संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|जानकीहरणम्| सप्तमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - सप्तमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत सप्तमः सर्गः Translation - भाषांतर ततो धरित्रीतनयाऽविलङ्घ्यंसा शासनं प्राप्य गुरोर्गरीयः ।स्थपत्यशुद्धान्तजनैः परीताजगाम कर्त्तुं व्रतिनो नमस्याम् ॥१॥नत्वा सुखेन द्विपकुम्भपीन-स्तनावकृष्टा चरणौ महर्षेः ।तमेव भूयो भरमुद्वहन्तीसमुन्ननाम प्रतिपद्य यत्नम् ॥२॥यत्सत्यमस्यां प्रविभाव्यरागोदृष्टिप्रवेकः खलु कृष्णवर्त्मा ।स्नेहेरितो येन ददाह भर्तु-र्धैर्येन्धनं तद्धनदोपमस्य ॥३॥मनोभुवस्तद्धृदयोपकार्याविन्यस्तपीनस्तनहेमकुम्भा ।स्वेदाम्बुभिस्तत्प्रथमप्रवेशेसिक्ताऽपि नैवात्र रजः शशाम ॥४॥तुष्टो नु शैवस्य सुबाहुशत्रुंचापस्य भङ्गादविपन्नधाम्नः ।स्मरस्तमालिङ्ग्य तया प्रयुक्त-श्चक्रे विहस्तं नु विशालदृष्ट्या ॥५॥विधातृमुख्यैरविमृश्यरूपंरूपं निरूप्यार्द्धनिरीक्षितेन ।एवं मनस्वी मनसैव भूम्नागुणान्स तस्या गणयाम्बभूव ॥६॥प्रसीद मैवं परिभूदखण्डंताराधिपं ते वदनामृतांशुः ।इति प्रियायाः पतितेव पादेताराततिर्दीप्रनखच्छलेन ॥७॥गुर्वी नितान्तं कृशवृत्ति कृष्ट्यामा स्मच्छिनन्मध्यमिति प्रचिन्त्य ।श्रेणी तदूरुद्वयशातकुम्भ-स्तम्भद्वयेनेव धृता विधात्रा ॥८॥सोष्मं प्रकृत्या कठिनं द्वयं यत्तापं तनोति स्तनयोस्तदस्तु ।मध्यस्थमप्येतदनिन्द्यवृत्ते-र्वलित्रयं मान्दहतीति चित्रम् ॥९॥स्तनौ नु कुम्भप्रतिमौ सुदत्यानिःशेषवक्षस्तटबद्धबिम्बौ ।पिण्डौ नु पीनौ नवयौवनस्यन्यस्तौ शरीरादतिरिक्तवन्तौ ॥१०॥अन्योन्यबाधिस्तनमण्डलस्यमध्यस्य तन्व्या नवरोमराजिः ।शरीरजन्मानलधूमरेखासीमा विभक्तेव विभाति धात्रा ॥११॥चारुप्रकोष्ठस्य भुजद्वयस्यतथा हि दाने मदनस्य शक्तिः ।न्यासेन यत्रैष विवृद्धदीप्ति-र्यात्यङ्गदोऽप्येवमनङ्गदत्वं ॥१२॥वक्त्रेन्दुलीलामनुयातुमस्याःकलान्तराणि प्रतिपद्य चन्द्रः ।पूर्णोऽपि साधर्म्म्यविशेषशून्यःक्रमेण शोकादिव याति हानिम् ॥१३॥मृगाङ्गनानां नयनानि पूर्वंविधाय नीलानि च नीरजानि ।कृतप्रयोगेण पुनर्विधात्रासृष्टं नु नेत्रद्वयमायताक्ष्याः ॥१४॥अन्वेति कान्त्या कमनियमस्यायुग्मं भ्रुवोरायतनम्रलेखम् ।मध्ये निकृत्तस्य रुषा हरेणच्छेदद्वयं मन्मथकार्मुकस्य ॥१५॥भ्रुवौ नु वक्तुं तरलत्वमक्ष्णो-र्भ्रूयुग्मकौटिल्यमिमे नु दृष्टी ।असर्पतामापतितालकान्त-पर्यस्तकान्तिश्रुतिमूलमस्याः ॥१६॥तन्व्या मनोज्ञस्वरनैपुणेनविनिर्जितो रोषविलोहिताक्षः ।प्रसक्तचिन्ताऽऽहितमन्यपुष्टःशोकेन कार्ष्ण्यं वहतीति मन्ये ॥१७॥चित्रीयते तन्न यदात्मयोने-स्तीव्रा मयि व्याहृ१तिरायुधानाम् ।पुष्पायुधः स्वात्मनि शस्त्रपातान्कुर्वीत सीताऽऽकृति वीक्ष्य रत्नम् ॥१८॥इ१ति स्म तस्यातिगुरुप्रतर्केचेतस्यथ प्राह मुनिं नरेन्द्रः ।प्रणम्य शुद्धान्तमुपैति पादौतीर्थादनूनौ भवतः स्नुषेति ॥१९॥कलत्रभारेण कुचद्वयस्यस्थाम्ना तथा मन्थरविक्रमायाः ।आसीदसौ राजसुतस्तृतीय-स्तस्यास्तु हेतुर्गतिमन्थरत्वे ॥२०॥अनुव्रजन्तं किल नाम किञ्चित्प्रव्याहरन्ती परिबर्हवर्गम् ।तिर्यग्विवृत्ताननचन्द्रबिम्बारामं जघानार्द्धनिरीक्षितेन ॥२१॥भर्त्ता भुवः संयमिनं गतायांतस्यां ततस्तं सह राघवाभ्याम् ।द्रष्टुं निनाय स्वयमृद्धिसारंसत्रस्य विप्रैरकृशं ततस्य ॥२२॥दूरोऽपि देहेन वियोगवह्नेःप्रवर्द्धिताधिः स्फुटतीति भीतः ।तद्रक्षणाये२व कृतप्रयत्नोमुमोच तस्या हृदयं न रामः ॥२३॥याते च रामे नयनाभिरामेदृष्ट्वा दिशः किं फलमस्ति शून्याः ।इतीव पद्मायतलोचनायाविलोचने नेत्रजलं रुरोध ॥२४॥कृते च पाणिग्रहणे मयेयंबाला परत्राहितरागवृत्तिः ।जातेति रोषेण यथा कृशाङ्ग्या-स्तस्याः कराग्रं वलयं ससर्ज ॥२५॥सन्तापवह्निर्हृदि सन्नताङ्ग्याःकामाहितः खेदविलोहितेन ।नेत्रद्वयेनेव बहिःप्रवृत्त-ज्वालावलिः संविविदे सखीभिः ॥२६॥याता नु सा तानवमङ्गजाग्नि-तप्ते चिरं तद्धृदये निवासात् ।उत स्वकीये हृदि तं निविष्ट-मूढ्वा तनुत्वं श्रमजं गता नु ॥२७॥दूरेऽपि रामः परिकल्पवृत्त्याकिं दृश्यते मे किमथः प्रवासः ।स्थितेऽपि तस्मिन्प्रतिभाति पापा-दित्यास तस्या विविधो विकल्पः ॥२८॥मृदुप्रवालास्तरणेऽपि तन्वीशिलातले नैव धृतिं सिषेवे ।असृक्स्रवार्द्रे शरतल्पमध्येसा पुष्पकेतोरिव वर्तमाना ॥२९॥तुषाररश्मेरुदयेऽपि तस्यानेत्रोत्पलं नो मुकुलीबभूव ।चन्द्रे मुखच्छद्मनि दीर्घकाल-मभ्यासतो नु प्रियचिन्तया नु ॥३०॥सशीकरं गर्भदलं कदल्यान्यस्तं नताङ्ग्या हृदये सखीभिः ।बबन्ध भिन्नस्फटिकावदातंपुष्पेषु बाणव्रणपट्टशोभाम् ॥३१॥स्वपादसेवाभिरतेऽपि किं तत्कस्यापि दृष्ट्या मयि यद्विरागः ।अतानि तन्नूपुरयोरमन्दंयुग्मेन शैथिल्यमितीव तस्याः ॥३२॥सखीसमीपेऽपि सखेदवृत्ति-श्चन्द्रातपैरप्यनुतापभाजा ।देहेन वैदेहसुता कथञ्चिन्-निनाय दीना कतिचिद्दिनानि ॥३३॥सार्द्धं द्विजैः पावनसोमपान-निर्द्धूतपाप्मन्यथ सत्रनाथे ।मखस्य कोटिं प्रकृतस्य मुख्येक्षितिक्षितामीयुषि वीतविघ्नम् ॥३४॥सुमन्त्रसूतः सुतयुग्ममन्यत्ततः समादाय समग्रशक्तिः ।जनाधिनाथो जनकस्य राज्ञःपुरं प्रपेदे पुरुहूतकल्पः ॥३५॥क्षत्रस्य नक्षत्रमदोषदुष्टंवैवाहिकं वाहितशत्रुवीरः ।पुरोहितेनाभिहितं निशम्यसम्पादयामास विधिं विधिज्ञः ॥३६॥अच्छेदवत्पावनतीर्थतोयेधिष्ण्यं नृपस्य प्रसृते समन्तात् ।स्नातद्विजारूढमदद्विपेन्द्र-स्कन्धस्थकार्तस्वरकुम्भपङ्त्या ॥३७॥तिरोदधाने गगनं सुगन्धौकर्पूरकृष्णागरुसारधूपे ।रथ्योभयान्ताहितशातकुम्भ-कुम्भस्थपङ्केरुहगन्धविद्धे ॥३८॥चरत्सु वन्द्यानननिःसृतेषुनरेन्द्रसूनोर्जयघोषणेषु ।प्रध्मातशङ्खध्वनिबृंहितेषुध्वनत्सु तूर्येषु च मङ्गलाय ॥३९॥लाजा जलं दर्भमिति प्रसक्त-माविष्कृताम्रेडितशीघ्रनादे ।आहूय सम्पादयतोऽपि भृत्यान्प्रत्युद्व्रजत्याकुलभृत्यवर्गे ॥४०॥वृत्तिं मुहुर्यामघटीजलस्यज्ञातुं प्रयुक्ते च गतागताभ्याम् ।धावत्युरोघातनिपातितार्ध-मार्गस्थलोके नृपदाशबृन्दे ॥४१॥आसन्नभूतो महितो मुहूर्त्तःकिं स्थीयते तावदिति प्रगल्भम् ।वृद्धेषु वंशद्वितयस्य धीरंस्नानाय सद्यस्त्वरयत्सु रामम् ॥४२॥उच्चैहृतान्यस्वरमुच्चरत्सुसमं समाविष्कृतमङ्गलेषु ।आपूरिताशेषककुम्मुखेषुपटुप्रसक्तं पटहध्वनेषु ॥४३॥आहत्य तत्रानुपयोगवन्तिवेत्रेण हुङ्कारकृता मुखेन ।निरस्यमाने च जने दिदृक्षु-बृन्दानि वेत्रग्रहणाधिकारे ॥४४॥तत्रैव पर्यस्य यथा सुतायानृपस्य वित्तानि जनो विधिज्ञः ।आद्यं विवाहस्य ततान शच्यानामान्तरेण प्रथितं विधानम् ॥४५॥हुङ्कारमात्रप्रथितैरमर्षै-स्तिर्यक्कराग्रस्य विकम्पितेन ।निवारयन्तो मुखरं जनौघंमाशाब्दिका वेश्मनि तत्र चेरुः ॥४६॥क्रियासु दक्षाः कुशलेतरेभ्योभृत्या विधातुं विधिमुद्यतेभ्यः ।वस्तूनि वैवाहिककर्मयोग्या-न्याच्छिद्य केचिद्विदधुर्विधानम् ॥४७॥आकल्पमन्ते विधिवद्विधायस्नानस्य रत्नाभरणेन दीप्तम् ।वधूरुपान्तं विधुरा स्मरेणवेद्या ययौ वेदविदा कृतार्घ्यम् ॥४८॥अथोपनिन्ये नयकोविदेनमहेन्द्रसख्यास्तनुजेन तन्वी ।लज्जाविधेया विधवेतराभि-र्विभूषिताऽसौ विभुनन्दनाय ॥४९॥तस्याः कुमारः सुकुमारसन्धिंवामेतरं वामविलोचनायाः ।समाददे सम्मदभिन्नधैर्यःपाणिं फणीन्द्राङ्गगुरुप्रकोष्ठः ॥५०॥सदिन्धने शीलधनेन तेनप्राज्यं ततः प्राज्ञतरेण हव्यम् ।आवर्जितं वर्जितदुष्कृतेनविधातृधाम्ना विधिवत्कृशानौ ॥५१॥प्रदक्षिणीकृत्य विवाहसाक्षी-कृतं कृशानुं सह राघवेण ।तन्वी ततो वेदविदा नियुक्तावेद्यामनंसीदनवद्यवृत्तिः ॥५२॥गण्डस्य विम्बं दुहितुर्द्धरित्र्याघर्माम्भसां बिन्दुरलञ्चकार ।चेतःस्थकन्दर्पकृशानुना वातस्योष्मणा वा परमार्थवह्नेः ॥५३॥चकार चक्राङ्कतलेन पाणौकरेण भर्त्त्राभिनिपीड्यमाने ।सीत्कारमाकुञ्चितदीर्घदृष्टिःस्पर्शेन वह्नेः किल नाम सीता ॥५४॥द्विजेन तेन द्विजराजवक्त्राव्यापारिता वाङ्मयपारगेण ।बाला कृशानौ कृशगात्रयष्टि-र्भावानभिज्ञाऽथ जुहाव लाजान् ॥५५॥पत्युः करस्पर्शकृते कृशाङ्ग्याहर्षैः सखीभिः प्रविभाव्यमाने ।आचारधूमागमलब्धजन्मा-न्यश्रूणि तत्संवृतये बभूवुः ॥५६॥भोक्तुर्भुवो विप्रवरेण रामःकृत्वा नमस्यामनुपूर्वमुक्तः ।समेतजानिर्जनकस्य राज्ञोवन्दिस्तुतस्याङ्घ्रियुगं ववन्दे ॥५७॥पश्यन्सुतं पाशभृतो दधानंगङ्गाकरासक्तकरस्य कान्तिम् ।तस्थौ नृपः स्तब्धविशालदृष्टि-रश्रुस्रवक्षालितपक्ष्मरेखः ॥५८॥कक्षान्तरे दत्तसितातपत्रंरत्नासनस्थामथ पौरमुख्याः ।भर्त्तुः सुतामेत्य वरं च तस्याबाष्पप्रकाशप्रणयाः प्रणेमुः ॥५९॥रामो विवाहोत्सवसम्भृतेनसुखेन नीत्वा कतिचिद्दिनानि ।ततः कदाचित्समयावबोध-दृप्तेन विद्धो हृदि मन्मथेन ॥६०॥गौरीमिवाचारगुणेन गुर्वींकरे गृहीत्वा करभोपमोरूम् ।सतल्पभूभागमनल्पशोभंभवप्रभावो भवनं विवेश ॥६१॥भुवि विरचितमग्रे तल्पमालोक्य बालानृपतिभवनरत्नस्तम्भमालिङ्ग्य दोर्भ्याम् ।स्पृशति मनसि भीतिं साश्रुपातस्थितां तांरघुपतिरुपगुह्य प्रापयद्भूमिशय्याम् ॥६२॥इति कुमारदासस्य कृतौ जानकीहणे महाकाव्येसीताविवाहवर्णनो नाम सप्तमः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP