संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १६ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १६ Translation - भाषांतर श्रीराम उवाच ।दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् ।वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ॥१॥इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥२॥न प्राप्नोति क्वचित्किंचित्प्राप्तैरपि महाधनैः ।नान्तः संपूर्णतामेति करण्डक इवाम्बुभिः ॥३॥नित्यमेव मुने शून्यं कदाशावागुरावृतम् ।न मनो निवृतिं याति मृगो यूथादिव च्युतः ॥४॥तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् ।परित्यज्य क्षणमपि हृदये याति न स्थितिम् ॥५॥मनो मननविक्षुब्धं दिशो दश विधावति ।मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥६॥कल्लोलकलितावर्तं मायामकरमालितम् ।न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ॥७॥भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् ।मनोहरिणको ब्रह्मन्दूरं विपरिधावति ॥८॥न कदाचन मे चेतः स्वामालूनविशीर्णताम् ।त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥९॥चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ॥१०॥मनो मोहरथारूढं शरीरात्समतासुखम् ।हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥११॥अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः ।मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ॥१२॥क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना ।विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ॥१३॥संततामर्षधूमेन चिन्ताज्वालाकुलेन च ।वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥१४॥क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना ।शवं कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ॥१५॥तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥१६॥अवान्तरनिपाताय शून्ये वा भ्रमणाय च ।तृणं चण्डानिलेनेव दूरे नीतोऽस्मि चेतसा ॥१७॥संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः ।सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥१८॥पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना ।कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥१९॥मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा ।बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥२०॥वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः ।वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥२१॥चेतः पतति कार्येषु विहगः स्वामिषेष्विव ।क्षणेन विरतिं याति बालः क्रीडनकादिव ॥२२॥जडप्रकृतिरालोलो विततावर्तवृत्तिमान् ।मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ॥२३॥अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ॥२४॥चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥२५॥चित्तादिमानि सुखदुःखशतानि नून-मभ्यागतान्यगवरादिव काननानि ।तस्मिन्विवेकवशतस्तनुतां प्रयातेमन्ये मुने निपुणमेव गलन्ति तानि ॥२६॥सकलगुणजयाशा यत्र बद्धा महद्भि-स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् ।विगतरतितयान्तर्नाभिनन्दामि लक्ष्मींजडमलिनविलासां मेघलेखामिवेन्दुः ॥२७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वैराग्यचित्तदौरात्म्यं नाम षोडशः सर्गः ॥१६॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP