संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| प्रथमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - प्रथमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत प्रथमः सर्गः Translation - भाषांतर आसीदवन्यामतिभोगभाराद्-दिवोऽवतीर्णा नगरीव दिव्या ।क्षत्रानलस्थानशमी समृद्ध्यापुरामयोध्येति पुरी परार्द्ध्या ॥१॥यत्सौधशृङ्गाग्र१सरोजराग-रत्नप्रभाविच्छुरितः शशाङ्कः ।पौराङ्गनावक्त्रकृतावमानोजगाम रोषादिव लोहितत्वम् ॥२॥कृत्वाऽपि सर्वस्य मुदं समृद्ध्याहर्षाय नाभूदभिसारिकाणाम् ।निशासु या काञ्चनतोरणस्थ-रत्नांशुभिर्भिन्नतमिस्रराशिः ॥३॥चीनांशुकैरभ्रलिहामुदग्र-शृङ्गाग्रभागोपहितैर्गृहाणाम् ।विटङ्ककोटिस्खलितेन्दुसृष्ट-निर्मोकपट्टैरिव या बभासे ॥४॥दिदृक्षुरन्तःसरसीमलङ्घ्यंयत्खातहंसः समुदीक्ष्य वप्रम् ।सस्मार नूनं दृढकौञ्चकुञ्ज-भागच्छिदो भार्गवमार्गणस्य ॥५॥बिम्बं स्वमालोक्य ततं गृहाणा-मादर्शभित्तौ कृतबन्ध्यघाताः ।रथ्यासु यस्यां रदिनः प्रमाणंचक्रुर्मदामोदमरिद्विपानाम् ॥६॥लग्नैकभागं सितहर्म्यशृङ्गेविकृष्य मन्देन समीरणेन ।दीर्घीकृतं बालमृणालशुभ्रंकरोति यत्र ध्वजकृत्यमभ्रम् ॥७॥प्रवालशीर्षा वदनं सुवर्णंमुक्तामयाङ्गावयवा वहन्त्यः ।यस्यां युवत्यो विहिता विधात्रारत्नैरिवापुर्वपुषः प्रकर्षम् ॥८॥आलिङ्ग्य तुङ्गं वडभीविटङ्कंविश्राणितात्मध्वनि पुष्करेषु ।यत्सौधकान्तेरिव संविभागंवव्रे सितं शारदमभ्रवृन्दम् ॥९॥ततान तोषं शिखिनामुदग्रम्आसन्नजीमूतघटासु यस्यांविद्युन्निभा काञ्चनपिञ्जरासु ।क्षिप्रं पताकासु तता विवृत्तिः ॥१०॥रक्ताश्मनीलोपलतोरणानिनारीजनस्य भ्रमतो निशासुक्रोधप्रमोदौ विदधुर्विभाभिर्-यत्र क्षतोद्बृंहिततामसानि ॥११॥तत्राभवत्पङ्क्तिरथाभिधानोभर्त्ता भुवो भानुनिभः प्रभावैः ।क्षत्रान्वयैर्बिभ्रदलङ्घ्यमन्य-क्ष्मानाथमानं जयमानमोजः ॥१२॥अखण्डमानो मनुजेश्वराणांमान्यो गुणज्ञो गुणजैर्मनोज्ञैः ।दिशो यशोभिः शरदभ्रशुभ्रै-श्चकार राजा रजतावदाताः ॥१३॥आजावजय्यानजनन्दनोऽसौपूर्वं षडन्तर्द्विषतो विजिग्ये ।जिगीषुरभ्यस्तसमस्तशास्त्र-ज्ञानोपरुद्धेन्द्रियवाजिवेगः ॥१४॥बलिप्रतापापहविक्रमेणत्रैलोक्यदुर्लङ्घ्यसुदर्शनेन ।नानन्तभोगाश्रयिणाऽपि तेनेतेनालसत्वं पुरुषोत्तमेन ॥१५॥दण्डस्ततस्तस्य भुवं जिगीषोःकम्पं वितन्वन् विहिताङ्गमर्द्दः ।तापैकहेतुस्त्रिदशाधिपस्यदिशं ज्वरस्तीव्र इवाविवेश ॥१६॥समुद्रमुल्लङ्घ्य गतस्तदीय-स्तेजोऽभिधानो गुरुरग्निराशिः ।नितान्तसन्तापितपूर्वकाष्ठःप्रोत्स्वेदयामास नृपं कटाहे ॥१७॥भुजङ्गसम्प्रार्थितसेव्यवेलाकाञ्चीगुणाकर्षितसार्थलोका ।दिग्दक्षिणा कर्कशयत्नभोग्यावेश्येव भुक्ता नृवरेण तेन ॥१८॥लब्ध्वासुरासुप्रघसायुधस्यघातं शरेणास्य विनिर्जितोऽपि ।आत्मानमन्यैरसमानमानंमेने मनस्वी युधि यावनेन्द्रः ॥१९॥तेजश्छलेनाथ हुताशनेनश्रीवासरम्यं प्रदहन् तुरुष्कम् ।धूपैरिवासक्तगतैर्यशोभि-राशीयमन्तं सुरभीचकार ॥२०॥परेषुवात्यापरिबृंहितोऽस्यक्रोधाभिधानो युधि चित्रभानुः ।आताम्रनेत्रच्युतवारिवर्षै-रानायि शान्तिं रिपुकामिनीनाम् ॥२१॥तस्यैकबाणाशनभग्नशत्रो-रालोकभूमौ चरणारविन्दे ।आसेदतुः सर्वनरेन्द्रमौलि-रत्नप्रभालक्तकमण्डनानि ॥२२॥लोकस्तदीये भुवि हारगौरेकीर्तिप्रताने प्रविजृम्भमाणे ।अभिन्नकोशं कुमुदं निरीक्ष्यमुमोच चन्द्रोदयशङ्कितानि ॥२३॥समस्तसामन्तनृपोत्तमाङ्गा-न्यास्थाय१ तस्योन्नतवृत्ति तेजः ।जज्वाल चूडागतपद्मराग-रागच्छटाविस्फुरणच्छलेन ॥२४॥नरेन्द्रचन्द्रस्य यशोवितान-ज्योत्स्ना महीमण्डलमण्डनस्य ।तस्यारिनारीनयनेन्दुकान्त-विष्यन्दहेतुर्भुवनं ततान ॥२५॥तेनोपयेमे समयं विधिवद्विधेयावह्नेः समक्षं समयं विदित्वा ।इन्द्रद्विषद्भर्तृनिषूदनस्यमाता भवित्री भवतुल्यधाम्नः ॥२६॥स्फुरन्मयूखा सरणिर्नखानांमहेन्द्रकल्पस्य महाय देव्याः ।पादद्वयान्ते जितपद्मकोशेमुक्तेव मुक्ताविततिर्विरेजे ॥२७॥लीला गतेरत्र निसर्गसिद्धामत्तो न दन्ती मुषितो न हंसः ।इतीव जङ्घायुगलं तदीयंचक्रे तुलाकोट्यधिरोहणानि ॥२८॥दृष्टौ हतं(तो) मन्मथबाणपातैःशक्यं विधातुं न निमील्य चक्षुः ।ऊरू विधात्रा नु कथं कृतौ ता-वित्यास तस्यां नृप२तेर्वितर्कः ॥२९॥इयत्पृथुत्वं कृषदेहयष्ट्यानितम्बचक्रस्य परं प्रमाणम्१ ।इतीव बद्धा रशनागुणेनश्रोणी पुनर्वृद्धिनिषेधहेतोः ॥३०॥अस्योदरस्य प्रतितुल्यशोभंनास्तीति धात्रा भुवनत्रयेऽपि ।सङ्ख्यानरेखा इव सम्प्रयुक्तास्तिस्रो विरेजुर्बलयः सुदत्याः ॥३१॥वयःप्रकर्षादुपचीयमान-स्तनद्वयस्योद्वहनश्रमेण ।अत्यन्तकार्श्यं वनजायताक्ष्यामध्यं२ जगामेति ममैष तर्कः ॥३२॥अरालकेश्या अलके विधात्राविधीयमाने चलतूलिकाग्रात् ।च्युतस्य विन्दोरसितस्य मार्ग-रेखेव रेजे नवरोमराजी ॥३३॥नायं शशी तत्प्रतितुल्यमन्यद्यस्मान्न विश्लेषयति द्वयं नौ ।इति स्म तर्कादिव पश्यतस्तौतस्या मुखेन्दुं कुचचक्रवाकौ ॥३४॥सुश्लिष्टसन्धी शुभविग्रहौ तौतन्व्या भुजौ बालमृणालनालम् ।सच्छिद्रवृत्तं यदि दीर्घसूत्रंनिर्जिग्यतुः किं किल तत्र चित्रम् ॥३५॥कान्तिप्रकर्षं दशनच्छदेनसन्ध्याघने बद्धपदं हरन्त्याः ।तस्या गृहोद्यानसरोगतस्यहस्तस्थ एवाम्बुरुहस्य रागः ॥३६॥आसीदयं चन्द्रमसो विशेष-स्तद्वक्त्रचन्द्रस्य च भासुरस्य ।बभार१ पूर्वः सकलं कुरङ्गंतस्यैव नेत्रद्वितयं द्वितीयः ॥३७॥कान्तिश्रिया निर्जितपद्मरागंमनोज्ञगन्धं द्वयमेव शस्तम् ।नवप्रबुद्धं जलजं जलेषुस्थलेषु तस्या वदनारविन्दम् ॥३८॥इन्दीवरस्यान्तरमेतदस्यानेत्रोत्पलस्यापि यतो हिमांशोः ।त्विषोऽपि नैकं सहते मुखाख्य-माक्रम्य तस्थावपरं शशाङ्कम् ॥३९॥युग्मं भ्रुवोश्चञ्चलजिह्मपक्ष्म-सम्पर्कभीत्याऽसितलोचनायाः ।प्रोन्नम्य दूरोत्सरणं विधित्सु-र्मध्येन तस्थाविति मे वितर्कः ॥४०॥तत्केशपाशावजितात्मबर्ह-भारस्य वासः शिखिनो वनेषु ।चक्रे जनस्य स्पृशतीति शङ्कांचेतस्तिरश्चामपि जातु लज्जाम् ॥४१॥अन्याऽपि कन्या जितसिद्धकन्यातादृग्गुणा तस्य बभूव देवी ।दोषोऽपि यस्या भुवनत्रयस्यबभूव रक्षोभयनाशहेतुः ॥४२॥सुमन्त्रसूतस्य सुमित्रयाग्नौपाणिग्रहं लम्भितया द्विजेन ।पुण्यं भवान्या भवहस्तसक्तहस्ताम्बुजाया वपुराललम्बे ॥४३॥तासु प्रजानामधिपः प्रजार्थीदेवीषु चारित्रकुलोन्नतासु ।अदृष्टपुत्राननवन्ध्यदृष्टि-श्चिन्ताहृतात्मैव निनाय कालम् ॥४४॥स्वरक्षितव्यं श्वगणिप्रचारै-र्विशोधितं कुञ्जभुवं कदाचित् ।हिमस्य गोप्ता गहनं नगस्यतस्मै जगत्याः प्रभवे जगाद ॥४५॥विधेयचित्तश्चलितव्यधेषुहलायुधाभः स कुतूहलेन ।अन्येद्युरन्यायनिवृत्तवृत्ति-र्मृगेन्द्रगामी मृगयां जगाम ॥४६॥पुत्रीकृतानीश्वरया शिशुत्वेस्नेहेन नप्तनिव बालवृक्षान् ।यश्चित्रपुष्पाभरणाभिरम्यानुत्सङ्गदेशेन चिरं बभार ॥४७॥वातैर्वि१कृष्टे पटले घनानांधातुप्रतानाः प्रतरन्ति दृष्टाः ।यस्य त्वचामुद्धरणाभिशङ्कांमुग्धाय गन्धर्वबधूजनाय ॥४८॥दरीमुखादर्द्धविनिर्गताङ्गै-र्यः कृष्यमाणेषु मृगेषु नागैः ।प्रसारितास्यः स्वयमेव सत्त्वान्ग्रासीकरोतीव वितत्य जिह्वाम् ॥४९॥नाकाङ्गना२ रत्नमरीचिजाल-ध्वस्तान्धकारप्रकरस्य यस्य ।निकुञ्जपद्माकरपद्मषण्डै३-र्विदन्ति४ रात्रिन्दिवसंविभागम् ॥५०॥धातुप्रभालोहितपक्षयुग्मःश्रीमद्गुहालङ्कृतचारुपृष्ठः ।दिव्यस्य यश्चन्द्रकिणो बिभर्तिरूपश्रियं भासुरचन्द्रकान्तः ॥५१॥तुषारधारास्नपितस्य यस्यरविः प्रभातेषु निकुञ्जवक्षः ।सदानुलिम्पत्यरुणाब्जकोश-कान्तेन बालातपकुङ्कुमेन ॥५२॥तस्य क्वणन्निर्झररेणुविद्धै-र्वातैर्विधूतागरुपादपान्ते ।अधिज्यधन्वा धनदप्रभाव-श्चचार मैनाकगुरोर्नितम्बे१ ॥५३॥तूणीरतस्तूर्णमिषुं विकृष्यसन्धाय चापे चपलेतरात्मा ।रङ्गत्तुरङ्गः क्वचिदाशु धन्वीमार्गं मृगाणां पुरतः स्म रुन्धे ॥५४॥उत्कर्णमुत्पुच्छयमानमासेविदर्शिताभ्याहतकन्दुकोत्थम् ।पारिल्पवाक्षं मृगशाववृन्द-मीषन्निपातेन शरेण राजा ॥५५॥मा पीडयस्व प्रसभं करेणमध्यं त्वमुत्तुङ्गबलो ममेति ।विवक्षुणेवाभिमुखं विकृष्य२चापेन नेमे मनुवंशकेतोः ॥५६॥खमुत्पपातैणवरो नृपेणविद्धोऽपि पूर्व्वाहितवेगवृत्त्या ।स्वर्लोकमन्तःकरणस्य यातुःप्रीत्यानुयात्रामिव कर्त्तुकामः ॥५७॥अन्योन्यवक्त्रार्पितपल्लवाग्र-ग्रासं नृवीरस्य कुरङ्गयुग्मम् ।प्रियानुनीतौ भृशमिष्टचाटु-चेष्टस्य घाताभिरतिं निरासे ॥५८॥पूर्वस्य मुक्तेन मुखे परेषांदृष्टेन सद्यः सममन्तरेषु ।ऋज्वागता तस्य मुहुर्मृगाणांपङ्क्तिः शरेण ग्रथितेव रेजे ॥५९॥आधावतस्तेन धनुर्द्धरेणमध्येललाटं महिषस्य मुक्तः ।अस्कन्नवेगो दृढदेहभेदेलाङ्गूलसारत्वमियाय बाणः ॥६०॥स द्वीपिनोऽथ द्विपराजगामीहन्तुं तुरङ्गं रचितक्रमस्य ।जघान देहं प्रतिबिन्दु बाणै-रेकेन दुर्लक्ष्यभुजः क्षणेन ॥६१॥शस्त्रेण तस्मिन्भिषजीव भीमंगण्डं नृपे पाटयति प्रसह्य ।तदीयनादप्रतिनिस्वनेनत्रासादिवाद्रिर्भृशमुन्ननाद ॥६२॥युद्धाय यूथादभितो निवृत्तंक्रोडं मुहुः क्रोधविमुक्तनादम् ।शरस्य लक्ष्यं शरजन्मतुल्य-श्चकार चक्रीकृतचापदण्डः ॥६३॥एवं मृगव्यश्रमसेवितस्सन्विश्रामहेतोः स विहाय वाहम् ।समीरणानर्तितवेतसाग्रंवीरस्सरस्तीरमलञ्चकार ॥६४॥सुगन्धिसौगन्धिकगन्धहृद्यःसरोऽनिलः सारसनादकर्षी ।आधूतराजीवरजोवितानै-रङ्गं पिशङ्गं नृपतेश्चकार ॥६५॥अथास्तकूटाहतमुग्ररागंसमुल्लसद्दीधितिविस्फुलिङ्गम् ।स्पृष्टं घनेन क्वचिदास लौहंतप्तं बृहखण्डमिवार्कबिमबम् ॥६६॥विम्बं पतङ्गस्य बबन्ध दृष्टिंदृष्टं प्रतीच्यामवनीश्वरेण ।भित्तौ विनीलत्विषि लम्बमान-मेकं यथा काञ्चनतालवृन्तम् ॥६७॥राजा रजन्यामधिशय्य तस्मिन्शिलातलं शीतलमिन्दुपादैः ।खेदं विनिन्ये मृदुभिः समीरै-रासारसारैर्गिरिनिर्झराणाम् ॥६८॥जागर्यया नीतवति त्रियामाम्पत्यौ पृथिव्या मृगयाभिलाषात् ।क्वापि प्रपेदे मृगलाञ्छनेनत्रासादिवादाय निजं कुरङ्गम् ॥६९॥आरुह्य रागी मृगयाविहारेशृङ्गं विवस्वानुदयाचलस्य ।पत्ये पृथिव्या रचयाम्बभूवमृगानिव प्रस्फुरता करेण ॥७०॥प्रभुः प्रजानामथ स प्रभातेहरिप्रभावो हरिमारुरोह ।सज्जीकृतं सज्जनगीतकीर्ति-र्बद्धायुधो बन्धुरवर्मजालम् ॥७१॥कञ्चिन्मृगं मार्गणगोचरेऽसौदृष्ट्वा विकृष्टायत१चापदण्डः ।शरं मुमुक्षुः शरभोरुवेगंतमन्वयादन्वयकेतुभूतः ॥७२॥रेखायमाणो गगने रयेण ।विलङ्घ्य मार्गं नृपमार्गणानांमृगोत्तमोऽसौ तमसातटस्थंवनं तपस्यद्भवनं प्रपेदे ॥७३॥अश्वं विहायाश्वमति प्रदेशेधनुस्सहायः सहसा नृवीरः ।पद्भ्यामसौ तत्पददत्तदृष्टि-र्घने तरूणां गहने चचार ॥७४॥तटे च१ तस्मिन्घटपूरणस्यश्रुत्वा रवं बृंहितनादशङ्की ।मुनेस्तनूजे मनुवंशकेतुःशरं शरण्योऽपि मुमोच बाले ॥७५॥शरानुसारेण नृपं प्रयान्तंपुत्रो मुनेः पत्त्रिविभिन्नमर्म्मानेत्राम्बुदिग्धेन विलापनाम्नाबाणेन भूयो हृदि तं जघान ॥७६॥त्वया जरावेशजडीकृतस्यवने विनाथस्य गुरुद्वयस्य ।विचक्षुषोऽयं व्रतजीर्णमूर्ते-र्भग्नःकिमालम्बनदण्ड एकः ॥७७॥एकं त्वया साधयताऽपि लक्षं२नीतं विनाशं त्रितयं निरागः ।मच्चक्षुषा कल्पितदृष्टिकृत्यौवृद्धौ वने मे पितरावहञ्च ॥७८॥वनेषु वासो मृगयूथमध्येक्रिया च वृद्धान्धजनस्य पोषः ।वृत्तिश्च वन्यं फलमेषु दोषःसम्भावितः को मयि घातहेतुः ॥७९॥जीर्णो जतुन्यासनिरुद्धरन्ध्रःकुम्भश्च मौञ्जी तरुवल्कलश्च ।एतेषु यन्मां विनिहत्य गम्यंतद्गृह्यतामस्तु भवान् कृतार्थः ॥८०॥तरुत्वचोऽयं कठिनं१ वसानोवनेषु शीतोष्णनिपीतसारः ।अस्वादुवन्याशनजीर्णशक्तिःपात्रं कृपायास्तव वध्यभूतः ॥८१॥व्रती विनाथो विगतापराधःस्मर्तव्यदृष्टेः पितुरन्धयष्टिः ।इत्येषु किं निष्करुणेन किश्च-दवध्यभावे गणितो न हेतुः ॥८२॥साधुः कृपामन्थरमक्षि शत्रौप्रीत्याऽर्ध२सम्मीलितमादधाति ।नीचस्तु निष्कारणवैरशील-स्तत्पूर्वसम्पादितदर्शनेऽपि ॥८३॥स्वं हेतवे हेतिबलोपनीत-स्मयः किमप्युन्नतवृत्ति कस्मै ।नीचस्य निष्ठामधिकर्म गच्छन्कुलं कलङ्कैः कलुषीकरोषि ॥८४॥जुगुप्सत स्मैनमदुष्टभावंमैवं भवानक्षतसाधुवृत्तम् ।इतीव वाचो निगृहीतकण्ठैःप्राणैररुध्यन्त महर्षिसूनोः ॥८५॥भोज्याः सुतश्चारुभुजद्वयेनघटं गृहीत्वा घटितारिनाशः ।वाष्पायमाणो बहुमानपात्रंयमप्रभावो यमिनं ददर्श ॥८५॥पापं विधायापि विधातृतुल्येसत्यापयामास सतां पुरोगः ।ततो यतिं घातयतो न सद्यःक्रोधानलेनास्य ददाह देहम् ॥८७॥दयानुयातस्तनयस्य नाशंश्रुत्वा महर्षिर्मुहुरात्तशोकः ।दिदेश देशस्तुतसद्गुणायविशन् वशी विश्वभुजं स शापम् ॥८८॥वनजकुसुमधारिणीमलङ्ध्यांहरिनखपातविदारितोरुगण्डाम् ।श्रियमिव नृपतिर्मृगव्यभूमिंचिरमनुभूय गृहोन्मुखो बभूव ॥८९॥अथ स विषमपादगोपितार्थंजगदुपयोगवियुक्तभूरिधातुम् ।बहुतुहिननिपातदोषदुष्टंगिरिमसृजत्कुकवेरिव प्रबन्धम् ॥९०॥सपदि दिशि निबद्धभूरिघोषंपरमविनीतमनोज्ञनागवृन्दम् ।जलधिमिव नृपः पुरं स्वकीयंमणिगणमण्डितकान्तमाससाद ॥९०॥इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्येदशरथोत्पत्तिर्नाम प्रथमः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP