जानकीहरणम् - अष्टादशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


सङ्ग्रामं शक्रजिद्यास्यत्प्रादक्षिणयदीश्वरम् ।
स्निग्धमालोकितः पङ्त्या तस्यैव परितो दृशाम् ॥१॥
प्रणम्य च ततो भक्त््या विज्ञाय समयं मयम् ।
निर्जगाम पुरः कर्षन्केतुभिः शबलं बलम् ॥२॥
क्वणन्तश्चक्रितैश्चापैरसृग्गन्धकृतौजसः ।
घोरेषुविततिं तत्र सृजन्तश्चक्रिरे रणम् ॥३॥
गूढचतुर्थम्॥
नगनिर्भिन्नमातङ्गघटाघटमुखोत्सितैः ।
युद्धमासीद्दुरालोकं स्नातयौधमसृग्जलैः ॥४॥
रजस्सन्तमसाच्छित्त्वं विततार परिज्वलन् ।
ग्रावप्रहतमातङ्गःदन्तकोशोद्भवोऽनलः ॥५॥
सारासिरुरुसूरूराः सारासारासुसूरसः ।
ससार सारा ससुरा सारिसार ससार सः ॥६॥
द्व्यक्षरम्॥
एत्य शोणितसंसिक्तरजश्छेदेन दर्शितौ ।
बबन्ध रावणिर्वोरौ राघवौ भोगिपाश्यया ॥७॥
विवेश पुरमेवाथ नद्धे तत्र निरादरः ।
गत्या विजितमातङ्गमन्थरक्रमहेलया ॥८॥
दधानौ नृपती खिन्ने शतधा मनसी तया ।
दृष्टां विवशया नाति शतधाम न सीतया ॥९॥
पादयमकम्॥
विराजन्तमिदं दीप्त्या विराजन्तं स्मृतिक्षणे ।
सहसन्नासितो भ्रात्रा सहसन्नाख्यदागतम् ॥१०॥
आदियमकम्॥
पक्षिराज तयामेय हिंसारागहितान्तक ।
कन्तताहि गरासाहिं यमेयातजराक्षिपः ॥११॥
प्रतिलोमम्॥
इत्युक्तगरुडग्रस्तपन्नगाहितविस्मयैः ।
आस्फोटस्फोटितानीकथुतिरेसे कषोश्वरैः ॥१२॥
रुरोरारैररीरोरि हीहोहाहाहिहीहही ।
ततोतात्तुत्तितोतोतौ विववावववावव ॥१३॥
प्रासानुप्रासः॥
कुम्भकर्णोऽथ रक्षोभिरबोधि हदि ताडितः ।
स्वयंकृतखरक्राथवातधूतैः कथञ्चन ॥१४॥
उपाविशत्पुरो वप्रभूधरस्य शिरस्तटान् ।
सङ्ख्ये दृष्टिं समासज्य क्रोधेन विकृताननः ॥१५॥
आसादितरसास्वादक्षतस्रुतिरगोत्किरः ।
ससार तरसा पादघातपातितगोपुरः ॥१६॥
गोमूत्रिका॥
शिरांसि कृतटङ्कारं चर्वतोऽस्य वनौकसाम् ।
सिषेच शोणितं वक्षः सद्यः सन्त्यज्य सृक्वणीम् ॥१७॥
तच्छूलपातनिर्भिन्नपिष्टशिष्टा महाचमूः ।
अङ्गदेन पितुर्धीरं जगदे विद्रुता दिशः ॥१८॥
सुभासासाति यातात्ति भासुरा दर्पभाविता ।
साराधीरा सशोभाया सादरा युधि सर्पति ॥१९॥
अर्धभ्रमः॥
इयं वः शात्रवी सेना रणे वैमुख्यमागतम् ।
छेत्तुमिछति पुच्छाग्रं कुम्भकर्णपुरःसरी ॥२०॥
हनुमानातुरो भूत्वा मा गा युध्यस्व निर्भयम् ।
न नु स्कन्नादरोऽसौ त्वा वेगाद्विध्यति निर्दयम् ॥२१॥
गोमूत्रिका-मुरजबन्धः॥
सुते संयति वैमुख्यं याते क्षीरोदजन्मनः ।
सुषेणे लम्भयेदन्यः कस्तत्रास रसज्ञताम् ॥२२॥
दोषपात्रपराधीन बलमेषवदक्षम ।
त्वं सशैलेन हस्तेन हीन किं हंसि राक्षसम् ॥२३॥
गूढसम्बन्धः॥
ततं दर्पेण सततं परः सशमतत्परः ।
सत्वाढ्यो बाधते स त्वामरं तेजोजितामरम् ॥२४॥
आद्यन्तयमम्॥
भुनक्ति भवति त्रासस्रस्तहस्तेऽद्य केसरी ।
नैऋतग्राहदन्ताग्रग्रासात्कोऽन्यो वनौकसः ॥२५॥
तेन ते सुरसाराशसमा भीतजिताहि न ।
नहिता जितभीमास शरासारसुतेन ते ॥२६॥
अर्धप्रतिलोमः॥
नैकसेयकसन्त्रस्तः सम्पदः खलु हीयसे ।
राज्यं तव जयेनास्तु तदेव गहनं गिरेः ॥२७॥
सासारा ससरा सासा सा हसाव्यव्यसा हसा ।
रा सा पा त त पा सा रा स व्य त क्ष क्ष त व्य सः॥
सर्वतोभद्रम् ॥२८॥
चमूपतिर्बहिस्तस्थौ सेनया सह सासुरः ।
कुम्भकर्णं प्रतीक्ष्याथो सेनया सहसाऽसुरः ॥२९॥
अभिरामाशुगासन्ना सा सेना विभया सती ।
अभि रा मा शु गा सन्ना सा सेना विभया सती ॥३०॥
समुद्गयमकम्॥
गृहेऽपि सुलभो मृत्युः शिवं युद्धेऽपि कस्यचित् ।
प्रभुं त्रासेन ते जन्ये यतस्त्यक्तुमसांप्रतम् ॥३१॥
किं यासि कपिहास्यारं
हा मी त त्रास माकुकः ।
भ सा न र म या का शं
स वी क्ष्या र ण मा र्ग लः ॥३२।
मुरजबन्धेन श्लोकद्वयम् ॥
किं सा सि र पि या स्या
शं हा वी त र स मा कु लः ।
भयानकमहाकारं समीक्ष्यात्राणमार्गकः ॥३३॥
पतत्सु राघवे वैरिविशिखेष्वविशीङ्कितम् ।
पौरुषस्यापरं कालं किं सौमित्रिरुदीक्षते ॥३४॥
हे य हा स र व स्था मा
न से ना वि हि ता र्द न ।
सा त चे त न षा ता सा-
ल व्या किं विभुनासिना ॥३५॥
अनुलोम प्रतिलोमश्लोकद्वयम्॥
नासिना भुवि किं व्यालसातापानतचेतसा ।
नार्दिता हि विनासेन मास्थावरसहाय हे ॥३६॥
वृहत्फलकरश्रीमांस्तुङ्गको वरवारण ।
किं न गोपतिरेष त्वं प्रथने परमोदयम् ॥३७॥
अर्धचतुष्टयवाची॥
रणं सद्यशसः क्षेत्रं स्थितस्तेजस्यखण्डिते ।
सन्त्यजन्सह सैन्येन हरिराज न राजसे ॥३८॥
निरोष्ठ्यम्॥
नयाचारयुतो रामः प्रयासरहितोऽश्रमः ।
न याति रणतो भीमः श्रिया सारश्च्युतोपमः ॥३९॥
जालकम्॥
सङ्ख्ये१ सङ्ख्यमिहासङ्ख्यशस्त्रसम्पातभैरवे ।
विधत्स्व तस्य लोकोऽन्यः सर्वस्मिन्नसुखे सुखे ॥४०॥
यासि सक्षतमस्वाशं शंसिता त्रासमान्यस ।
सदद्धाधमसामास सस्मयागमनुद्धिया ॥४१॥
जालकद्वयम्॥
सि द्धि क्ष म म या शं स
ना सा – – स द न्य दः ।
स्वा न्यि त त्रा स मा या स
या स नु धा ग म स्म मा ॥४२॥
त्रासेन जहतो जन्ये जनेशं तद्गुणाधिकम् ।
किं न भ्रस्यति शुभ्राभ्रविभ्रमं भवतो यशः ॥४३॥
तरसानधमासारा सातायासवरा स्थिता ।
नरतानसमा धीरा मता हासस्वरानता ॥४४॥
जालकद्वयम्॥
त ता सा स ध रा सा ता
सा र या न व मा स्थि रा ।
न ता ता स स रा धी
ता म र हा न स्व मा न रा ॥४५॥
भ्रमद्भिर्भूरिभिर्भेरीरवैर्गम्भीरभैरवैः ।
भ्राम्यन्मन्दरमन्थस्थक्षुम्यत्सीरार्णवोपमा ॥४६॥
से भा सु र द र स्व क्ष
ह ना सा प्रा त रा स्व ता ।
भा रा दा ना क पा
पा घ निभा वनधरस्वनः ॥४७॥
जालकत्रयम्
स्व ता पा न स्व घ स्व क्ष
द रा क र ध वा त र ।
सु प्र दा न व ना सा र
सै ना हा हा नि रा ह हा ॥४८॥
स्व पा स्व र स्व रा पा र
र त ना ध न क प्र दः ।
सु ना दा हा व रा सा हा
क्ष ता घ न नि भा ह से ॥४९॥
कृपाणज्योतिरालोकस्फारदुर्दर्शना तता ।
प्रक्वच्छरसङ्घातसंराबविहितश्रुतिः ॥५०॥
सा राक्षसकरस्रस्त-
रामापात्रस्वसाध्वना ।
सा रा सा पा न या गा या भ
सा व न ध र स्व न म् ॥५१॥
जालचतुष्टम्॥
स्व ध्व गा स्व र या ना स्त
रा मा रा सा ह सा र सा ।
क्ष पा शा प र या सा र
स त्र पा न ष न स्व कः ॥५२॥
स्व ना गा र स्व या ध्व स्त
क सा न र स या स्व र ।
क्ष त्र शा न व पा पा स
स मा सा सा भ रा र रा ॥५३॥
स्व या ध्व र स्व गा गा र
स स्य पा ध न म त्र क ।
पा रा प रा क्ष मा शा सा-
स्त ना या र भ सा र सा ॥५४॥
संहतिर्द्विषतामुग्रग्राववृष्टिप्रवर्षिणः ।
अभिलष्यत्यसौ क्रव्यग्रासगृध्नुर्वनौकसः ॥५५॥
द्विषतामायुधैरेवमस्मदीया पताकिनी ।
विह्वला चलितादित्यद्युतिभिः प्रथने कृता ॥५६॥
त ता ती ति त तो ती ता
ता त ता ता त्त त त्त तौ ।
त तो तो ति त तौ ते तौ
ता ते तु त्ति त ते त तिः ॥५७॥
॥एकाक्षरः॥
इति श्रुत्वा निववृते तां गिरं कपिभिर्दिशः ।
अपथत्याजने साधोर्निन्दा हि निशितोऽङ्कुशः ॥५८॥
ते हिता सुकसत्राससत्रासकसुताहिते ।
तेनुरापदमत्याग गत्या मदपरानुते ॥५९॥
पादप्रतिलोमः॥
आयातामायतां वृष्टिं शृङ्गीशृङ्गन्महीरुहाम् ।
कुम्भकर्णं किरन्तं तं नलनीलौ रणस्पृहौ ॥६०॥
अपि तु द्रुतमेत्यस्य नीलः सेहे न वै व्यथाम् ।
सहेति क्षितिजच्छिन्न प्रवीरः सक्षिति स्तुतः ॥६१॥
मात्रापहारयथे-
ष्टमात्रदानाभ्यां श्लोकत्रयम्॥
अपतद्रतिमत्यस्य नलः सह न वव्यथः ।
सहतः क्षतजच्छन्नः प्रवरः सक्षतः ततः ॥६२॥
आपतद्रुतिमेत्यास्य नलः से होन विव्यथः ।
सुहितक्षितिजच्छन्न प्रवरः सा क्षतस्तुतिः ॥६३॥
ततोहतहुताशात्मसम्भवं पतिते नले ।
प्रार्थयन्तं बलं शत्रोः क्रव्यमत्तुं निशाचराः ॥६४॥
त ता री ति र ती ता ती
र न्ति ता र रु ते रि ता ।
त ता रा रि त ती रे ता
र त ता रा र तो र त म् ॥६५॥
द्व्यक्षरानुप्रासः॥
प्रत्यागत्य ततः क्रुद्धः कुम्भकाहतिमूर्छितः ।
विदश्य दशनैर्नासां नीयमानश्चकर्त सः ॥६६॥
क्रोधादविदितस्वाङ्गमग्नतः शस्त्रमालिनी ।
राघवायुधपातेन पेते तस्याङ्गभूधरैः ॥६७॥
सन्नयो सन्नयोरुद्धो दानदानाकुलालिभिः ।
नागैर्नागैरिवोच्छ्रायैः सन्नासन्नारिविक्रमः ॥६८॥
आद्याम्रेडितम्॥
नागाः सरसगण्डास्ते बिन्दुचित्रमुखान्विताः ।
सपताका धृतिभ्रंशं चक्रुः सन्नाटकोपमाः ॥६९॥
शिलीमुखमुखक्षुण्णकुमुदं सप्लवङ्गमम् ।
सशरारिरणं रामो ग्रीष्मे ह्रदमिवाविशत् ॥७०॥
तन्मन्त्रसाधनादीनि व्यर्थयन्तो रिपुद्विपाः ।
तेन लुप्तैकरदनाः कृताः केचिद्विनायकाः ॥७१॥
अन्ये पाटितसद्वंशवितानासनपुष्कराः ।
कृता दस्युबलक्षिप्तनृत्तरङ्गनेपमा द्विजाः ॥७२॥
मुक्तासारा द्विजैः शुभ्रैर्भूषिता मेचकत्विषः ।
तेन केचित्क्षयं नीताः शरदेव पयोमुचः ॥७३॥
शरैरुत्सारिता दूरं हत्वा रामस्य वेगिभिः ।
बभ्रमुर्झरैर्वंशैर्मातङ्गा निर्मदीकृताः ॥७४॥
रक्षःसैन्यनगो रामबाणक्षिप्तजलोऽपि सः ।
अचलः शत्रुसेनायाः प्रपेदे नैव सह्यताम् ॥७५॥
प्रहस्तशूलधूम्राक्षप्रजङ्घनृसुरान्तकान् ।
विद्युज्जिह्वमहापार्श्वमकराक्षमहोदरान् ॥७६॥
हत्वा भूयः स्वलाङ्गूलैर्वेष्टयित्वा दृढं कटिम् ।
स्थितेष्वङ्घ्रिपहस्तेषु यूथपेषु वनौकसाम् ॥७७॥
नाशमिन्द्रजितः श्रुत्वा निर्जगाम दशाननः ।
कृती सेनाकृतेनाथ रुन्धन्रोदेन रोदसी ॥७८॥
रावणस्याभवत्तत्र रणः सौमित्रितापनः ।
व्याप्तसर्वदिगाभोगज्याघोषजयघोषणः ॥७९॥
सौमित्रिपत्त्रिणाऽमित्रः क्रुद्धो धनुषि खण्डिते ।
वधाय विद्विषो भीमशक्तिः शक्तिं समाददे ॥८०॥
ततः क्रोधहतश्चक्रे चक्रे शत्रुभयङ्करम् ।
करं युद्धे पतन्नागे पतन्नागेन्द्रगौरवः ॥८१॥
सन्दष्टम्॥
चक्रे रणं वानरकान्तकारी
चक्रे रणं वा नरकान्तकारी ।
च क्रे र णं वा न र का न्त का री
च क्रे र णं वा न र का न्त का री ॥८२॥
महायमकम्॥
युद्धेतिजेये तरसा रसन्तं
यु द्धे ति जे ये त र सा र स न्त म् ।
परं ससाराहत शक्तिहेत्या
प रं स सा रा ह त श क्ति हे त्या ॥८३॥
समुद्गयमकम्
सविता रविना परमस्तमितं
स निरीक्ष्य भुवं प र म स्तमितम् ।
चरितुं कवचैः शबलं स्वबलं
निजगौ मनुजेशबलं स्वबलम् ॥८४॥
म ह ता म ह ता स म रे स म रे
वि भ या वि भ या स हि ता स हि ता ।
वि श दा वि श दा शु भ या शु भ या
ज न ता ज न ता न हि ता न हि ता ॥८५॥
यमकावलिः॥
व्युदस्तधरणीधरक्षितिरुहायुधं विद्रुत-
प्रधानकपिसर्पतश्चपलदृष्टि तद्विह्वलाम् ।
न कश्चिदपि रक्षितुं युधि शशाक शाखामृगः ।
सुरारिकवलीकृतं हतबलं प्रियादात्मनः ॥८६॥
पिङ्गं शोणितनिर्गमेन करणं भिन्नं सुरेन्द्रद्रुहा
यत्नं प्राप्य दधानया विकलितेष्वोजःसु चञ्चदृशा ।
तिग्मांशोस्तनयस्य पूर्वकलनामुल्लङ्घ्य यान्त्या भिया
यातं कापि विहाय संयति रतिं हानिस्पृशा सेनया ॥८७॥
चक्रम्॥
बिभ्राणं वदनं सरोरुहमणिक्षोदारुणं दारुणं
देहैर्भीषणमुग्रवक्त्रदशनैरासन्नखैः सन्नखैः ।
रामोऽथ स्वबलं प्रसह्य समरे सन्त्रस्यतोस्त्रस्यतो-
र्बाणेनोपरुरोध वर्त्मनि करच्छन्नादिना नादिना ॥८८॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
अष्टादशः सर्गः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP