संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| षष्ठः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - षष्ठः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत षष्ठः सर्गः Translation - भाषांतर उच्चचाल ततः स्रष्टा जगदंशस्य मैथिलम् ।अनुग्रहीतुमग्रण्यं गृहिणामाहितक्रतुम् ॥१॥बिभ्रत् सन्ध्याविधिस्नानसंवर्द्धितरुचो जटाः ।ज्वाला इव तपोवह्नेः शालिशूकाग्रपिङ्गलाः ॥२॥तेजसा तपसा दीप्तः स्निग्धश्च करुणागुणात् ।समं सन्दर्शितादित्यचन्द्रोदय इवार्णवः ॥३॥शिरःप्रदेशलम्बिन्या कुर्वन् रुद्राक्षमालया ।फलिता इव तीर्थाम्भःसेकपुष्ट्या जटालताः ॥४॥देवताभिररण्यस्य स प्रयुक्तबलिमङ्गलः ।ज्वलन्निरगमत्सत्राद्ब्रध्नो मेघिदव व्रती ॥५॥निनाय सह यत्नेन प्रस्थितं हरिणवृजम् ।स्वयं संवर्द्धितं रुध्वा बाष्पापूरितलोचनौ ॥६॥गमनव्याहृतारम्भप्रणामेषु महर्षिभिः ।पाणिभिः शिरसि स्पृष्टौ हव्यधूमसुगन्धिभिः ॥७॥वैखानसबधूहस्तलम्भितार्घ्यकृताशिषौ ।तौ द्रष्टुकामौ मेदिन्या ईश्वरस्य सुतौ धनुः ॥८॥ततश्चिरपरित्यक्तं गौतमस्य तमोनुदः ।विवेश विश्वभुग्धाम्नो धाम वर्त्मवशाद्वशी ॥९॥स्थपुटासु कुटीरस्य निकटाङ्गनभूमिषु ।प्ररूढदर्भसन्दर्भघासग्रासोद्यतद्विपम् ॥१०॥क्वचिदुद्देहिकाऽऽलीढजीर्णवल्कलमन्यतः ।आरण्यतुटुमच्छिन्नशीर्णकृष्णमृगाजिनम् ॥११॥तलस्थितजरत्कुम्भमुखान्निर्गच्छताऽहिना ।आवर्जितपयस्तिम्यद्वृक्षमूलमिव क्वचित् ॥१२॥क्वचिद्विष्णुप्रतिच्छन्द१ कुक्षिस्थविवराननात् ।नकुलैरन्त्रवत्कृष्टवेष्टमानसरीसृपम् ॥१३॥तस्मन्निजपदस्पर्शत्याजितग्रावविग्रहम् ।पप्रच्छ स्त्रीमयं तेजो रामः शापस्य सम्भवम् ॥१४॥शुनासीरं निगद्यासौ व्रीडानम्रीकृतानना ।न्यवीवददनुक्वैव यौवनाविनयं पुरा ॥१५॥ययौ रामोऽथ तं देशं मरुतामास वेगिनाम् ।पुरुहूतहतभ्रूणच्छेदेभ्यो यत्र सम्भवः ॥१६॥ददृशुर्लङ्घिताध्वानस्ते तोरणमणित्विषा ।लेखर्षभधनुर्लेखपरीतमिव तत्पुम् ॥१७॥सिद्धप्रदेशदेशीयं तं निरूप्य तपस्यता ।अभि राममतिप्रीत्या तेन व्यातेनिरे गिरः ॥१८॥मत्तमातङ्गसन्दानदामनिर्दलितत्वचः ।अजय्यत्वं वदन्तीव यस्य पर्यन्तभूरुहः ॥१९॥यत्र प्राकारचक्रस्य नभोमध्यस्थमण्डलः ।ताराव्रजस्पृशो याति पिधानत्वं निशाकरः ॥२०॥मध्ये कुवलयाक्रान्तमहापद्मविभूषणः ।अवतीर्णघनालिश्रीर्यत्खातः सागरायते ॥२१॥वप्राजगरभोगेन वेष्टमानः समन्ततः ।पिण्डीभूत इव त्रासाद्द्वनो यद्गृहसञ्चयः ॥२२॥यद्गोपुरविटङ्काग्रचन्द्रकान्तमणिस्रवम् ।रसयन्ति स्यदश्रान्ताः शीतदीधितिवाजिनः ॥२३॥विटङ्कभुजसम्प्राप्तसहस्रकरमूर्तिना ।विग्रहेण यदावाससन्तानो भार्गवायते ॥२४॥यद्देवगृहशृङ्गस्थपद्मरागप्रभाऽऽहतम् ।व्योममध्यं प्रपद्यापि बिम्बं बालायते रवेः ॥२५॥हर्म्यशृङ्गेषु निर्द्धूतध्वान्ता यत्र मणित्विषः ।ज्यौत्स्नः कृष्ण इति ज्ञानं जने रुन्धन्ति पक्षयोः ॥२६॥यत्र वातायनासन्नवारमुख्यामुखेन्दवः ।रथ्यासञ्चारिणो यूनः स्खलयन्ति पदे पदे ॥२७॥श्रुत्वा यत्सौधपृष्ठेषु विमानशिखिनिस्वनम् ।याति शैथिल्यमुष्णांशुहयभोगीन्द्रबन्धनम् ॥२८॥सोपानरत्ननिर्भिन्नतमश्छेदेन दर्शिताः ।ग्लायन्ति यत्र न सरश्चक्रवाका निशास्वपि ॥२९॥यस्य हर्म्यसमासन्नतिग्मदीधितिवाजिनः ।मन्दं व्रजन्ति सङ्गीतवीणाऽऽवर्जितचेतसः ॥३०॥मैथिलस्य परं धाम पुरं वज्रभृतः पुरीम् ।विधत्ते पौरसन्दोहभोगस्येदमधः श्रिया ॥३१॥इति व्याहरतैवाथ तेन स्थानं महीयसः ।पुरं सत्रपतेर्ॠद्धं निन्याते नेतुरात्मजौ ॥३२॥कृतपाद्यो भुवो भर्त्तुः स व्रती प्रमदाश्रुभिः ।विष्टरं परिजग्राह सिंहचर्म्मोत्तरच्छदम् ॥३३॥स्तुत्याऽऽसुतीवलं सत्रे जगादोत्साहयन्मुनिः ।स्तुतिर्भ्राजत एवाग्रे निःस्पृहेण प्रभोरपि ॥३४॥यः सप्ततन्तुभिस्तन्तुर्धर्मस्य सगरादिभिः ।धृतः स एव सम्राजा सम्यगालम्बितस्त्वया ॥३५॥विस्रसायामविस्रस्तां सत्यामपि तव श्रियम् ।विक्रमस्य वदन्तीव सत्रसम्भारसम्पदः ॥३६॥कृतवेलाव्यतिक्रान्तिस्त्वरासङ्कोचिताम्बरा ।साभिसारेव ते कीर्तिर्दूरमाक्रामदाशया ॥३७॥स्वार्थे क्रतुरयं स्वर्ग्यस्तव क्वचित्फलस्पृहाम् ।विनैव प्रथते निःस्वर्गम्प्रति वदान्यता ॥३८॥आदाय करमाढ्येभ्यः कीकटेष्वभिवर्षसि ।वारि प्रपीय सिन्धुभ्यः स्थलेष्विव घनाघनः ॥३९॥नवे वयसि राज्यार्थं प्रविधाय जरां गतान् ।अक्षमत्वेऽपि ते भृत्यान्कच्चित्पुष्णासि सादरम् ॥४०॥त्विद्विक्रमेण वैधव्यं प्रापिता रिपुयोषितः ।बालत्राणार्थिनीः कच्चित्सम्यग्रक्षसि बन्धुवत् ॥४१॥त्रिवर्गस्य द्वयेनादौ साम्यं गतश्चिरम् ।सहाद्य वयसो वृद्ध्या कच्चिद्धर्मोऽपि वर्द्धते ॥४२॥इति प्रश्नावकाशस्य विरामे रामलक्ष्मणौ ।मुनेर्विवेद वैदेहो द्रष्टुकामौ निजं धनुः ॥४३॥एकमुद्रेचितं तस्य भ्रूचापमनुजीविभिः ।चापस्यानयने हेतुः क्षणमास क्षमापतेः ॥४४॥वरवक्त्रेन्दुबिमबत्विड्ग्रासगृध्नुग्रहं परम् ।सीताविवाहसंयोगसुखरोधार्गलान्तरम् ॥४५॥अहिर्बुध्नपरित्यागतीव्रशोकभरादिव ।मध्ये लोहसमुद्गस्य निश्शब्दं शयितं चिरम् ॥४६॥अमार्द्दवमतिस्तब्धं गुणेनापि न नामितम् ।दर्शितस्नेहमीशेन जनं नीचमिवाग्रहम् ॥४७॥तद्दाशरथिरादाय सीताक्रयधनं धनुः ।चक्रीचकार कर्णान्तावतंसितनखद्युतिः ॥४८॥ततस्त्रासकरो नादश्चापभङ्गसमुद्भवः ।दिशः ससर्प रामस्य यशोघोषणडिण्डिमः ॥४९॥सीतया सहिता वप्रैः सद्यः फलवती वृता ।क्षेत्रभूमिर्गुणस्यासौ प्रचकम्पेऽखिला पुरी ॥५०॥रोमोद्भेदापदेशेन हर्षमङ्कुरितं हृदि ।सिञ्चन्नश्रुप्रवर्षेण१ मुनिमाह महीपतिः ॥५१॥रुणद्धि वयसि प्रायः प्रौढेऽपि तपसि स्पृहाम् ।यच्चापभङ्गदेयं मे प्रार्णं सीमन्तिनीधनम् ॥५२॥तद्रामस्य गतं दाश्यं विक्रमक्रयलम्भितम् ।न्यस्तामस्य द्वितीयेऽस्मिन्नूर्मिलामपि विद्धि मे ॥५३॥तपस्यन्न्यस्य वैदेह्या विवाहपरिलम्बजम् ।अस्तुकारेण शोकाख्यं हृच्छल्यं निचकर्ष सः ॥५४॥अथ दूतास्थितः प्रायाद्राजद्वयमनोरथः ।अयोध्यामन्यराजन्यप्रीतिप्रशमनो रथः ॥५५॥लालाट्यज्वलनरयेण भूतभर्त्रानैरात्म्यं हृदयभुवः शिवाय सृष्टम् ।यन्नासीद्रघुपतिरूपनिर्ज्जितोऽसौवैलक्ष्यक्षतकृतसम्मदावसादः ॥५६॥पीनांसो नियतमुरस्तटो विशालःक्षामं तद्व्यथयति मध्यमं शरीरम् ।धात्रेति स्वयमनुचिन्त्य लम्बबाहु-स्तम्भाभ्यां दृढमिव यन्त्रितोऽस्य देहः ॥५७॥तेनोष्णाद्युतिकरकुङ्कुमानुलिप्त-व्याकोशारुणवनजप्रभाविशेषः ।नेत्रान्ताधरकरपल्लवप्रभाभि-र्निर्जित्याहित इव पादयोरधस्तात् ॥५८॥ज्ञानं विलोचनमिति प्रथिते तदीयेनेत्रे उभे विमलवृत्तिगुणस्वभावे ।एकं तयोः श्रुतिपथस्य समीपमात्रंयातं प्रपन्नमखिलश्रुतिपारमन्यत् ॥५९॥इत्थं वराश्रयकथेषु जनेषु सीतानम्रेण वर्मसलिलास्पदगण्डलेखा ।तस्थौ मुखेन शशिनिर्मलदन्तकान्ति-ज्योत्स्नानिषिक्तदशनच्छदपल्लवेन ॥६०॥इति कुमारसदासस्य कृतौ जानकीहरणे महाकाव्येमिथिलाप्रवेशो नाम षष्ठः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP