संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| पञ्चमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - पञ्चमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत पञ्चमः सर्गः Translation - भाषांतर ततस्ततं तापसकन्यकाजन-प्रसिक्तसंवर्द्धितवृक्षमण्डलैः ।सहस्रशस्तानितसामनिस्वन-प्रवर्तिताखण्डशिखण्डिताण्डवम् ॥१॥विहङ्गपानाय तले महीरुहांनिवेशिताम्भःपरिपूर्णभाजनम् ।विशोषणार्थाहितपुण्यवल्कल-प्रताननम्रीकृतवृक्षमस्तकम् ॥२॥कृतासु नीवारविभागवृत्तिषुस्वकीयमंशं मृदुहस्तसम्पुटैः ।हरद्भिरालोहितगण्डमण्डलैःप्लवङ्गमैः सेवितशैलकन्दरम् ॥३॥स्वमङ्कमारुह्य सुखं परिष्वपत्-कुरङ्गशाबप्रतिबोधशङ्कया ।चिरोपवेशव्यथितेऽपि विग्रहेसुनिश्चलासीनजरत्तपोधनम् ॥४॥हिरण्यरेतःशरणानि सर्वतःप्रवृत्तपुण्याहुतिधूमधूसरम् ।बृहल्लतातानभृतः फलेग्रहेरधस्तरोरासितशायितातिथि ॥५॥तपस्विवर्गस्य वधूषु वह्नयेवितन्वतीषु प्रकृतां बलिक्रियाम् ।मृगाङ्गनाभिः परिलिह्य जिह्वयाविनोदितत्याजितरोदनार्भकम्१ ॥६॥बलिक्रियातानितलाजकर्षणेसमेतकीटप्रतिघातशङ्कया ।कुशस्य मुष्ट्या शनकैस्तपस्विभिःप्रमृज्यमानानलमन्दिरोदरम् ॥७॥महीरुहभ्रष्टविहङ्गपोतिका-सुखोपवेशाय तपस्विसूनुभिः ।इषीकतूलेन विधाय मार्द्दवंक्वचित्समासज्जितनीडपञ्जरम् ॥८॥सवारिमृत्स्नापरिपूर्णकर्पर-प्रजन्यमानाङ्कुरवीजमेकतः ।प्रहृष्टसारङ्गकिशोरवल्गित-प्रकीर्णपुञ्जीकृतशुष्यदिङ्गुदि ॥९॥समीरणैराहुतिगन्धपावनै-र्वितानितोद्दामशिखण्डिनिस्वनम् ।तपोवनं तत्तपसामधिश्रयःकुमारयुग्मेन विवेश कौशिकः ॥१०॥ततः सुतं वैबुधलौकिकीमृषि-र्विधित्सुरिष्टिं नृपतेरतन्द्रितं ।समादिदेश प्रकृताय कर्मणेचिराय तद्रक्षणरूप्यमादृतः ॥११॥तमग्निमिन्धन्स रिपोधिक्रतुक्षमाभुजः सज्यशरासनः सुतः ।रिरक्षिषुस्तं परितः परिभ्रमन्हृतो जगादावरजं वनश्रिया ॥१२॥अखातमाहावमनुप्त्रिमं परंसदाफलं शस्यमिदं तपोजुषाम् ।बिभर्ति नीवारवदम्बुजाकर-श्रिया परीतं सततं तपोनम् ॥१३॥सवेदवेदाङ्गविदस्तपस्विनोविदन्ति यत्नेन पदं यमव्ययं ।स लोककृत्यानि विचिन्त्य कानिचित्तपस्यति स्मेह पुरातनःपुमान् ॥१४॥सुदर्शनच्छिन्नसमाहृतेन्धनंद्विजेन पक्षव्यजनेन वीजितम् ।त्रिनेत्रमूर्त्यन्तरमादिपूरुषोजुहाव हव्यैरिह हव्यवाहनम् ॥१५॥तपस्यति स्वामिनि शत्रुशातनेसमित्कुशच्छेदनमात्रतत्परः ।सुसंयतो नाभिननन्द नन्दकःसुरा१रिवक्षःक्षतजासवन्तदा ॥१६॥रणं रणद्दुन्दुभि भैरवं तदागदा समभ्येत्य भयं वितन्वती ।शिरस्यपध्वस्तशिरस्त्रजालकेनिमज्य मज्जां न जघास विद्विषाम् ॥१७॥भियः स्वकोशाहृतवारिधारयावनं तरूणामनुगृह्णता नवम् ।रणेषु शुशष्काशनिभैरवैरवै-र्न पाञ्चजन्येन जनस्य तेनिरे ॥१८॥सलीलमुद्दण्डसरोजविष्टरेनिषद्य पादेन पुरोऽवलम्बिना ।परिस्पृशन्त्या चलवीचिमस्तकंकलं किलागायि तदा न पद्मया ॥१९॥फणावतामुद्धरणेषु वारिधि-प्रवाहसिक्तावुदयाचलस्थितः ।वितत्य पक्षावधिपः पतत्त्रिणांव्यशोषयन्न प्रति सूर्यमायतम् ॥२०॥विहारमारण्यकमिष्टवस्तुदंविहाय वल्केन जटा१ वितूस्तयन् ।इतः किल क्रोधपराहतो हरिःपुरा प्रतस्थे बलिबन्धसिद्धये ॥२१॥ततः प्रभृत्येव२ गुणस्य सम्पदाहिरण्यगर्भस्य विधूतहिंसया ।निषेव्यते श्वापदसम्पदा पदंतपस्विनामृद्धमिदं शमावहम् ॥२२॥विलोकय द्द्वीपिनमेनमग्रतःप्रगृह्य पुच्छे शिशवस्तपस्विनाम् ।मषीपयःसेककृतानिवासितान्यदङ्गबिन्दून् गणयन्ति चापलात् ॥२३॥इमौ हरी संहृतरोषशङ्कितौनितान्ततप्तौ तपनस्य दीप्तिभिः ।तलं गजस्य स्रुतगण्डसम्पदःफणातपत्रं फणिनश्च वाञ्छतः ॥२४॥तथा गिरं व्याहरतैव रोदसीवितत्य यातं पवनेन रंहसा ।विधूनयत्तद्विपिनं द्विषद्बलंध्वजैरुपालक्ष्यत काकलाञ्छनैः ॥२५॥कृपाणपत्रे शरदम्बरत्विषिप्ररोषरक्षःप्रतिबिम्बविग्रहंविगृह्णतां जीवितपानलिप्सयास्थितः समास्थाप्य यमो यथा बभौ ॥२६॥पिशाचरक्षस्ततिभिर्निरन्तरंकृतान्धकारं रथचक्ररेणुभिः ।असंख्यगृह्या अपि तत्र सैनिकाजगज्जगुः सत्त्वरजस्तमोमयम् ॥२७॥चकार लक्षं१ प्रथमो नभः श्रितंबलं क्षितिस्थामनुजो बलोत्तरः ।द्रवत्तुरङ्गामतिदन्तयद्विभुंजघान पङ्क्तिं पदिकोऽपि द्विषाम् ॥२८॥युधि द्विपा रामशरेण दारिताःकृतत्वराधोरणमुक्तकन्धराः ।यतो धरण्यामनुकृष्टवारिदंदिवः पतन्तो रुरुजुः स्वसैनिकान् ॥२९॥शरासने वर्त्मनि लक्ष्यभेदनेपरैरुपालक्ष्यत नेषुसन्ततिः ।ऋतेऽपि हेतोरिव दीर्णवक्षसोनिपेतुरस्य प्रधने सुरद्विषः ॥३०॥तथाऽस्य योद्धुर्द्धनुषो विनिःसृता१-जवे विशेषं विदधुःशिलीमुखाः ।यथा गुणस्य ध्वनयः समुद्ययु-र्निपातशब्देन समं युधि द्विषाम् ॥३१॥सुरारिहस्तच्युतशस्त्रजालका-न्यलब्धलक्ष्याणि चिरं नभस्तले ।विशुष्कपत्रप्रतिमानि तच्छर-प्रतानवातोपहतानि बभ्रमुः ॥३२॥प्रसर्पतामाहितपक्षतिध्वनि-क्रतुद्विषो राजसुतस्य पत्रिणाम् ।प्रभञ्जनेन प्रतिलोममाहृतैःशरैर्निजैरेव दृढं निजघि्नरे ॥३३॥क्षतं पृषत्केन पतत्त्रिणांपथः पतत्तत्तनयस्य भूभृतः ।निपातखेदादशिवे भुवस्तलेभियेव तूर्णं जहुरन्तरासवः ॥३४॥शिताङ्कुशन्यासविधूतमस्तकाःशिरःसमीपे विनिविष्टबाहवः ।ध्रुवं नदन्तो युधि तं प्रहारिणंभयादयाचन्त यथाऽरिदन्तिनः ॥३५॥द्विपं करीरीयुगमूलखण्डित-प्रशीर्णदन्तं समदेन पश्यता ।स्मरा१ वतारव्यथितेन चेतसिक्षणं विचक्रे निकटेऽरि२ दन्तिना ॥३६॥परं प्रहर्त्तुं प्रतिहृत्य रंहसाकरं करी यातमुदग्रविग्रहः ।शरेण भित्त्वा निखिले निकीलितेशशाक मोक्तुं न भुजस्य मण्डले ॥३७॥दृढं विभिद्योरुयुगं कु३रङ्गमेनिकीलिते रामशरेण वेगिना ।कृतेऽपि दोषे भयमूढवृत्तिनाहयेन कश्चिद्विचचाल नासनात् ॥३८॥रिपोरपूर्णेन्दुमुखेन कश्चनस्थिरासनः पत्रियुगेन राक्षसः ।निकृत्तयोरप्यधिजानु पादयोःपपाप वेगेन यतो न वाजिनः ॥३९॥वधाय धावन्नभिशत्रु विद्विषःशरेण कृत्तच्युतमस्तकोऽपरः ।हृतायुरप्यादिकृतेन कानिचि-त्पदानि वेगेन जगाम राक्षसः ॥४०॥जवेन कश्चिज्जवनाम्बुदोपमंविहायसा वाहयदाशु दन्तिनम् ।क्षणं सिताभ्रैः कृतकर्णचामरम् ।निपत्य कुम्भे तरसा द्विधा गतैः ॥४१॥पृषत्कभिन्नोदररन्ध्रनिर्गतंस्वमान्त्रमुत्कृत्य खुराग्रपातनैः ।दिशि क्षिपन्तं युधि वेगधारया-ऽपरो भुवं वाहयति स्म वाजिनम् ॥४२॥निकृत्य सौमित्ररथाङ्गधारयाक्षपाचरः स्वं तरसाऽपवर्णितं ।क्रुधाऽऽयुधीकृत्य भुजं महीभुजःसुतं जघान ध्वनिकम्पितचलः ॥४३॥परेण शत्रोरुपदण्डमस्तकंन्यमज्जदर्द्धेन रथाङ्गमीरितम् ।तमेव दण्डं परशुं विधाय तंशिरस्यरातिर्निजघान सस्वनम्१ ॥४४॥स्वपाणियन्त्रच्युतशस्त्रसादितंविधाय वृन्दं बहुधा सुरद्विषाम् ।रणाय कोशादसिमीशितुः सुत-श्चकर्ष कृष्णं विवरादिवोरगम् ॥४५॥परस्य सौमित्रिकृपाणपाटित-द्विधाऽभवद्देहभृतो निकीलयन् ।शरेण पार्श्वे नृहरिः समग्रतांव्यधत्त रोषेण नु लीलया नु सः ॥४६॥करं रणाय प्रतिहृत्य धावतिद्विपे निजघ्ने तनयेन भूभुजः ।बहूनि खण्डानि विधित्सुनाऽसिनासमेत्य सम्पिण्डित एव तत्करः ॥४७॥कृपाणकृत्तस्य दृढोरुयन्त्रितंन पश्चिमार्द्धं निपपात सादिनः ।तुरङ्गवल्गादृढसक्त१मुष्टिनापरेण भागेन च लम्बितं पुरः ॥४८॥परेण खड्गेऽनुपपात पातितेसुरारिरुत्तानविसृष्टविग्रहः ।अपि व्यपाये सति सत्त्वमानयो-र्द्विषे न दित्सन्निव पृष्ठमाहवे ॥४९॥परिक्षरच्छोणितसिक्तमूर्तयोनिमग्नखड्गे जठरे सुरद्विषः ।परस्परस्य प्रसभं समुच्छ्वस-त्प्रहारवातेन पुनर्विशोषिताः ॥५०॥ततस्ततासृक्स्रवलोहिताम्बरःश्रियं जयस्थामुपयन्तुमुद्यतः ।यथेप्सपानाशनतृप्तचेतस-श्चकार राजन्यवरश्चिरं द्विजान् ॥५१॥ततो मरुत्पावकशस्त्रनिर्द्धुत-प्रदग्धमारीचसुबाहुविग्रहः ।बलं बलीयानबलीकृतं भियाततं दिगन्तं स निनाय नायकः ॥५२॥रणे दधानो हृदयं दयाऽऽहृतंसलीलमायम्य धनुर्द्धनुर्द्धरः ।पराङ्मुखानां शनकैः शिलीमुखै-र्द्द्विषद्द्विपानां जघने जघान सः ॥५३॥भृशं न सेहे युधि राममाशुग-प्रतानशुष्काशनिपातभीषणम् ।युगान्ततिग्मद्युतितिग्मतेजसंद्विषो बलं भ्रातृबलं बलीयसः ॥५४॥स्थित्वा गुणे महति तत्क्षणलब्धमोक्षाःसुश्लिष्टयुक्तिसफलाननसम्पदस्ते ।शाक्या इवास्य विशिखा रिपुसैनिकेभ्य-श्चक्रुस्त्रिविष्टपसभागमनोपदेशम् ॥५५॥हुतभुजि निधनाख्ये शत्रुहव्यानि हुत्वापरिणयति जयश्रीवीरकन्यां नृवीरे ।समरपटहघो१षे तत्र नृत्तं कबन्धैर्बहलरुधिरपङ्कस्फारिसिन्दूरलेपैः ॥५६॥मध्ये निकृत्तरजनीचरपूर्वकाया-श्छेदैः स्थिता भुवि निपत्य भयं वितेनुः ।रक्षःसु युद्धविमुखेषु विभिद्य भूमि-मर्द्धोत्थिता इव पुनः समराय दैत्याः ॥५७॥रामायुधव्यथितराक्षसरक्तधारा-स्पर्शेन लोहितरुचो मुहुरम्बुवाहाः ।गौरीपतिप्रणतिसम्भ्रमलाभवन्ध्यांसन्ध्यामकालघटितां गगने वितेनुः ॥५८॥सङ्क्रीडद्रथतुरगद्विपाभ्रवृन्द-व्युत्क्रान्तौ विरतपृषत्कपातवृष्टि ।निस्त्रिंशस्फुरिततडिद्वियुक्तमापव्यक्तार्कद्युति शरदीव तन्नभः श्रीः ॥५९॥रक्षोवसापिशितपूरितकुक्षिरन्ध्रःकाकुत्स्थबाणहतहस्तिमुखाधिरूढः ।पर्यन्तलग्नरुधिराणि मृदुप्रणाद-स्तुण्डानि वायसगणो रदने ममार्ज ॥६०॥राजात्मजौ मुनिसुताक्षिभिराहितार्घ्यौप्रत्युद्गतौ मृगकुलैरुटजानि गत्वा ।आवर्ज्जिते विदधतुः शिरसी सुबाहो२र्बाणव्रजेन गुरुणी गुरुपादमूले ॥६१॥इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्येमारीचसुबाहुवधो नाम पञ्चमः सर्गः N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP