संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| द्वादशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - द्वादशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत द्वादशः सर्गः Translation - भाषांतर स्मरावहे राजसुताविनाकृतंवनेऽथ लब्धावसरेव सेवितुम् ।अफुल्लपङ्केरुहकर्कशस्तनीशरत्प्रपेदे नृपवासवात्मजम् ॥१॥सहस्ररश्मेरुपरोधनिर्गमात्भस्यनाकुञ्चितरश्मिसम्पदः ।ययुः खुरग्राहकमेघकर्दम-व्यपायनिस्सङ्गसुखं तुरङ्गमाः ॥२॥पयोदनिर्मोकमुदस्य भेजिरेदिशो यदि स्वं प्रथमोचितं वपुः ।जहौ किमिन्द्रायुधरत्नरञ्जित-भ्रमत्तडिन्मण्डलमण्डनं नभः ॥३॥घनव्यपायेन सुदूरमुत्सृताःपरिक्वणत्सारसपङ्क्तिभूषणाः ।समुद्रकान्ता इव निर्मलत्विषोबभूवुरुत्तारमनोहरा दिशः ॥४॥प्रपेदिरे शोषमशेषमम्भसःक्षयेण केदारतलेषु शालयः ।तपन्ति पादाश्रयिणामसंशयंविपत्तयो हि स्पृशतः सशूकताम् ॥५॥निजेक्षणस्पर्धि निकृत्य पङ्कजंदधुः शिरोभिः कलमस्य गोपिकाः ।विपक्षमुद्धृत्य नयन्ति यत्नतःपदं विशेषेण सदेव साधवः ॥६॥सितच्छदे गायति तत्त्ववर्तिनालयेन कालस्य कुशेशयाकरः ।सरोजपाणावनुपूर्वमुल्लस-द्दलाङ्गुलीभिः कलनामिवाददे ॥७॥प्रचण्डवातापगमेन निश्चलंप्रसन्नमन्तर्जलदृष्टतारकम् ।सहैव वृष्ट्या पतितं महीतलेसरो नभःखण्डमिव व्यराजत ॥८॥मणिप्रभेषु प्रतिबिम्बशोभयानिमग्नया बालमृगाङ्कलखेया ।विसाङ्कुरो वारिषु वञ्चितात्मनान राजहंसेन पुनर्विचिच्छिदे ॥९॥निपीड्य चञ्च्वा कमलस्य कुड्मलंविबोधयामास बलेन सारसः ।सुगन्धिगभं सुकुलीकृतं ह्रियापतिः प्रयत्नादिव कन्यकामुखम् ॥१०॥ततस्ततं धाम सुतो महीभुजः कृतस्मरोद्दीप्ति निरीक्ष्य शारदम् ।ऋतोरिदं वैभवशंसि हारिणश्चकारलक्षीकृतलक्ष्मणं वचः ॥११॥शिरोरुहेषु स्फटिकप्रभामुषःपयोदकालस्य गतस्य विस्रसाम्घनच्छलेन प्रथितेषु सर्वतःफलन्ति पालित्यकृता इव त्विषः ॥१२॥प्रवासमालम्ब्य घनागमश्रियःपयोधरस्पर्शवियोगनिःस्पृहः ।महीधरः स्वं शिखरावसङ्गिनंत्यजत्यसौ मत्तशिखण्डिशेखरम् ॥१३॥विभान्त्यमी बालमृणालपाण्डुराविसृष्टधाराः शरदभ्रसंचयाःसुरेन्द्रचापेन विधूय सञ्चितादिगङ्गनानामिव तूलराशयः ॥१४॥असौ नभत्सागरवीचिसन्ततिःप्रसन्नदिक्काननराजिलाङ्गली ।प्रभाभिराम्रेडितशक्रकार्मुकातनोति तोषं जगतः शुकावली ॥१५॥अमी समीराश्रयदूरपातिनासरोजगन्धेन विकृष्टचेतसः ।भ्रमन्ति हंसा हिमरश्मिरोचिषःसिताभ्रखण्डा इव मारुतेरिताः ॥१६॥कृतं प्रभावेन महद्भिरायतंजगत्पराभावमपि प्रशंसति ।यदेष पादेन सरोरुहाकरःतनोति हासं विहतो विवस्वतः ॥१७॥अमीषु वप्रस्य विपाण्डु बिभ्रतःशुचेव शोचिः सलिलेषु शालयः ।अलङ्घयमागामि विनम्रमस्तकाविचिन्तयन्तीव भयं शुकाननात् ॥१८॥सरोजमेकं प्रथमं समुद्गतंविभाति पद्माकरनाशनो घनः ।गतो न वेतीक्षितुमम्बुजैःपरैरुदेतुकामैः कृतमग्रतो यथा ॥१९॥शरद्घनासारनिषेकशीतलंसमुल्लसन्त्यो निजपत्त्रसञ्चयम् ।प्रतारयन्तीव विशोषवाञ्छयासरोजमालास्तरुणार्करश्मिभिः ॥२०॥न केवलं स्वं निरुणद्धि लुम्पतःस्वनेन शस्यं कलमस्य गोपिका ।विपाकभाजः पशुपक्षिणो गुणैःहृदि प्रनुन्नानिह शालिसम्पदः ॥२१॥नियम्य हारेण भिदामुदाहरत्कृशस्य मध्यस्य बृहत्कुचद्वयम् ।प्रमाणमुल्लङ्घ्य वपुर्विधित्सतीविलोचने च श्रवणस्य सम्पदा ॥२२॥विपाण्डुनो धामनि रोचिषः शुभेवलित्रये सङ्गतरोमसन्ततिम्कुवद्वयेनाभिनिपीडितान्तरंविवर्धमानेन सुदूरमेष्यतीम् ॥२३॥मृणालनालाधिकमार्दवे भृशंप्रसद्य जङ्घे विपुलं पराभवत् ।तटं नितम्बस्य च मेखलागुणै-र्निबध्य पीनोरुयुगं निषेधति ॥२४॥अमी निरस्ता युवतीभिरग्रतःशुका विपन्नश्रियमप्यधिश्रिताःसपल्लवं कुमलमण्डितं वपु-र्वसन्तगम्यं गमयन्ति किंशुकम् ॥२५॥इयं कवर्या शितिकंठसन्निभंवपुर्वहन्त्या शरपाण्डुरत्विषि ।त्रिकोपकण्ठेऽसितपद्मसंहति-व्युदस्तबन्धच्युतया शिखण्डिनीम् ॥२६॥रथाङ्गनामानमुदस्तवाससाकुचेन तत्प्राणसमानुकारिणा ।विसर्पतः स्तम्बकरैर्निरन्तरंनिगूढजानिं कमलस्य कानने ॥२७॥अनुव्रजन्त्या वकुलं विपक्वंसमस्तवद्वारुणिमाधरश्रिया ।शुकं प्रसक्तश्रवणेन शिक्षितस्ययूथनिर्वासनवर्णसंहतिम् ॥२८॥कुरङ्गशाबं नवपल्लवश्रियंतरोरशोकस्य करेण बिभ्रता ।विलोभयन्ती निजशस्यसम्पदःशनैरुदस्यत्यपरा पराभवम् ॥२९॥नखेन कृत्त्वा नवचन्द्रसन्निभंनिधाय बन्धूकदलं कपोलयोः ।प्रियाय कोपं समुपाहरत्यसौपरस्य गोपी नखमार्गशङ्किने ॥३०॥लिखन्खुरेण क्षितिमुग्रनर्दितःकरोति रेखा नु जयस्य सङ्ख्यया ।पतिर्गवामेष विधित्सुराहवंद्विषद्वृषानाह्वयते नु संज्ञया ॥३१॥असौ चरन्ती बिसभास्यनिःसृतै-स्तदङ्कुरैः कल्पितदन्तनिर्गमा ।वराहधेनुस्तनयेन दूरतःसमीक्ष्यते मत्तवराहशङ्कया ॥३२॥श्रियं प्रवृत्तामिति साधु शारदी-मुपेक्षते यः समरोद्यमक्षमाम् ।स यातु हन्ता समयस्य वानरःप्रबोधमित्थं प्रहतो वचश्शरैः ॥३३॥विधाय सङ्गाहनिपातचूर्णितंरणे शिरस्त्वां तनुजो मरुत्वतः ।करं नयन्दण्डधरस्य पातितोमया किमेतत्कलमस्य कर्मणः ॥३४॥श्रियोपगूढः समये पयोमुचांविधाय भोगे महति स्थितिं चिरम् ।भवानपूर्वः खलु सेवते हरि-र्न विप्रबोधं शरदोऽपि सङ्गमे ॥३५॥मदं नवैश्वर्यबलेन लम्भितंविसृज्य पूर्वः समयो विमृश्यताम्जगज्जिघत्सातुरकण्ठपद्धतिर्नवालिनैवाहिततृप्तिरन्तकः ॥३६॥कृतं गुणेषु स्पृहया गुणव्रतै-रवस्तुभावं गमयन्नसज्जनः ।असंशयं व्यर्थपरिश्रमाहित-प्रकोपदुष्टैः पुनरेव हन्यते ॥३७॥गिरीन्द्रसारस्य गिरं गरीयसस्ततःसमाकर्ण्य मुहुः समाहितः ।कृतव्यलीकस्य वलीमुखप्रभोर्ययौन यज्ञो भवनाय लक्ष्मणः ॥३८॥अथ प्रमार्जन्निषुधिं महीभुजःसुतस्य सन्देशमशेषमुद्धतः ।स तं भ्रुकुट्या निजगौ कपीश्वरंदहन्नमर्षानलधूमरेखया ॥३९॥स्थितेन नीताविति वृत्तविक्रियंनियुज्य रामस्य नमस्ययाऽनुजम् ।उपाहरन्त्यः प्रशमं रुषः परंसुतेन भानोरिति तेनिरे गिरः ॥४०॥जयत्ययं ते भुवि भीतभीतिहृ-द्भुजो भुजङ्गाधिपभोगसन्निभः ।यदाश्रयाद्भूरिविभूतिमोहिताविदन्ति नैवं समयं स्वयंकृतम् ॥४१॥विलुप्तदुःखस्य तवाङ्गिसेवयातवैव बाहुप्रतिबद्धसम्पदः ।अयं प्रमादो मम सम्पदाकृतः शशिप्रभं तानयतीव ते यशः ॥४२॥कृतानभिज्ञेऽपि कृतं मयि त्वयाविचिन्त्य भूयः समुपैति मार्दवम् ।अवैति नो वर्धयितारमङ्घ्रिप-स्तथाऽपि तं वर्धयिताऽनुकम्पते ॥४३॥यदादिमत्तन्नियतं विनाशव-द्वदन्ति विद्यापरिशुद्धवृद्धयः ।भवादृशस्तत्क्षणजातमप्यहोजनस्य शंसन्त्यविनाशि सङ्गतम् ॥४४॥इहाधिपत्यं तव पादसेवयामयाऽनुभूतं च नचेह विस्मयः ।वने वृकेणापि मृगेन्द्रसेवनेन दुर्लभं हि द्विपराजशोणितम् ॥४५॥मयि स्म माऽऽसीदवनेरधीशितुःसुतेन तस्योपकृतस्य निष्क्रयः ।जनो विपत्तौ भजते हि शक्तिभि-र्विनाकृतः प्रत्युपकारमन्यतः ॥४६॥विनैव साधुः फलबन्धिलिप्सयातनोति पादाश्रयिणामुपक्रियाम् ।क्षपाकरः किं कुमुदानि बोधयन्ततः फलं वाञ्छति किञ्चिदात्मनः ॥४७॥जनः स्थितस्तेजसि तादृशः परंवृणोति कृत्ये न सहायमात्मनः ।तमिस्रभेदाय दिशः परिभ्रमन्न हि प्रदीपं वहति प्रभाकरः ॥४८॥विचिन्त्यमाने गुणदोषमिश्रितान वै न सर्वत्र जने विभाव्यते ।गुणापराधेषु जनस्य योऽधिकःस एव सद्भिः परिगृह्यते यतः ॥४९॥अनिन्द्यभक्तित्वमनन्यसङ्गतंगुणं मदीयं विगणय्य दुस्त्यजम् ।वसन्निहैवागमयस्व यावतापतन्ति कालेन वने वनौकसः ॥५०॥इति प्रयुक्तैरनुनीय नीतिभिःसुतं नरेन्द्रस्य वचोभिरुद्धतम् ।दिनेषु यूथेन चचाल केषुचि-द्गतेषु यूथाधिपतिर्वनौकसाम् ॥५१॥नुनोद कोपं हृदि तस्य दुच्छिदंपतिः कपीनामभिराममानतः ।जनस्य चेतो दधतः समुन्नतं रुषःप्रणीपातविधिः प्रतिक्रिया ॥५२॥गयगवयगवाक्षनीलधूम्रान्पनसदरीमुखभीमवक्त्रतारान् ।शरभवृषभकेशरीन्द्रजानून्नलकुमुदाङ्गदगन्घमादनाद्यान् ॥५३॥इतरदपि कुलं कुलप्रधानःसमुपनमय्य कपिः कपीश्वराणाम् ।स्वयमपि निगदन्ननाम नामक्षितिपसुताय सुतः समीरणस्य ॥५४॥शतबलिविनतौ भिषक्समीर-प्रवरसुतौ विससर्ज वानरेन्द्रः ।धनविबुधपयःपरेतनाथै-र्जनकसुताविचये दिशः सुगुप्ताः ॥५५॥निरुध्य दशदिङ्मुखं दशमुखस्य वेत्तुं गतिंकपिप्रभुविसर्जितं जितमृगेन्द्रविस्फूर्जितम् ।चचार जनकात्मजासमुपलब्धिचिन्ताकुलंकुलं क्षितिधरौकसां तरलवीक्षणं तत्क्षणम् ॥५६॥इति श्रीकुमारदासस्य कृतौ जानकोहरणेमहाकाव्ये द्वादशः सर्गः समाप्तः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP