संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः ५ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः ५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥१॥भरते संस्थिते नित्यं मातामहगृहे सुखम् ।पालयत्यवनिं राज्ञि यथावदखिलाभिमाम् ॥२॥जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥३॥कृतायां तीर्थयात्रायां रामो निजगृहे स्थितः ।जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥४॥कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे ।पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥५॥कपोलतलसंलीनपाणिः पद्मासनस्थितः ।चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥६॥कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः ।नोवाच कस्यचित्किंचिल्लिपिकर्मार्पितोपमः ॥७॥खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥८॥एवंगुणविशिष्टं तं रामं गुणगणाकरम् ।आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥९॥तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।सपत्नीको महीपालश्चिन्ताविवशतां ययौ ॥१०॥का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः ।अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥११॥न किंचित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः ।रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥१२॥ततो दशरथो राजा रामः किं खेदवानिति ।अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥१३॥इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः ।अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥१४॥कोपं विषादकलनां विततं च हर्षंनाल्पेन कारणवशेन वहन्ति सन्तः ।सर्गेण संहृतिजवेन विना जगत्यांभूतानि भूप न महान्ति विकारवन्ति ॥१५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रक्रणे कार्श्यनिवेदनंनाम पञ्चमः सर्गः ॥५॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP