संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| तृतीयः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - तृतीयः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत तृतीयः सर्गः Translation - भाषांतर अथ श्रियः प्राणसमस्य तस्यज्ञात्वा विविक्षामिव मर्त्त्यधामि्न ।ततान सद्यः सुमनःसमृद्ध्यापूर्वावतीर्णो भुवनं वसन्तः ॥१॥भ्रान्त्वा विवस्वानथ दक्षिणाशा-मालम्ब्य सर्वत्र करप्रसारी ।ऋत्वित्ततो निःस्व इव प्रथस्थेयत्रोपलब्धो धनदस्य वासः ॥२॥वृक्षा वितेनुर्नवकुड्मलाढ्यारूपं मनोज्ञद्युति चम्पकाख्याः ।न्यस्ता वसन्तस्य वनस्थलीभिःसहस्रदीपा इव दीपवृक्षाः ॥३॥सम्पिण्डितात्मावयवा उदीयुःपद्मा नवाः कण्टकितोर्ध्वदण्डाः ।अन्तर्जलावासविरूढशीत-त्रस्ता वसन्तातपकाम्ययेव ॥४॥कर्णे कृतो दीर्घविलोचनाना-मलोलदृष्टद्युतिभिन्नरागः ।बालोऽप्यशोकप्रभवः प्रबालःकान्तिं प्रपेदे परिणामगम्याम् ॥५॥स्फुरन्ति कान्त्या नवकुड्मलानिप्रादुर्बभूवुः करवीरजानि ।प्रवासिनां शोणितपाटलानितीरीफलानीव मनोभवस्य ॥६॥लब्ध्वा रणन्नूपुरमङ्गनानांबन्ध्योऽपि सालक्तकपादघातं ।उद्भूतरोमाञ्च इवातिहर्षात्पुष्पाङ्कुरैरास नवैरशोकः ॥७॥महीध्रमूर्धि्न भ्रमरेन्द्रनीलै-र्विभक्तशोभः शिखिकण्ठनीलैः ।गृहीतभास्वन्मुकुटानुकार-स्ततान कान्तिं नवकार्णिकारः ॥८॥वासन्तिकस्यांशुचयेन भानो-र्हेमन्तमालोक्य हतप्रभावम् ।सरोरुहामुद्धृतकण्टकेनप्रीत्येव रम्यं जहसे वनेन ॥९॥समीरणानर्तितमञ्जरीकेचूते निसर्गेण निषण्णभावाः ।पुष्पावतंसेषु पदं न चक्रु-र्दीप्तेष्विवाशोकवनेषु भृङ्गाः ॥१०॥विनिद्रपुष्पाभरणः पलाशःसमुल्लसत्कुन्दलतावनद्धः ।उद्भूतभस्मा मधुनेव रेजेराशीकृतो मन्मथदाहवह्निः ॥११॥महीरुहां वातचलाः प्रवालावसन्तदीप्तातपखेदितानां ।जिह्वा यथा विद्रुमभङ्गताम्रानिष्कासिता रेजुरतिश्रमेण ॥१२॥प्रालेयकालप्रियविप्रयोग-ग्लानेव रात्रिः क्षयमाससाद ।जगाम मन्दं दिवसो वसन्त-क्रूरातपश्रान्त इव क्रमेण ॥१३॥ततः स्मरस्याहवधामकल्पंक्षोणीपतिर्भ्रान्तशिलीमुखाङ्कम् ।उद्यानमासेवत रक्तदीप्ति-सन्तानभास्वत्करवीरकीर्णम् ॥१४॥रम्याणि रामानुगतो विहङ्ग-पक्षानिलानर्तितपल्लवानि ।उद्भ्रान्तभृङ्गाणि लतागृहाणिसम्भावयामास रहोविहारैः ॥१५॥त्वमप्रमादं कुरु नूपुराङ्घ्रौकाञ्चि क्षणं धत्स्व नितम्बभारम्१ ।इतीव तस्मिन्विहरन्नृपस्त्री-कक्ष्यातुलाकोटिपुटैर्निनेदे ॥१६॥पत्यावनङ्गक्षतधैर्यवृत्ति-श्चिक्षेप बाला मुहुरर्द्धदृष्टिम् ।दूरस्थपुष्पस्तबकावभङ्ग-व्याजेन सन्दर्शितबाहुमूला ॥१७॥विलासवत्याश्चरणान्तरागेपत्या परस्याः प्रविधीयमाने ।अन्यत्र युक्तेऽपि बबन्ध रागंलाक्षारसस्तत्प्रतिपक्षनेत्रे ॥१८॥पातुं सुदत्या वदनारविन्द-मादाय दृष्टो ललनाभिरीशः ।अपुष्परेणुव्यथितेऽपि तस्या-श्चिक्षेप नेत्रे मुखगन्धवाहम् ॥१९॥पुष्पावभङ्गे निजहस्तकान्त्याविन्यस्तरागं कठिनं पलाशम् ।प्रवालकृत्ये विनियोजयन्तीपत्याऽपरा सस्मितमालिलिङ्गे ॥२०॥स्निग्धद्विजालीरुचिरं प्रियङ्गु-श्यामद्युतिश्चारुतमालकान्ता ।बिभर्षि गन्धाहृतभृङ्गचक्रंसन्माधवीमण्डपमेतदास्यम् ॥२१॥मध्येललाटं तिलकस्य वृत्ति-रोष्ठद्युतिर्भाति च पाटलेयम् ।पुन्नागसंयोगविभूषिताया-श्चेतश्च ते यातमशोकभावम् ॥२२॥किं कौतुकेन श्रमकारिणा तेबाले त्यजोद्यानविहाररागम् ।अस्य त्वमस्योपवनस्य लक्ष्मी-रित्येवमूचे ललना सखीभिः ॥२३॥तन्व्या नवाशोकदलस्य रागःप्रियेण कर्णे विनिवेशितस्य ।आनीलया नेत्ररुचा निरस्त-स्तस्या जगामेव विपक्षचक्षुः ॥२४॥पर्यन्तभूमौ मदमन्दपातंचक्षुर्निधायाऽथ निधिर्गुणानाम् ।उवाच वाचं निकटोपयातांहारिप्रलापः प्रतिहाररक्षीम् ॥२५॥विलोकयन्त्यः विलसत्प्रसूनंलोभेन कुर्वन्ति कुरङ्गनेत्राः ।शुभाभिरेनं नयनप्रभाभिःशारत्विषं पुष्पतरुं तरुण्यः ॥२६॥विभाति भृङ्गीसरणिः सरन्तीगन्धाहृता चम्पककुड्मलाग्रे ।अन्तं प्रदीपस्य निषेवमाणाधूमावली कज्जलरेखिणीव ॥२७॥उदन्यया वारिविगाहितायारक्तोत्पलं तन्निकटप्ररूढम् ।विलोकयाक्ष्णोः शितिकान्तिजालै-रिन्दीवरत्वं गमितं हरिण्याः ॥२८॥सञ्छादिते पद्मरजोवितानैःपरिभ्रमन्वारिणि राजहंसः ।स्ववर्त्मरेखाभिरसौ विभज्यप्रयच्छतीवाब्जवनं खगेभ्यः ॥२९॥इयत्प्रमाणोऽपि सरःप्रदेश-स्तव प्रसादेन ममास्तु भोग्यः ।इत्येष सन्दर्शयतीव मद्गु-र्हंसाय शोषाय विसारितांसः ॥३०॥पद्मः सितोऽयं पवनावधूतै-र्निर्धौतरागो नु तरङ्गलेशैः ।सम्भावितो नु द्रुहिणेन तावत्कृतादिकर्मापि न यावकेन ॥३१॥एवं वदन्नेव वराङ्गनाभि-र्वृतो वृषेन्द्रोपमखेलगामी ।ततः सलीलं सलिलं विभिन्द-न्स दीर्घिकां दीर्घभुजो जगाहे ॥३२॥तस्योरसि क्षत्त्रकुलैककेतो-स्तरङ्गदोषा कमलाकरेण ।न्यस्ता मुहुः पङ्कजरेणुपङ्क्तिःसौवर्णसूत्रश्रियमाततान ॥३३॥कामीव रामाजनमूरुदघ्नम्पद्माकरो वारि विगाहमानम् ।वीचीकराग्रेण शनैः सशब्दम्व्यास्फालयामास पृथौ नितम्बे ॥३४॥तस्यावगाहे वनिताजनस्यदूरीकृतः पीननितम्बचक्रैः ।लब्धप्रवेशस्तनुषूदरेषुस्तनैरुदासेऽथ सरस्तरङ्गः ॥३५॥क्रीडापरिक्षोभरयेण तासा-मुत्सारिते पङ्कजरेणुजाले ।तत्कञ्चुकादम्बुरुहाकराम्भःकौसुम्भतः कृष्टमिवावभासे ॥३६॥रामाभिरुक्तण्टकदण्डमग्रेसम्भावितं नोच्छिदया सरोजम् ।इन्दीवराणामुदहारि पङ्क्ति-र्दीप्ता मृदुष्वेव जनस्य शक्तिः ॥३७॥अन्तर्जलावारितमूर्ति यातु-र्बालापरिष्वङ्गसुखाय पत्युः ।विघ्नाय वैमल्यमपां बभूवव्यर्थः प्रसादो हि जलाशयानाम् ॥३८॥भृङ्गा निलीनेन सरोजषण्डेयोषिद्वितीयेन नराधिपेन ।उत्सारिता वक्तुमिवापरासांकर्णान्तमीयुर्निहितावतंसम् ॥३९॥नृपेण केलीकलहेऽपरस्या-श्छिन्नच्युतस्याम्बुजिनीपलाशे ।हारस्य वीचीकणिकाः समीपेपूर्वस्थिताः संवरणान्यभूवन् ॥४०॥क्रीडाविमर्दे वलयस्य भिन्न-भ्रष्टस्य चिक्षेप विकृष्य हंसः ।स्वच्छे जले बालमृणालभङ्ग-शङ्काहृतः शङ्खमयस्य हंसः ॥४१॥रोधोलतामण्डपयातकान्ता-सम्भोगतः सर्पति काञ्चिनादे ।ररक्ष राजानमथ व्यलीका-दुत्त्रासमुक्तः कलहंसनादः ॥४२॥निरुद्धहासस्फुरिताधरोष्ठःसद्यः समाविष्कृतरोमहर्षः ।जलावमग्नप्रमदोपगूढे-रुद्भावकस्तस्य बभूव गण्डः ॥४३॥फुल्लं यदीदं कमलं किमेव-मत्रैव नीलोत्पलयोर्विकाशः ।इत्यात्तशङ्को वदनं सुदत्याहंसः सिषेवे न सरस्तरन्त्याः ॥४४॥सुगन्धिनिश्वासगुणावकृष्टंमुखे पतन्तं करपल्लवेन ।दुर्वारमन्तःसलिलप्रवेशात्तत्याज काचिद्भ्रमरीसमूहम् ॥४५॥मत्स्येन चीनांशुकपृष्ठलक्ष्य-काञ्चीमणिग्रासकुतूहलेन ।आघ्राय मुक्तोपनितम्बमेकासन्त्रासभुग्नभ्रु चिरं चकम्पे ॥४६॥व्युदस्तवासाः सलिलं नृपेणतत्याज नो सव्यपदेशमन्या ।स्थाने प्रयुक्तः कपटप्रयोगःक्वचिद्भुनक्त््येव जनं विपत्तेः ॥४७॥हृतान्तरीया हृदयेश्वरेणव्रीडोपतप्ता पयसः प्रसादात् ।व्यर्थप्रणामाश्रुनिपातवृत्तिःकाचिज्जलं सम्भ्रमयाञ्चकार ॥४८॥सामि प्रबुद्धस्य कुशेशयस्यकोशे मुखन्यासनिरुद्धट्टष्टिम् ।स्प्रष्टुं प्रयेते कलहंसशाबंनिःशब्दमुत्खण्डितवीचि सस्रे ॥४९॥सङ्क्षोभितोद्दामसरस्तरङ्ग-क्षिप्ता किलैका नृपतिं कुचाभ्याम् ।आहत्य धृष्टत्वकृतापवाद-व्यपायरम्यं मुहुरालिलिङ्गे ॥५०॥अन्या पुराणं निजमेव वीचि-विक्षालिताङ्गेऽधिपतेः पृथिव्याः ।मार्गं नखस्य स्फुटकुङ्कुमाङ्कंट्टष्ट्वा परं द्वापरमाललम्बे ॥५१॥किं राजहंसस्य शशाङ्कबिम्ब-च्छायामुषश्चञ्चुरियं प्रवालैः ।बद्धा नु गन्धोज्ज्वलकेशराग्र-च्छेदेषु दिग्धा नु सरोजकान्त्या ॥५२॥भृङ्गोऽयमिन्दीवरमध्यपात-सञ्चारितैस्तद्युतिरञ्जितो नु ।निधाय तस्मिन्निजपक्षशोभा-मादत्त नु स्वादुमतः परागम् ॥५३॥पद्मा पदं पद्मवने विभिन्न-वीचीकणार्द्रद्रुतयावकाङ्कम् ।चक्रे चिरं चारुतया नु लोभा-दित्यास कासामपि तत्र तर्कः ॥५४॥यातो नु भृङ्गः पतितः पुराऽस्मिन्बीजत्वमेवं नु विरिञ्चिसृष्टिः ।विपाकनीलद्युति पद्मवीजंकोशादुदस्येति कयाचिदूचे ॥५५॥प्रियोऽपरस्या गलितान्तरीयेव्यापारयामास दृशौ नितम्बे ।तद्धस्तयन्त्रच्युतवारिधारानालं बभूवास्य मुखारविन्दे ॥५६॥सायं समादाय निकामपीत-सुप्तद्विरेफं मुकुलं सरोजम् ।काचित्करास्फालितदीर्घदण्डंभर्त्तुर्भुवः क्वाणयति स्म कर्णे ॥५७॥याते पतङ्गे विससर्ज भृङ्गान्समुच्छ्वसत्कौमुदगन्धलुब्धान् ।सा पद्मिनी पद्मविलीचनेभ्यःस्थूलानिवोढाञ्जनवाष्पबिन्दून् ॥५८॥नूनं पती वासरजङ्गमानांपर्यायविश्रामपरार्थतन्त्रौ ।एको निमज्जत्यधिवारि सिन्धो-रन्यो जहौ तत्कमलाकराम्भः ॥५९॥निद्राहृताम्भोजनिमीलिताक्षीरुग्णं मृणालीवलयं दधाना ।सरोजिनी तत्परिभुक्तमुक्तामूर्च्छातुरेव स्तिमिता विरेजे ॥६०॥द्वयं द्वयोरम्बुरुहाकरस्यकृतोपकारस्य निधाय जग्मुः ।भृङ्गावलीष्वञ्जनमायताक्ष्यःपद्मेषु दन्तच्छदयावकञ्च ॥६१॥सरः सहंसं सह कामिनीभि-र्विहाय तुल्यो वृषवाहनस्य ।विभूषितो लम्भितभूषजानि-रध्यास्त सौधं वसुधाधिनाथः ॥६२॥आकृष्टदृष्टिर्गगनस्य लक्ष्म्यालक्ष्मीभुजा वासरसन्धिभाजः ।काचित्कुचानम्रतनुर्बभाषेबाला सबालव्यजनैकपाणिः ॥६३॥निधाय तापं तपनः पतत्यसौप्रवासिनां चेतसि चिन्तयाऽऽतुरे ।सुकुङ्कुमस्त्रीकुचमण्डलद्युति-र्विलोलवीचावपरान्तसागरे ॥६४॥इयं तनुर्वासरसन्धिचारिणीजगत्सृजो विद्रुमभङ्गलोहिनी ।समं विधत्ते मुकुलं सरोरुहै-र्हिरण्यबाहोरपि हस्तपङ्कजम् ॥६५॥करेण वीचीवलयस्य मस्तकेविभाव्यमानस्फुरिताग्रकोटिना ।इयत्प्रमाणं पयसः पयोनिधौनिमज्ज्य सन्दर्शयतीव भानुमान् ॥६६॥विकीर्णसन्ध्यारुणितं शतक्रतो-र्दिशः प्रदेशादभिनिष्पतत्तमः ।पतङ्गतेजःपरितापलोहितंजगत्क्रमेण व्रजतीव निर्वृतिम् ॥६७॥हिमांशुबिम्बे पुरुहूतदिङ्मुख-स्मितश्रियं बिभ्रति कोमलद्युतौ ।विसृज्यमानं तमसा नभस्तलंजहाति निर्म्मोकमिवाञ्जनत्विषा ॥६८॥अथैवमस्यावसरे वचःश्रियःसमीक्ष्य निष्ठामुपनीतमास्थया ।अपाययन्त प्रमदा मदालसाःस्खलद्गिरास्तं मधु लम्भितादराः ॥६९॥प्रियोपनीतं पिबतोऽधिवासितंनृपस्य गण्डूषमधु प्रकामतः ।बभूव दन्तच्छदपल्लवस्तदानिपीतपानावसरोपदंशकः ॥७०॥प्रियेण वध्वा मधु लासितोत्पलंविपक्षगोत्रेण निगद्य लम्भितम् ।अपीतमप्यक्षि विधाय रागव-त्ततान सद्यः श्रमवारि गण्डयोः ॥७१॥त्विषा मुखेन्दोरुत शर्वरीकृतःकरेण नीते मुकुलत्वमम्बुजे ।प्रियेक्षणस्य प्रतिबिम्बमाचरत्सरोजकृत्यं मधुभाजि भाजने ॥७२॥यियासुना पङ्कजगर्भसौरभंमुखं तदीयं प्रतिबिम्बमूर्तिना ।समन्मथेनेव तरङ्गितासवेमुहुश्चकम्पे चषके हिमांशुना ॥७३॥स्थितस्य मुग्धा मदघूर्णलोचनानिरूपयन्त्यः शुचिरूप्यभाजने ।न रूपमिन्दुप्रतिरूपगोपितंविलासवत्यो मधुनो विजज्ञिरे ॥७४॥प्रवृद्धवामत्वमनन्यसाधितंविधूय मानादपि१ पूर्वमासवः ।स्मरं नु तासां हृदये विलोचनेबबन्ध रागं नु मुखे नु२ सौरभम् ॥७५॥इति प्रबन्धाहितपानकातरंप्रियाङ्कतल्पे शयितं निशात्यये ।व्यबोधयन्मङ्गलवन्ति वन्दिनोविधाय वाक्यानि विधातृतेजसम् ॥७६॥जहिहि शयनमुद्गमस्य कालःसमुपनमत्यनुरक्तमण्डलस्य ।भुवनशिरसि कीर्णपादधाम्नोभवत इव क्षततामसस्य भानोः ॥७७॥विरामः शर्वर्या हिमरुचिरुपेतोऽस्तशिखरंकिमद्यापि स्वापस्तव मुकुलिताम्भोरुहदृशः ।इतीवायं भानुः प्रमदवनपर्यन्तसरसींकरेणाताम्रेण प्रहरति विबोधाय तरुणः ॥७८॥द्विपास्ते दन्ताग्रस्थितकरमुदस्याननतटंशनैराकर्षन्तो निगडकृतझङ्कारमपरम् ।समुत्तिष्ठन्त्येते करटतटलीनालिवितती-र्निरस्यन्तो हेलाविधुतपृथुकर्णाग्रपवनैः ॥७९॥पादेनैकेन तिष्ठन्पटुपटहरवैर्बोधितो वासयष्ट्यांपश्चात्पक्षेण सार्द्धं चिरशयनगुरुं पादमन्यं वितत्य ।उत्फुल्लोद्धूतपक्षच्युतहिमकणिकावृष्टिरायम्य कण्ठंनिद्राशेषार्तदृष्टिर्निनदति मधुरं केकया ते मयूरः ॥८०॥एवं वन्दिप्रवादे१ चरति विसृजता चन्द्रपादावदातंतल्पं तेनानुचक्रे मलयतरुरसामेदितांसद्वयेन ।उन्निद्रश्वेतपद्मप्रकरपरिकरच्छन्नवीचीविताना-दुद्यन्मन्दं सरस्तः सलिलगुरुवृहत्पक्षतिर्मल्लिकाक्षः॥८१॥इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्येउद्यानक्रीडावर्णनो नाम तृतीयः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP