
मुक्वा वचः क्षतमदान्तमदान्तमृत्युम् ॥६०॥
शोकं तयाऽनुपरमं परमं प्रपद्य
प्रोक्तं कृपारसहितं सहितं स बाष्पैः ।
श्रुत्वा विशुद्धिजननं जननन्दनार्थं
चक्रेनलं तरुचितं रुचितं प्रियायै ॥६१॥
आत्मप्रभावरमितैरमितैरुदस्रं
दृष्टाऽथ वानरबलैरबलैनमग्निम् ।
क्षत्रौजसा कृतरसा तरसा विविक्षुः
सा सत्यवाग्रसमयं समयं चकार ॥६२॥
क्रोधाकृष्टत्रिदशवनितोत्तंसमच्छेदशास्यं
चेतस्यस्मिन्विनिहितपदं तं समच्छे दशास्यम् ।
नाथाकर्षं यदि हतमहासत्व सा राम दाहं
गच्छेयं तद्रिपुहतमहासत्वसारामदाऽहम् ॥६३॥
स्यप्नेनापीन्द्रशत्रुर्यदि सह न मया जातु वै श्वा न रेमे
दाहः स्वल्पोऽपि मा भूत्तत इह सुमहत्यद्य वैश्वानरे मे ।
वाक्यं स्मैवं सुदीना बहुविगलितदृग्वारिसत्याह तेन
क्रूरं धाम स्वकीयं सपदि हुतभुजाऽवारि सत्याहतेन ॥६४॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
एकोनविंशः सर्गः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP