जानकीहरणम् - एकादशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथ विकम्पितपक्षसमीरण-
प्रसभनर्तितदीधितिमालिना ।
विदिततद्गमनेन समुत्प्लुतं
सरभसं समराय जटायुना ॥१॥
जनकराजसुतामनुकर्षतः
सुररिपोः पथि गृध्रसमागमः ।
अवनिमित्तमवेदयदस्य तं
नृपवधूहरणप्रभवं वधम् ॥२॥
पतगपक्षपराहतिनर्तित-
स्वभवनोदरमध्यपरिच्युतः ।
उभयभित्तिविदारितमस्तक-
श्चिरमकम्पत विश्रवसस्सुतः ॥३॥
विहगनाथवितीर्णपराभव-
प्रभवकोपविकम्पितचेतसा ।
सपदि पङ्किमुखेन समाददे
शरवितानकृतावरणो रणः ॥४॥
क्षणमतिष्ठदुपाहितमण्डल-
स्थितिमनोहरविग्रहवन्धुरः ।
विपुलपक्षपुटद्वयकल्पित-
प्रहरणावरणः स विहङ्गमः ॥५॥
प्रववृते धृतिसंहरणो रणः
पथि विहङ्गनिशाचरशासिनोः ।
विधुतपक्षधनुर्गुणसंहति-
ध्वनिनिनादितभूधरकन्दरः ॥६॥
अथ खगेश्वरपक्षसभीरण-
प्रबलवेगनिवर्तितपातितैः ।
अपि निजैरतिवेगिभिरायुधै-
र्दृढमहन्यत संयति रावणः ॥७॥
प्रतिदिगन्तरदृष्टतनुः समं
नभसि मण्डलयन्नतिरंहसा ।
दशमुखं परितः स विहङ्गमः
स्ववपुषा परिवेषमिवादधे ॥८॥
गगनसागरभोगधराङ्गना
बिसलता हरिपादसरोरुहः ।
पतगपक्षसमीरणरंहसा
सुरसरिद्विससर्प दिशो दश ॥९॥
खगपतिर्निजपक्षसमूहितो-
पहितवारिदरुद्धदृशो मुहुः ।
शिरसि चंचुमदृष्टसमागमो
दशमुखस्य सवेगमपातयत् ॥१०॥
शिरसि तं प्रणिहत्य स मुष्टिना
भुवि निपातयति स्म निशाचरः ।
द्विजपतिः पुनरेव स वेगवान्
उपरि कन्दुकवद्ददृशे रिपोः ॥११॥
नखशिखाशितकुन्तनिपातन-
स्फुटितरत्नपिशङ्गितदिङ्मुखम् ।
रिपुशिरश्चरणेन रणे रणन्
मुकुटकोटि जघान विहङ्गमः ॥१२॥
अथ स कुन्तमुखेन शकुन्तपं
तमभयः समरे समदारयत् ।
द्विजवरोऽपि ततो नखरैः
खरैरपघनं घनमस्य जघान सः ॥१३॥
हृदि समर्पितकुन्तमुखं मुहु-
र्विततपक्षनिरुद्धनभस्तलम् ।
खगपतेः समरोचत तद्वपु-
र्निहितदण्डमिवातपवारणम् ॥१४॥
युधि विधूय तदायुधमुत्प्लुत-
श्चपलतुण्डविखण्डितमण्डनम् ।
विबुधशत्रुशिरस्तरसा रसन्-
अभिनिपत्य जघान पतत्पतिः ॥१५॥
नखशिखाङ्कुशकोटिषु मस्तके
निपतितासु दशाननदिग्गजः ।
अभिननाद भृशं दशभिर्मुखै-
र्प्रबलनादनिनादितदिग्गजः ॥१६॥
नखमुखोपहितायुधकर्मण
स्तनुतनुच्छदसन्ततिवर्मणः ।
रणमवेक्ष्य विहङ्गगतेर्जगुः
सपदि साधुवचः सुरकिन्नराः ॥१७॥
अथ विदर्शितपूर्वपुरन्दर-
द्विरदकुम्भविपाटनपाटवम् ।
असिमसावसितोत्पलसप्रभं
सुररिपुः समराय समाददे ॥१८॥
सपदि मातुमिवास्य दिगन्तरं
विततपक्षयुगस्य पतत्रिणः ।
पृथुवितानमिवामरवर्त्मनो
विपुलमंसपुटं निजघान सः ॥१९॥
द्विजवरस्य तनुः कृतवेदिनः
सुरवधूनयनोदकसन्ततिः ।
कुसुमवृष्टिरिति त्रितयं ततः
समपतत्सममेव नभस्तलात् ॥२०॥
दशमुखेन कलत्रमपोहितं
विधिवशेन वशी समुपस्थितः ।
निजगदे शिथिलीभवदूष्मणा
रघुपतिः प्रभुणाऽथ पतत्रिणाम् ॥२१॥
समरशक्तिरियं मम तावती
हरति पङ्क्तिमुखः स्ववधूमिति ।
दशरथाय यथा गदितुं स्वयं
द्विजवरोऽधिरुरोह सुरालयम् ॥२२॥
सशरचापधरेण कनीयसा
विगतशोकभरो रघुनन्दनः ।
अथ कबन्धमवैक्षत भीषणं
प्रविचरन्तमिवाद्रिवरं वने ॥२३॥
सपदि मातुमिवावनिमण्डलं
प्रसृतहस्तयुगं सुरविद्विषः ।
निशितखङ्गयुगेन नृपात्मजौ
लुलुवतुः कदलीमिव लीलया ॥२४॥
नृपसुतः पवनात्मजलम्भितः
फलितवृक्षवनं वनजेक्षणः ।
अगमदृश्यपदादिमगोत्तमं
सपदि मूकममूकविहङ्गमम् ॥२५॥
अकृत सख्यमसौ शिखिसन्निधौ
हनुमताऽभिहितं हरिसूनुना ।
अथ स वालिवधार्थितया हरि-
र्विपुलसालविभेदमकारयत् ॥२६॥
कपिरजर्यमचिन्तितलम्भितं
समनुभूय विरोचनसम्भवः ।
रिपुमयाचत कौशिकवैरिणां
निहतये न न दुन्दुभिविद्विषः ॥२७॥
उपकपीश्वरवासगुहामुखं
समधिगम्य रघूद्वहचोदितः ।
प्रतिनिनादवतः परिकम्पयन्
गुरु जगर्ज हरिर्जगतीधरान् ॥२८॥
अभिपपात रुषाऽमृणिताननः
कपिपतिः कपिलद्युतिमण्डनः।
नवविरोचनमण्डलमुद्वहन्
गिरिवरः शिरसेव हिरण्मयः ॥२९॥
प्रववृतेऽथ रणो धरणीभृतां
शिखरखण्डमहीरुहमण्डलैः ।
हरिहरिद्धयनन्दननर्दन-
प्रतिनिनादितभीमदरीमुखः ॥३०॥
पतितभूरुहभूरिभरस्फुटत्-
कठिनविग्रहविग्रहतेजितौ ।
अचरतामचिरेण परस्परच्छल-
निरूपणवीक्षणवीक्षणौ ॥३१॥
शिरसि पातितभिन्नगिरिद्रुम-
क्षणनिरासलघूकृतहस्तयोः ।
अधरदंशपरिस्रुतशोणितं
बलितमुष्टिजवादुपसर्पतोः ॥३२॥
सरभसं रिपुवक्षसि वक्षसा
समभिहत्य सहुङ्कृतिवल्गतोः ।
ललितमुक्तपटान्तमनोहर-
प्रचलपुच्छगुणद्वयशोभिनोः ॥३३॥
अथ बभूव भुजैः सुमहाहवो
रविपुरन्दरनन्दनमल्लयोः ।
करणबन्धनबद्धसमुच्छ्वस-
ज्जठरमुक्तमुखागतशोणितः ॥३४॥
नभसि किं क्षिपतः कुलपर्वतान्
उत भुजेन विवर्तयतो महीम् ।
इति विवेश वितर्कमथैतयो-
र्नृपसुतः क्षिपतोरितरेतरम् ॥३५॥
बलपरीक्षणतत्क्षणकर्षण-
प्रसभतानितहुङ्कृतिगर्जितः ।
हरिगुरुं हरिदश्वसुतो मुहु-
र्विनमयन्निजनाम समाददे ॥३६॥
अथ निवर्तितनिश्वसितातुरं
ग्रहणनिर्गतनिश्चललोचनम् ।
भुजभुजङ्गमबन्धनबन्धुरं
स्रवदसृग्रसरञ्जितकन्धरम् ॥३७॥
भ्रमितपादयुगाहतपातित-
द्रुमशतं द्रुतमुक्तरवं रवेः ।
भ्रमयति स्म सुराधिपसम्भवः
सुतवरं वरविक्रमम्बरे ॥३८॥
इति पपात वितन्वति पौरुषं
परुषवह्निशिखोद्गमनिष्ठुरः ।
रिपुदृढाङ्गविदालिनि वालिनि
क्षितिपनन्दनबाणमहाशनिः ॥३९॥
अकृत बाणनिकृत्ततनुः कृती
चिरविनिन्दितराघवलाघवः ।
पदमधिक्षयमक्षयसम्पदः
सुरपुरस्य पुरन्दरनन्दनः ॥४०॥
सदनुजे दनुजेशरिपौ नगे
स्थितवतीतवतीन्द्रसुते दिवम् ।
स्तुतनये तनयेऽशिशिरद्युते-
र्निपतितां पतितां पुनरास्थिते ॥४१॥
ऋतुरनारतभास्वदिरम्मदा-
रुचिपिशङ्गितवारिदमण्डलः ।
प्रचलवातविधूतपरिभ्रमत्-
सितविहंगमदन्तुरदिङ्मुखः ॥४२॥
उदितसारवसारवदम्बुदः
पथिकरोदकरोदकशीकरः ।
उपययौ वनयौवनसम्पदः
प्रजनकोऽमलकोमलकन्दलः ॥४३॥
मुखपटः समराय गमिष्यतः
क्षितिपनन्दनविक्रमदन्तिनः ।
जलधरः पवनेन वितानित-
स्तपनमण्डलकेशरिपंजरः ॥४४॥
मलयमन्दरविन्ध्यमहीभृतां
शिखरयष्टिसमर्पितमायतम् ।
जगति मेघवितानमरोचत
प्रततशीकरशुक्तिजमण्डनम् ॥४५॥
भुवनतापनघर्मजयोत्सवः
समुदितः परिनृत्यत बर्हिणः ।
इति जघान यथा समयस्तडित्-
कनकदण्डशतैर्घनदुन्दुभिम् ॥४६॥
प्रथममश्रुमुखीमपहाय तां
पथिक सम्प्रति किं परिदूयसे ।
इति यथा विजहास वनस्थली
प्रविकशद्दलकन्दलशोभिनी ॥४७॥
स्मरहितं रहितं प्रदिधक्षुणा
रुचिरभाऽचिरभाऽसितवर्त्मना ।
अतनुनाऽतनुना घनदारुभिः
प्रखचिता खचिता न न दीपिता ॥४८॥
शुशुभिरे कुलिशायुधगोपका
जलदकालविवर्घिततेजसः ।
मनसिजस्य शरव्यथितात्मनां
विरहिणामिव शोणितबिन्दवः ॥४९॥
घनपरिस्रवणा गिरयो बभुः
सतडिदम्बुदसन्ततिसंवृताः ।
कनकचित्रकुथावृतमूर्तयः
स्नुतमदा इव दानवदन्तिनः ॥५०॥
मुरजनादगभीरमनोहरैः
प्रमुदितेन पयोधरनिस्वनैः॥
उपरिवृष्टिभयादिव तानितः
प्रचलपिच्छचयो विशदभ्रुवा ॥५१॥
मुहुरुदग्रपयोदमतङ्गज-
श्रवणचामरभावमुपेतया ।
गगनसागरशङ्खवपुःश्रिया
विचरितं प्रमदेन बलाकया ॥५२॥
अविकलं विकलङ्कतनुच्छदं
समदनं मदनम्रतनुश्रियम् ।
सकलहं कलहंसगणं जहौ
कमलिनी मलिनीकृतकन्ततिः ॥५३॥
दिशि बभौ नववारिदसञ्चय-
स्त्रिदशनाथशरासनरंजितः ।
जलनिधिर्बहुवर्णमणिद्युति-
प्रकरवानिव तिर्यगवस्थितः ॥५४॥
जलधरस्य तटे तडितो बभु-
र्ग्रहगणग्रसनानि वितन्वतः ।
उदरमाशु विभिद्य विनिर्गता
रविकरा इव काञ्चनरोचिषः ॥५५॥
विमलवारि निपीय नदीगतं
सलिलभारनिरन्तरितोदरः ।
क्लममिवाभिवहन्नतिपानजं
गिरितटे निषसाद पयोधरः ॥५६॥
सलिलविच्युततैलसमप्रभं
प्रतिनवोदितमस्फुटमम्बुदे ।
विरहिणीभिरलक्ष्यत मन्युना
विबुधनाथशरासनखण्डकम् ॥५७॥
न न चकार ततारततारका
भरितसर्वनदा वनदावली ।
प्रमदसारमितं रमितं गिरौ
मदमयूरवरं रवरंहसा ॥५८॥
वनदमण्डलदत्तपदश्चिरं
समभिपत्य पतङ्गहरिद्व्रजः ।
जलधरे पवनेन हृतेऽग्रतः
कचिदतिष्ठदुपाहितसम्भ्रमः ॥५९॥
पिहितविष्णुपदस्य पयोमुचः
पटलरन्ध्रविभावितमण्डलः ।
दिनकरः कचिदन्वगमद्रुचा
जलनिधौ वडबानलसंहतिम् ॥६०॥
जलधिवारि निपीतवतो भृशं
वनमुचो रुधिरस्रवलोहिताः ।
अतिभरस्फुटितोदरनिर्गता
विबभुरान्त्रलता इव विद्युतः ॥६१॥
भुवनदृष्टिनिरोधिकृतं कृतं
रविकरानुपरुष्य मया तमः ।
विलसितेन निहन्ति मुहुर्मुहु-
स्तडिदतीव ररास रुषा घनः ॥६२॥
दिशि निवेशितताम्रविलोचना
नवघनानिलकम्पितकुन्तलाः ।
विससृजुः सह वारिदशीकरै-
र्नयनवारि चिरं पथिकाङ्गनाः ॥६३॥
विततपावनके वनकेतकी-
सुरभिगन्धवहे धव हे पथि ।
शिखिगिरं सहसे सहसेरिता-
मितिरवैरुदिता रुदिताः स्त्रियः ॥६४॥
नभसि नूतनकन्धरजृम्भित-
स्थगिततिग्मकरद्युतिसम्पदि ।
व्यपगतेन पदं शुचितेजसा
हृदि वियोगवतामिव सन्दधे ॥६५॥
शिशिरशीकरवाहिनि मारुते
चरति शीतभयादिव सत्वरः ।
मनसिजः प्रविवेश वियोगिनी-
हृदयमाहितशोकहुताशनम् ॥६६॥
प्रथमपीतजलाहितमेचक-
प्रभमनङ्गकृपाणमिवाम्बुदम् ।
विमलधारमुदीक्ष्य समुद्गतं
विरहिणीहृदयं न न विव्यथे ॥६७॥
विरहभीतिमहन्यपि निर्विशन्
विततमेघतमिस्रवृता दिशः ।
समवलोक्य निशागमशङ्कया
मृदु रुराव रथाङ्गसमाह्वयः ॥६८॥
पथिकमानसमानसमुन्नति
स्थितिनिबर्हकबर्हकलापिनि ।
जगति रासितरासितवारिद-
प्रसृतकन्धृति कं धृतिराश्रिता ॥६९॥
नवपयोधरकुंजरमस्तके
तडिदसौ पतिते परितश्च्युताः ।
विससृपुः प्रकरा इव मौक्तिकाः
स्फटिकभङ्गरुचो जलबिन्दवः ॥७०॥
बलनिषूदनजालविदा यथा
नभसि देवनगोलकवृत्तयः ।
जलधरेण कृता रवितारका
ग्रसननिर्वमणक्षणयन्त्रिताः ॥७१॥
अधिरयेण समीरणवाहिता
विबुधवर्त्मनि वारिददन्तिनः ।
श्रमकृतानिव घर्मपयःकणान्
अविरतं मुमुचुर्जलशीकरान् ॥७२॥
जलदशाखिनि लोलतडिल्लता-
क्रकचपत्त्रनिपातविदारिते ।
प्रवितता इव चूर्णचया बभुः
पवनवेगधृता जलरेणवः ॥७३॥
महिषधूसरितः सरितस्तटः
परिगतो विपदा विपदाचितः ।
धुतमहाककुभः ककुभः पतन्न्न्
अकृत भीमरुता मरुताकुलाः ॥७४॥
हविषि बृष्टिमये बलशत्रुणा
रविकराहिततेजसि भूतले ।
उपहिते समरोचत लाङ्गली
समुदितेव कृशानुशिखावली ॥७५॥
नवविबोधमनोहरकेतकी-
कुसुमगर्भगतः सह कान्तया ।
अविदितानिलवृष्टिभयागमः
सुखमशेत चिराय शिलीमुखः ॥७६॥
अभिविसृज्य वनानि कृतावना
मनुजलोकसमीपनिषेविणः ।
तडिदलातशतैरभिताडिता
वनगजा इव सस्वनुरम्बुदा ॥७७॥
समयवृष्टिहतेऽपि दवानले
भ्रमरधूमभृता नवलाङ्गलीः ।
समभिवीक्ष्य कृशानुसमप्रभा
न मुमुचुर्भयमेव मृगाङ्गनाः ॥७८॥
कमलधामहतो महतो भृशं
विविधहंसहितः सहितः खगैः ।
प्रविदधौ कमलं कमलं रुजन्
निपतितः सरसः सरसस्तटः ॥७९॥
प्रवितता नु पुरन्दरगोपका
विविधवर्णरसेन विधातरि ।
रचयतीन्द्रधनुश्चलतूलिका-
गलितधातुजलस्य नु बिन्दवः ॥८०॥
पतति वृष्टिरियं नु निरन्तरं
रजतरज्जुशताकृतिरायता ।
जलघरस्य पतद्भुवि मण्डलं
स्फटिकदण्डशतैर्नु विधारितम् ॥८१॥
रचयतः समयस्य सुरायुषं
करशतं नु सुधातुरसारुणम् ।
विगलितं नु ततः शकलं
तडिल्लसितशस्त्रनिपातनतक्षितात् ॥८२॥
समुदयो नु विकाशकृतद्युते-
र्विततवह्निशिखाकुसुमश्रियः ।
इति नृणामभवज्जलदोदये
ग्रथितभूरिवितर्कपरं मनः॥८३॥
अथ सुबाहुरिपुः सुबहुस्पृशन्
स्मरधनञ्जयजय्यतनुः शुचम् ।
निहितवृष्टिरवोचत वारिदे
हरिशरासनलक्ष्मणि लक्ष्मणम् ॥८४॥
विघुतनीपवनैः पवनैस्ततं
मदनविभ्रमदं भ्रमदम्बुदम् ।
जलविकाशमयं समयं कथं
धृतिगुणे स हते सहते भवान् ॥८५॥
प्रविचरन्ति मदद्विपदाधिपै-
रभिहता रिपुकुंजरशङ्कया ।
अधिमहीधरकन्दरमम्बुदाः
समदगर्जितनिस्वनसुन्दरम् ॥८६॥
प्रवितरन्ति परं नयनोत्सवं
त्रिदशनाथशरासनकान्तयः ।
गिरितटे लुठनेन पयोमुचि
प्रणिहिता इव धातुरजश्छटाः ॥८७॥
वनकृशानुशिखा निहता वप-
ुस्त्वयि तदीयमिदं प्रतिपाद्यते ।
जलमितीव विमुञ्चति लाङ्गली-
कुसुमहस्ततले जलदोदयः ॥८८॥
दिशि लसन्ति खरानिलरंहसि
क्षिपति मेघमहीधरसंहतिम् ।
ततपरस्परघातसमुद्भव-
ज्वलितवह्निशिखा इव विद्युतः ॥८९॥
तरुतले विषमारुतमारुत-
क्षततनुर्न लतावति तावति ।
विरतिरज्जरसं प्रति सम्प्रति
स्वमलिसंहतिरक्षति रक्षति ॥९०॥
धावन्नकाण्डविहितध्वनिरम्बरस्य
त्यागं विधाय विलसन्निकटे जनस्य ।
निघ्नञ्छिलाभिरुदकेन जगन्निषिञ्च-
न्नुन्मत्तवद्भ्रमति वायुवशात्पयोदः ॥९१॥
वारिप्रवाहपरिलङ्घितभूमिपृष्ठं
धारान्धकारहतदिक्प्रविभागवृत्ति ।
मेघप्रतानविहिताद्रि जगत्समन्तात्
ग्रस्तं समस्तमिव भाति घनागमेन ॥९२॥
एतानि भान्ति हरिगोपकमण्डलानि
प्रावृटि्च्छ्रयो जगति सम्प्रति सञ्चरन्त्याः ।
भूमौ पदानि रचितानि यथोदबिन्दु-
स्पर्शद्रुतोपहितयाबकमण्डनानि ॥९३॥
स्वादूनि सिन्धुसलिलानि निपीय कामं
गर्जन्नसौ गिरितटे विहितोपवेशः ।
अत्यन्तभूरिजलभारगुरूदरत्वा-
दुद्गारनादमिव मुञ्चति वारिवाहः ॥९४॥
निरस्तगृहसङ्गति भ्रमत एव तन्व्यास्तव
स्तनद्वयमियद्वपुः पथिक जातमुद्यौवनम् ।
इतीव वदति स्फुटत्कुसुमहस्तमुद्यम्य सा
भ्रमद्भ्रमरमण्डलक्वणितपेशला लाङ्गली ॥९५॥
प्रणाशो मित्रस्य प्रसभमजनि ज्येष्ठविरहः
प्रवृत्तः शोकादित्यधिकतरतारं निनदतः ।
निराशस्योत्कस्य स्फुटति नवमेघस्य हदये
रयादुद्यद्धारा असृज इव निर्भान्ति तडितः ॥९६॥
नभोवारीरुद्धं नवजलदवन्यद्विपकुलं
कृताभिज्ञानं यत्सुरपतिधनुर्धातुनिकरैः ।
नदत्युचैरेतत्कृतवनपरित्यागचपलं
स्फुरद्विद्युच्चक्रग्रहणविधिपाशे निपतति ॥९७॥
अम्भोभिः सह पद्मरागसरणिर्ग्रासीकृता वारिधे-
रुद्वान्ता पुनरिन्द्रगोपककुलव्याजेन मेघैरिह ।
येनैषामुदरेषु रत्नविततिर्वान्तावशिष्टा नव-
प्रोद्यद्भासुरवृत्रसूदनधनुर्व्याजेन संलक्ष्यते ॥९८॥
अनुत्तारं भूम्ना तिमिरचितमक्षय्यसलिलं
निशीथं कालेऽस्मिन्नहिमकरसञ्चारविभवम् ।
तरेयं सिन्धूनां पतिमिव यदि व्यायततरं
लभेयं वैदेह्याः कुचकलशसंघाटमुडुपम् ॥९९॥
एवं सस्मरमन्तराकृतगिरस्तुङ्गं गिरिं गौरव-
व्यालम्बाम्बुदशक्रनीलकलशोद्वान्ताम्बुधौतोपलम् ।
रामस्यावसतः सतः स्रुतपयःपातक्वणन्निर्झरं
कालः कालपयोदगर्जितजिताम्भोधिध्वनिर्निर्ययौ ॥१००॥
इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
एकादशः सर्गः समाप्तः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP