संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १९ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १९ Translation - भाषांतर श्रीराम उवाच ।लब्ध्वापि तरलाकारे कार्यभारतरंगिणि ।संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥१॥अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥२॥रोषरोदनरौद्रासु दैन्यजर्जरितासु च ।दशासु बन्धनं बाल्यमालानं करिणामिव ॥३॥न मृतौ न जरारोगे न चापदि न यौवने ।ताश्चिन्ताः परिकृन्तन्ति हृदयं शैशवेषु याः ॥४॥तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः ।लोलो बालसमाचारो मरणादपि दुःखदः ॥५॥प्रतिबिम्बघनाज्ञानं नानासंकल्पपेलवम् ।बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥६॥जलवह्नयनिलाजस्रजातभीत्या पदे पदे ।यद्भयं शैशवेऽबुद्ध्या कस्यापदि हि तद्भवेत् ॥७॥लीलासु दुर्विलासेषु दुरीहासु दुराशये ।परमं मोहमाधत्ते बालो बलवदापतन् ॥८॥विकल्पकल्पितारम्भं दुर्विलारसं दुरास्पदम् ।शैशवं शासनायैव पुरुषस्य न शान्तये ॥९॥ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥१०॥बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये ।तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हृतचेतसः ॥११॥यत्र दोलाकृति मनः परिस्फुरति वृत्तिषु ।त्रैलोक्याऽभव्यमपि तत्कथं भवति तुष्टये ॥१२॥सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि ।मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥१३॥मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् ।तयोः संश्लिष्यतोस्त्राता क इवान्तः कुचापले ॥१४॥स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वलाजालैस्तरङ्गकैः ।चापलं शिक्षितं ब्रह्मञ्छैशवाक्रान्तचेतसः ॥१५॥शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु ।भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ॥१६॥सर्वाणि दुःखभूतानि सर्वे दोषा दुराधयः ।बालमेवोपजीवन्ति श्रीमन्तमिव मानवाः ॥१७॥नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।प्राप्नोति तदसौ याति विषवैषम्यमूर्च्छनाम् ॥१८॥स्तोकेन वशमायाति स्तोकेनैति विकारिताम् ।अमेध्य एव रमते बालः कौलेयको यथा ॥१९॥अजस्रवाष्पवदनः कर्दमाक्तो जडाशयः ।वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥२०॥भयाहारपरं दीनं दृष्टादृष्टाभिलाषि च ।लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् ॥२१॥स्वसंकल्पाभिलषितान्भावानप्राप्य तप्तधीः ।दुःखमेत्यबलो बालो विनिष्कृत्त इवाशये ॥२२॥दुरीहालब्धलक्षाणि बहुवक्रोल्बणानि च ।बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥२३॥बालो बलवता स्वेन मनोरथविलासिना ।मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली ॥२४॥विद्यागृहगतो बालो परामेति कदर्थनाम् ।आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ॥२५॥नानामनोरथमयी मिथ्याकल्पितकल्पना ।दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥२६॥संहृष्टो भुवनं भोक्तमिन्दुमादातुमम्बरात् ।वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥२७॥अन्तश्चित्तेरशक्तस्य शीतातपनिवारणे ।को विशेषो महाबुद्धे बालस्योर्वीरुहस्तथा ॥२८॥उड्डीतुमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।भयाहारपरा नित्यं बाला विहगधर्मिणः ॥२९॥शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥३०॥सकलदोषदशाविहताशयंशरणमप्यविवेकविलासिनः ।इह न कस्यचिदेव महामुनेभवति बाल्यमलं परितुष्टये ॥३१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः ॥१९॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP