संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| नवमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - नवमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत नवमः सर्गः Translation - भाषांतर इति प्रवृत्तस्य सुखेन केषुचि-द्गतेषु मासेषु सुतस्य भूपतिः ।पुरं प्रतस्थे वनितापरिग्रहै-स्त्रयं सुतानामितरत्समस्य सः ॥१॥उपेत्य पत्या सह शोकसम्पदाकलत्रभारेण च मन्थरक्रमा ।पितुः प्रयाणाभिमुखी भुवः सुताततान पादावुदबिन्दुभिर्दृशोः ॥२॥ततः समालम्व्य मतिं पुरस्कृतांगुणैरपत्यं गुणपक्षपातिनीम् ।गिरं गुरुः साधु गरीयसीमसौजगौ सतीनामुचितव्रताश्रयाम् ॥३॥परः प्रकर्षो वपुषः समुम्नति-र्गुणस्य तातो नृपतिर्नवं वयः ।इति स्म मा मानिनि मानमागमःपतिप्रसादोन्नतयो हि योषितः ॥४॥स्त्रियो न पुंसामुदयस्य साधनंत एव तद्धामविभूतिहेतवः ।तडिद्वियुक्तोऽपि घनः प्रजृम्भतेविना न मेघं विलसन्ति विद्युतः ॥५॥गताऽपि भर्त्रे परिकोपमायतंगिरोऽकृथा मा परुषार्थदीपनीः ।कुलस्त्रियो भर्तृजनस्य भर्त्सनेवदन्ति मौनं परमं हि साधनम् ॥६॥करोति शीलेन पतिं पतिव्रतागुणस्पृहं वश्यमवश्यमंगना ।पराभवं भर्तुरुपैति दुस्तरंबिनष्टचारित्रगुणा गुणैषिणः ॥७॥कृतं त्वयि व्याहृतिविस्तरेणतत्कुरुष्व यन्मे चरितं त्वदाश्रयम् ।श्रुतिं प्रयातं जरसैव जर्जरंसहस्रधेदं हृदयं न दारयेत् ॥८॥वृथाऽद्य दैवादपि नाम नोभवेदयं त्वदेकप्रवणो मनोरथः ।इति प्रवक्तुर्वचनानि मन्युनानिगृह्य कण्ठं जरतो निरासिरे ॥९॥उदग्रभासः शिखया शिखामणेःस्रजा च धम्मिल्लकिरीटदष्टया ।प्रमृज्य पादौ जनकस्य दम्पतीक्षयादयातामथ लम्भिताशिषौ ॥१०॥कृतो वियोगेन शुचत्समुद्भवःसमर्पितः साधु वरेण सम्मदः ।मनस्यवस्थाननिमित्तमीशितुःक्षणं विवादानिव तस्य चक्रतुः ॥११॥हलायुधाभस्य गतिं सकाहलःपयोधिनिर्घोषगभीरभैरवः ।रवः प्रगल्भाहतभेरिसम्भवःप्रकाशयामास ततः समन्ततः ॥१२॥भयं वितन्वन्भवनेषु पक्षिणांगजेन्द्रघण्टाघटितश्च निस्वनः।करेणुनादैरुपबृंहितो मुहुर्दिशःससर्पाथ समं समुद्धतः ॥१३॥समारुरोहाथ रथं महारथःसहेमचित्रं सह राजकन्यया ।दिनादिसन्ध्यानुगतां पिशङ्गितांस्वरश्मिदीप्त्येव दिवं दिवाकरः ॥१४॥शिरःप्रदेशस्थसमुद्गपेटिकागृहीतवीणाशुकपञ्जरादयः ।स्त्रियोऽप्यनुस्यन्दनमस्यनिर्ययुः सवेत्रहस्तैः स्थविरैरधिष्ठिताः ॥१५॥मदान्धमातङ्गघटाऽद्रिसङ्कटेपरिक्वणन्ती बलकायनिम्नगा ।पुरः प्रतस्थे पुरुहूततेजसःतरङ्गिता वल्गुतुरङ्गरङ्गितैः ॥१६॥स्वदृष्टिरोधिश्रवणाग्रमारुतैरजो रथोत्थं यदि नाहरिष्यत ।विनिर्गताभिर्न पुरो मदस्रुताघटाभिरद्रक्ष्यत वर्त्म दन्तिनाम् ॥१७॥व्यतीतरथ्येऽथ रथे कपोलयो-र्विलासवत्या लसदंशुजालयोः ।पपात तस्याः पुरगृह्यदीर्घिका-समीरणानर्तितपद्मजं रजः ॥१८॥प्रियं पथि प्रस्तरभेदकोटिभि-र्हतस्य चक्रे चलनं वरूथिनः ।विधाय तत्संवरणं वराङ्गनातमाललम्बे बलसन्निधावपि ॥१९॥रथध्वनिप्रापितसम्भ्रमं गवांकुलं समुत्पुच्छयमानमुन्मुखम् ।उदग्रकर्णं परिधावदेकतोददर्श सीताऽथ वनान्तवर्तिनी ॥२०॥विनिद्रपद्मा मृदुभिः समीरणै-र्विसारयन्त्यः कलहंसिकागिरः ।स्वदेशसीमासरितो विलंघिताःशुचं वधूचेतसि साधु सन्दधुः ॥२१॥विवृत्य दृष्टा विषयव्यतिक्रमा-च्छनैर्निमज्जन्त इवावनीतले ।स्वजन्मभूमौ गिरयो नृपात्मजा-कपोलमातेनुरजस्रमश्रुभिः ॥२२॥गजेन्द्रदन्ताहतवन्यसल्लकी-कषायगन्धिः पथि तत्र योषिताम् ।शनैर्विधून्वन्नलकाग्रवल्लरी-र्मुखानि पस्पर्श वनान्तमारुतः ॥२३॥पथि प्रतानो नृवरस्य तामसःततान भीमं भयमादिशन्दिशः ।प्रसह्य वैरोचनरोचिषामथक्षिपन्क्षपाया विगमेऽपि संहतिम् ॥२४॥अरिष्टसन्तापविरूपदर्शना-स्तमोऽभिभूताः प्रतिकूलमारुताः ।अविप्रसन्नानि मुखानि भेजिरेदिशो विनाशोपगता इव क्षणम् ॥२५॥अथ प्रकाशीभवदग्रतो दिशंक्षणादुदीचीमवभास्य दीप्तिभिः ।बलेन तेजः पुरुषाकृतिश्रियाविभक्तमुत्पातमनु व्यदृश्यत ॥२६॥ततो दधानः श्रवणान्तसङ्गिनींविशुष्कपङ्केरुहबीजमालिकाम्विनिद्ररक्तोत्पलशङ्कया ततांविलोचनोपान्त इवालिसन्ततिम् ॥२७॥विशालवामांशतटावलम्बिनींसमुद्वहन्द्वीपितनुं तनूदरः ।परिज्वलत्तीव्रतपोहुताशन-स्फुलिङ्गपातैरिव बिन्दुचित्रिताम् ॥२८॥भुजेऽतिभीमे सशरं शरासनंनिधाय वामे निधनावहं द्विषाम् ।करेऽपरस्मिन्परदुर्गपारगंपरं स बिभ्रत्परशुं परासुहा ॥२९॥तपोऽभिधानस्य सितेतराध्वनःशिखा इवादित्यमयूखपिङ्गलाः ।समीरणैरात्मरयेण सम्भृतैर्जटाविधून्वन्वलिताः समन्ततः ॥३०॥प्रभुर्भृगूणामथ तद्बलं वलीहसेन धून्वञ्जलनं वितन्वता ।निरुष्य रामेण रुषावृता गिरःपरोऽवतारो जगदे जगत्प्रभोः ॥३१॥विधीयतामन्यमिव क्षितिक्षितंन राम रामं युधि जेतुमुद्यमः ।सरित्तटीपाटनपाटवस्पृशंन गोपतिं प्राप्य नगो विशीर्यते ॥३२॥रघोरपत्ये जगतीपतिद्विषोवृथा तव स्यादिह विक्रमक्रमः ।अलं विसारिग्रसनस्थपाटवोन दन्दशूकप्रभवे विहङ्गमः ॥३३॥तव प्रयोगे धनुषोऽनुशासितुःशरासने भूघरनाथधन्वनः ।इतः प्रवृत्ताऽपि न नूनमागताविपत्त्वदीयश्रवणस्य गोचरम् ॥३४॥इतीरितं तस्य निशम्य तद्वचःपरस्य वृद्धिं यशसो वितन्वतीम् ।वृथा विधित्सन्धनुषो भिदामिदंजगाद शिष्यो वचनं पिनाकिनः ॥३५॥नवेश्वर स्तब्धतरं धनुर्द्वयंविधाय वन्ध्येतरबाणपातनम् ।विशामधीशे किल विश्वकर्मणापुरन्दराख्याय पुरा व्यतीर्यत ॥३६॥तयोरथैकं च रथाङ्गधारिणेविसृज्य पूर्वं दनुजारये धनुः ।अदायि चैकं त्रिदशाधिपेनतत्त्रिलोचनाय त्रिपुरं दिधक्षवे ॥३७॥व्यधत्त यत्नेन तथा मरुत्पति-र्विवित्सया तद्गतजन्यतेजसः ।यथाऽहवो हव्यवहोग्रतेजसा-ेरजय्यशक्त््योरजयोरजायत ॥३८॥समासहस्राणि समेतसाहसंदिशो दशापि प्रतिरुध्य पत्त्रिभिः।विहाय चक्रादि चकार देवयो-र्युगं महेष्वासयुगेन संयुगम् ॥३९॥अथो विकृष्टं मृदुभूतमीश्वरःससर्ज यच्चापमभेदि तत्त्वया ।अगादृचीकाय वितीर्णमक्षतंक्रमेण हस्तं मम वैष्णवं धनुः ॥४०॥उभौ गुणावस्य तयोर्जगच्छ्रुतिंजहाति नैको दृढतेति विश्रुतः ।असंशयं ज्येति निरूढिमागतःपरो ममैव श्रवणान्तगोचरः ॥४१॥अपाङ्गभागावधि चापपूरणंसुदुष्करं तिष्ठतु विष्णुगोचरम् ।गुणं यदि प्रापयसीह जिह्मतांबलोपपन्नेषु ततस्त्वमग्रणीः ॥४२॥निधाय बाणं धनुषीह पूरितेवधः स्वहस्तेन तवैष सत्क्रिया ।इतीरयित्वा तनयस्य भूपते-र्मुमोच हस्ते सशरं शरासनम् ॥४३॥ततः स शून्यामिव मुष्टिमानयन्अपाङ्गदेशं दशकण्ठसूदनः ।बलादविज्ञातविकर्षणश्रम-श्चकर्ष गुञ्जद्गुणबन्धनं धनुः ॥४४॥गुणद्वयेनातिसमुन्नतिद्वयंप्रसह्य नेमे कलहे महीयसा ।अकम्प्यमेकेन शरासनं बल-प्रकर्षगम्येन परेण भार्गवः॥४५॥स तेन मुक्तः किल सायकोदिवः पदं तपस्यद्वृषभस्य वाञ्छतः।द्वितीयवर्णस्य निहन्तुरात्मनोविधाय नीशारमथ व्यतिष्ठत ॥४६॥रिपोरजय्यस्य जयेन मानवैःसभाज्यमानो बहुमानमन्त्रणैः ।मनोज्ञवासे पथि मैथिलीसखःसुखेन नीत्वा कतिचिद्दिनानि सः ॥४७॥व्यपावृतद्वारमुखेन सन्ततंबलेन भूम्ना विशता कृतध्वनिः ।पुरीमुदन्वन्तमुदग्रनिस्वनंतनुं पिबन्तीमिव कुम्भजन्मनः ॥४८॥नरेन्द्ररथ्योभयभागचारित-प्रसारिकालागरुधूपवासिताम् ।ततामनन्तैरुपरत्नतोरणंसपङ्कजाष्टापदकुम्भमण्डलैः ॥४९॥वितन्वतीमुष्णघृणेरुदर्चिषःपरिक्वणत्काञ्चनकिङ्किणीगुणैः ।सुगन्धिना गन्धवहेन ताडितै-र्भ्रमत्पताकानिकरैः करच्छिदाम् ॥५०॥मधुव्रतव्रातविरावकिङ्किणी-रुतेन रम्यं मणितोरणस्रजाम् ।चयं पताकानुकृतानि बिभ्रतोघृतं दधानामनिलस्य रंहसा ॥५१॥विवेश तामंजलिबद्धसम्पदानरेन्द्रसूनुर्मुकुलानि सर्वतः ।मुहुर्मुखेन्दोरुदयेन कल्पय-ञ्जनस्य हस्तारुणपङ्कजानि सः ॥५२॥गुरूनपृष्ट्वैव कुमारमीक्षितुंजवेन वातायनमीयुरङ्गनाः ।न ता न सत्यो न च मूढवृत्तय-स्तथाहि वंशस्य रघोर्विनीतता ॥५३॥रराज वातायनसन्ततिर्वृताविलोलनेत्रैर्वनितामुखांबुजैः ।तता विनिद्रोत्पलपत्रसम्पदासरोजिनी तिर्यगिव व्यवस्थिता ॥५४॥द्युतिं दधौ जालगवाक्षसङ्गिनीनितम्बिनीनां चलदृष्टिसन्ततिः ।ततेव पङ्केरुहनालजालकैःपरिस्फुरन्ती शफरीपरम्परा ॥५५॥पदं पुरन्ध््रयामविशुष्कयावकंसमर्पयन्त्यामविलम्बिविक्रमम् ।बभूव सोपानविमर्दसम्भवःस्वराग एवांघ्रियुगस्य यावकः ॥५६॥कयाचिदालोकपथं मुखाकुलंसमेत्य घर्मस्रुतपत्त्रलेखया ।सखीकपोलाहितगण्डभागयाकृतस्तदीयेऽपि मुखे विशेषकः ॥५७॥प्रसाधनव्यापृतयाऽपि रामयाप्रदेशिनीपर्वविकृष्टकर्णया ।उपायये वामकरस्थपत्रयारयेण वातायनजालमन्यया ॥५८॥द्रुतप्रयाणश्लथकेशबन्धनासघर्मवारिस्रुति बिभ्रती सुखम् ।श्रमातुरोरुद्वयमन्थराऽपराययौ सपत्न्याः परिशङ्कनीयताम् ॥५९॥भृशाल्पवातायनयातमन्ययो-र्नितान्तमेकीकृतगण्डभागयोः ।प्रभासुरं कुण्डलमेकमेव त-न्मुखद्वयं मण्डयति स्म रामयोः ॥६०॥प्रियोपभुक्ताधरमर्धलक्षितंविधाय काचित्प्रथमं तु लज्जया ।प्रयाति दूरं नृपतौ दिदृक्षयाचकार वातायनबाह्यमाननम् ॥६१॥अतिष्ठदेका कुचयुग्मसम्पदानिरुध्य वातायनमुन्नतस्तनी ।सखीजनो यत्कृशमध्यभागतःपताकिनीमन्तरमाप वीक्षितुम् ॥६२॥प्रसह्य काचित्तनयं तनूदरीनिधाय वातायनदेहलीतले ।महीभुजे बालकमञ्जलिं बला-दकारयत्पङ्कजकोशकोमलम् ॥६३॥नृपः सुमित्रातनयो वधूरितिस्वयं करैर्निर्दिशति प्रियाजने ।तलप्रभापाटलभागभागिनोनखांशुजाला अपि चेरुरम्बरे ॥६४॥नृपात्मजं वर्धयितुं न शक्नुव-ञ्जयेन शालीनतया वधूजनः ।पदं विधत्स्वाविधवाजनोचितेपथीति पत्न्यै गिरमाशिषं जगौ ॥६५॥नरेन्द्रसेना विविशुः समन्ततोविवृद्धतोया इव यत्समुद्रगाः ।महार्णवस्येव बभूव तत्कृतःपुरस्य पूरो न च नातिरिक्तता ॥६६॥द्विधागतं द्वारमुपेत्य तद्बलंनिबध्यमानाञ्जलि शासिता भुवः ।नृपाङ्गणस्योभयभागसंश्रितंदृशाऽनुगृह्णन्स विवेश मन्दिरम् ॥६७॥देशं युधाजिति जितं तनुजे तपोऽर्थीविन्यस्य केकयपतिर्विपिनं विविक्षुः ।दूतेन तेन तनयं दुहितुर्दिदृक्षुःकालस्य कस्यचिदथेन्द्रसखं ययाचे ॥६८॥अथ स युधाजिति स्वविषयं सति नीतवतिप्रथितगुणे गुणप्रचयलाभरतं भरतम् ।इतरसुताहितप्रियशताहततद्विरह-प्रभवशुचोऽनयन्नयशुचिः सुचिरं दिवसान् ॥६९॥इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणेमहाकाव्ये नवमः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP