संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| द्वितीयः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - द्वितीयः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत द्वितीयः सर्गः Translation - भाषांतर रावणेन रणे भग्ना देवा दावाग्नितेजसा ।द्रष्टुं जगत्पतिं जग्मुः पुरस्कृतपुरन्दराः ॥१॥निजदेहभराक्रान्तनागनिश्वासरंहसा ।गतागतपयोराशिपातालतलमास्थितम् ॥२॥आसीनं भोगिनि स्रस्तमौलिमाल्यविभूषणम् ।तत्क्षणत्यक्तनिद्रार्तिबद्धरागायतेक्षणम् ॥३॥भुजङ्गपृथुकारूढमातङ्गमकराश्रयम् ।युद्धमम्भोनिधिच्छेदे पश्यन्तं नृपलीलया ॥४॥भोगिभोगासनक्षोभो माभूदिति सुदूरतः ।भक्त््यानतशरीरेण सेव्यमानं गरुत्मता ॥५॥अर्करश्मिभयेनेव पातालतलमास्थितम् ।लक्ष्मीमुखतुषारांशौ प्रीत्या व्यापारितेक्षणम् ॥६॥स्वमुखे सञ्चरद्दृष्टेरङ्कविन्यस्तपार्ष्णिना ।स्पृशन्तं पादपद्मेन पद्माया नाभिमण्डलम् ॥७॥सव्यापसव्यभागस्थपाञ्चजन्यसुदर्शनम् ।तटद्वयस्थचन्द्रार्कविन्ध्यशैलमिवोच्छ्रितम् ॥८॥पुरुषं पुरुहूताद्या नत्वा गीर्वाणसंहतिः ।सनातनं स्कन्नशक्तिरूचे नुतियुतां गिरम् ॥९॥समुद्रमथने यस्य भ्रमन्मन्दरघट्टिताः१ ।तारा इव दिशो वव्रुः प्रदीप्ताङ्गदकोटयः ॥१०॥येन दुर्वारवीर्य्येण सागराम्बरचन्द्रमाः ।शङ्खः१ पातालपालानां यशःपिण्डमेवोद्घृतम् ॥११॥यमंस२द्वयसंसक्तचन्द्रादित्याङ्गदश्रियम् ।नेमुस्त्रिविक्रमे देवास्ताराहाराङ्कवक्षसम् ॥१२॥मन्थवातभ्रमन्मेघनक्षत्रादित्यमण्डलम् ।पुरा निर्मथितं येन व्योमापि सह सिन्धुना ॥१३॥नाभिपद्मस्पृशौ भीमौ येन मायाशयालुना ।पाणिभिः पाटितौ कामं कीटवन्मधुकैटभौ ॥१४॥लोकत्रयं यश्च सर्वं संहृत्य शयनं गतः ।दृश्यते सलिलस्कन्धः सान्द्रीभूत इवोदधेः३ ॥१५॥तुभ्यं सत्त्वमधिश्रित्य त्रैलोक्यपरिरक्षणे ।सद्यः स्मरणमात्रेण नमस्तस्मै तमोनुदे ॥१६॥त्रिधा ते समभूद्योगः स्पृष्टसत्त्वरजस्तमाः ।स्थितिनिर्वाणसंहारभेदयोगेन भेदितः ॥१७॥कुक्षौ तव परिभ्रम्य४ पश्यन्विश्वं विशां पतिः ।विवेद त्वां विदामग््रयस्त्रैलोक्यभरसासहिम् ॥१८॥जगन्नेता नुतोऽथैवं भक्त््या नाकस्य भोक्तृभिः ।हरिर्हारिहितं वाक्यं जगाद गदनाशनः ॥१९॥प्रबलारिबलप्राणविक्रियाहेतुहेतयः ।किन्नु स्कन्नौजसो जाता देवा दैवक्षता इव ॥२०॥हरेर्ध्यानारुणा शोकक्षामा नेत्रपरम्परा ।किं बिभर्ति परिम्लानरक्तोत्पलवनश्रियम् ॥२१॥पाशपाणिरसाविष्टविग्रहो वनगोचरः ।विरोऽपि वरुणः केन क्षुद्रपाशीव पीडितः ॥२२॥किमयं शोकसन्तापैर्मातरिश्वा कृशोऽपि सन् ।भूरिभिर्निजनिःश्वासैः पुनरेवोपचीयते ॥२३॥एवं ध्रुवपरावृत्तिः सम्पद्विधिनिबन्धना ।शोकविश्वभुजा सोऽयं दह्यते दहनोऽपि सन् ॥२४॥सम्प्राप्तजडिमा भानुस्त्रीव्रतापश्च चन्द्रमाः ।किमेतौ वहतो देवौ धामव्यत्ययविप्लवम् ॥२५॥शुचैव सगदः सोऽहं भूयः किं धृतयाऽनया ।इति त्यक्ता गदा नूनं मित्रेण गिरिधन्वनः ॥२६॥लाघवं केन कीनाश कृतं सायुधवाहने ।रक्षके महिषस्यैवं दण्डहस्ते शिशाविव ॥२७॥प्रेरकः शिखिनः शक्त््या भीमः पातिततारकः ।कल्पानिल इवावार्यः स्कन्दः किं दैन्यमास्थितः ॥२८॥आहत्य हृतसर्वास्त्रा भ्रूधनुर्मात्रधारिणी ।कटाक्षशरशेषेयं चण्डी केन कृता रणे ॥२९॥निजनिःश्वासपिङ्गाङ्गकर्कोटाबद्धकन्धरः ।नागशोणितदिग्धास्यस्तार्क्ष्यो राजशुकायते ॥३०॥साग्निजिह्वा तडिल्लेखानद्धा१ चास्य फणावली ।किन्नु म्लायति वर्षान्ते घनश्रेणीव वासुकेः ॥३१॥प्रमथानामधीशस्य माथकस्यामुरद्विषाम् ।कूटस्थोऽपि मदः शोषवैकृतं किन्नु सेवते ॥३२॥पृष्टवन्तमिति प्रष्ठः प्राज्ञः प्राञ्जलिरव्ययम् ।धिषणो धिषणागम्यं जगाद जगदीश्वरम् ॥३३॥त्वया सर्वज्ञ विज्ञातं पुनरेवेदमुच्यते ।असन्तोषो हि भृत्यानां स्वामिनि स्वार्तिजल्पने ॥३४॥मानिनामग्रणीरस्ति पुलस्त्यसुतसम्भवः ।दर्पोद्धृतजगद्रक्षो रक्षोनाथो दशाननः ॥३५॥चिरं चीरी जगन्नाशफलाय फलसाधनः ।निर्विकारश्चकाराग्नौ स महौजा महत्तपः ॥३६॥तेन व्रतयताहारं तपस्तप्तमुदन्वति ।मातङ्गमकरक्रूरदन्तोल्लिखितवक्षसा ॥३७॥तत्तपस्तोषितस्तस्मै चतुराय चतुर्मुखः ।वरं वीराय विश्वेशः प्रादाज्जेतुं जगत्रयम्१ ॥३८॥स कदाचिद्रटन्नागं नगं नाकौकसामरिः ।हरगौरं हरस्थानं पटुनादं व्यपाटयत् ॥३९॥स्फुरन्नगशिरस्त्यक्तैरुन्नदन्नदनिर्झरैः ।स्पृष्टे पूषणि झङ्कारं घोरमातन्वति क्षणात् ॥४०॥एकतः प्रग्रहाकृष्टखलीनावक्रकन्धरान् ।वाजिनो जवयत्यद्रिपातभीतेऽ२र्कसारथौ ॥४१॥घूर्णमानमहाशैलतटभ्रष्टे मुहुर्मुहुः ।मत्तस्येवोत्तरीये स्वं स्थानं त्यजति निर्झरे ॥४२॥गौरीभयपरिष्वङ्गस्पर्शलब्धमहोत्सवे ।सङ्क्रुद्धधूर्जटिक्रोधप्रतिलोमप्रवर्तिनि ॥४३॥कपालनयनच्छिद्रं जटाबद्धफणावति ।सङ्कोचितफणाचक्रं विशत्युत्त्रासविह्वले ॥४४॥कार्तस्वरमयं मेषं कृकवाकुध्वजे सति ।गोपायति परित्रस्ते मातुरुत्सङ्गसङ्गिनि ॥४५॥उत्पश्यति चिरं धीरे१ क्रोधरोधार्तचेतसि ।भर्त्तुर्भ्रूभागभङ्गस्य प्रादुर्भावं ककुद्मनि ॥४६॥रूढमूलमिव श्वेतैरधोलग्नैर्भुजङ्गमैः ।प्रौढपुष्पमिवाग्रस्थस्फुरन्नक्षत्रमण्डलैः ॥४७॥चरणेन रणत्सिंहकुलाकुलगुहामुखम् ।गिरिं गौरीपतिः कुञ्जे गुञ्जत्सिन्धुं न्यपीडयत् ॥४८॥धराधरभराक्रान्ते बाहौ बहुभिराननैः ।दिक्षु दीर्घप्रतिक्रोशो रावणेन कृतो रवः ॥४९॥स तं देवं शिरश्छेदव्रणचक्रैरपूजयत् ।नीलकुट्टिमविन्यस्तैर्मण्डलैरिव कौङ्कुमैः ॥५०॥वक्त्राणि पङ्क्तिसङ्ख्यानि राक्षसस्य दिशो दश ।आज्ञापयितुमेतस्य पुनः सृष्टानि शूलिना ॥५१॥तमःस्थानं तमासाद्य बालिशं कुलिशं रणे ।अजहादज धाम स्वं वैकुण्ठस्य विकुण्ठितम् ॥५२॥तमद्याप्यनवद्येन वसुना वासवः स्वयम् ।अजय्यं पूजयत्येकवीरं वैरस्य शान्तये ॥५३॥बलिं वज्राय पौलोमी सस्मितं विगतादरा ।कुर्वती कुरुते शक्रं व्रीडासन्नरमिताननम् ॥५४॥केवलं धनदस्तस्मै यक्षनाथो दिशन्धनम् ।सर्वस्वहरणप्रीतो रावणस्तु धनेश्वरः ॥५५॥कर्म धर्म्यं परित्यज्य प्रीणाति पिशितप्रियम् ।प्रेतराजोऽप्यभिप्रेतभक्ष्यदानेन राक्षसम् ॥५६॥दूरतः सेवते भानुरादित्यमणितोरणात् ।च्युते तन्मन्दिरद्वारदाहभीतो हुताशने ॥५७॥निवृत्ततत्सरःपद्मस्वापकारणतेजसा ।बोधनीयं किलाशेषं वनं कौमुदमिन्दुना ॥५८॥तथा ज्वलितुमादिष्टो दीपकृत्यो वृषाकपिः ।यथा न कज्जलस्पर्शचित्रवैवर्ण्यसम्भवः ॥५९॥रतिक्लमथुमद्देहं तरङ्गान्तरगोचरः ।लब्धसेवावकाशः सन्सेवते तं समीरणः ॥६०॥पातालहृदयान्तःस्थं पद्मरागं पयोनिधिः ।अग्रमांसमिवोद्धृत्य ददाति पिशिताशिने ॥६१॥काले कालाभ्रगर्भेऽपि निर्मदा नर्मदादयः ।नन्दयन्ति सदा नद्यो वज्रैर्वज्रायुधद्विषम् ॥६२॥निशि ज्ञातमनोवृत्तिस्तमुपैति हिमागमः ।प्रियाजनपरिष्वङ्गप्रीतिं कर्तुं निरन्तराम् ॥६३॥तस्योद्यानवनं विश्वं दिवः प्रवसता सता ।सर्वर्त्तुषु निजैः पुष्पैर्भूष्यते मधुनाऽधुना ॥६४॥दुराराध्यस्वभावस्य समालम्ब्य सिषेविषाम् ।जलक्रीडादिनं तस्य ग्रीष्मश्चिरमुदीक्षते ॥६५॥त्रासकण्ठग्रहव्यग्रांस्तस्मिन्निच्छति मानिनीः१ ।धीरं गर्जन्ति लङ्कायामकाले वारिदा अपि ॥६६॥अश्रान्ता वीजयत्यष्टहस्तपर्यायसम्पदा ।इति चण्डीमभिप्रेप्सुः कर्त्तुं चामरधारिणीम् ॥६७॥स्तब्धकर्णो नमत्येनं श्रवणाक्षेपमारुतैः ।भूभक्तिकुसुमाक्षेपदोषभीतो गणाधिपः ॥६८॥स्मरश्च संसदं तस्य विशति स्रस्तवाससा ।प्रतीहार्या स्मिताकूतविभ्रमैः कठिनागमः ॥६९॥अन्तःशुद्धः शुद्धान्ते स्त्रीजनस्य तदाज्ञया ।लीलोपदेशदानैकव्यग्रो विशति मन्मथः ॥७०॥त्वयि रक्षाकृति स्वर्गसद्मनामपि दैवते ।कथं नक्तञ्चरेणैवं दिवस्त्रासो वितन्यते ॥७१॥भ्रातरि द्विषतो बाहुभग्नौजसि विडौजसि ।भोगिभोगे चिरं तावत्केयं देवस्य शायिका ॥७२॥आत्मस्वनुगुणं दैवं दृष्ट्या मन्यामहे तव ।नहि त्वं दैवहीनस्य जनस्य तु सुदर्शनः ॥७३॥इत्थं वाचस्पतौ वाचं व्याहृत्य विरते क्षणम् ।स्वर्गे च स्वप्रतिजल्पस्पृहानिष्पन्दवर्तिनि ॥७४॥अपि कुक्षिस्थनिःशेषलोकत्रयभरोद्वहः ।शोकक्षयाय मर्त्यस्त्रीकुक्षिवासं विधाय वः ॥७५॥कुर्यां राम इति ख्यातो भूत्वा भर्त्तुः सुरद्विषाम् ।एकबाणकृताशेषशिरश्छेदपराभवम् ॥७६॥इत्युदारमुदाहृत्य वचो वाचामगोचरः ।तत्याज वेदविद्वेद्यो वर्षातल्पं वृषानुजः ॥७७॥चिरशयनगुरुं स्वभोगराशिंभुजगपतिः शनकैर्वितत्य खेदात् ।शिथिलितफणपङ्क्तिमुक्तदीर्घ-श्वसितविधूतमहार्णवोऽवतस्थे ॥७८॥निद्रामन्थरताम्रलोचनयुगो लीलालसन्न्यासयागत्या निर्जितवारणेन्द्रगमनः क्वापि प्रतस्थे ततः ।भूमिस्पर्शभयादुपेत्य तरसा लक्ष्म्या करेणोद्धृतंव्यालम्बैकपटान्तमंसशिखरे क्षप्त्वोत्तरीयं हरिः ॥७९॥इति कुमारदसस्य कृतौ जानकीहरणे महाकाव्येजगत्पत्यभिगमनो नाम द्वितीयः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP