वैराग्यप्रकरणम् - सर्गः ३१

योगवासिष्ठः


श्रीराम उवाच ।
प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके ॥१॥
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्सुजनसंगमे ॥२॥
वासनावातवलिते कदाशातडिति स्फुटे ।
मोहोग्रमिहिकामेघे घनं स्फूर्जति गर्जति ॥३॥
नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सास्फोटे ह्यनर्थकुटजद्रुमे ॥४॥
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रान्तस्यन्दसंचारे कुतोऽप्युपरिपातिनि ॥५॥
क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयमशुभोदर्का न भवेज्जीविताटवी ॥६॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम् ॥७॥
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुतामेति नीरसो मूढतां विना ॥८॥
आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव वसुंधरा ॥९॥
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्कितात् ॥१०॥
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केनेव व्यवहर्तव्यं संसारवनवीथिषु ॥११॥
रागद्वेषमहारोगा भोगपूगा विभूतयः ।
कथं जन्तुं न बाधन्ते संसारार्णवचारिणम् ॥१२॥
कथं च धीरवर्याग्नौ पततापि न दह्यते ।
पावके पारदेनेव रसेन रसशालिना ॥१३॥
यस्मात्किल जगत्यस्मिन्व्यवहारक्रिया विना ।
न स्थितिः संभवत्यब्धौ पतितस्याजला यथा ॥१४॥
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ॥१५॥
मनोमननशालिन्याः सत्ताया भुवनत्रये ।
क्षयो युक्तिं विना नास्ति ब्रूत तामलमुत्तमाम् ॥१६॥
व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथवा व्यवहारस्य ब्रूत तां युक्तिमुत्तमाम् ॥१७॥
तत्कथं केन वा किं वा कृतमुत्तमचेतसा ।
पूर्वं येनैति विश्रामं परमं पावनं मनः ॥१८॥
यथा जानासि भगवंस्तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः ॥१९॥
अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते ।
न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम् ॥२०॥
स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।
तदहं त्यक्तसर्वेहो निरहंकारतां गतः ॥२१॥
न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥२०॥
न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु च ।
न किंचिदपि वाञ्छामि देहत्यागादृते मुने ॥२३॥
केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः ॥२४॥
अथ क्रमेण संत्यज्य प्रश्वासोच्छ्वाससंविदः ।
संनिवेशं त्यजामीममनर्थं देहनामकम् ॥२५॥
नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् ।
सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ॥२६॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवानमलशीतकराभिरामो
रामो महत्तरविचारविकासिचेताः ।
तूष्णीं बभूव पुरतो महतां घनानां
केकारवं श्रमवशादिव नीलकण्ठः ॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवप्रश्रो नामैकत्रिंशः सर्गः ॥३१॥

N/A

References : N/A
Last Updated : July 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP