संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः २७ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः २७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २७ Translation - भाषांतर श्रीराम उवाच ।अन्यच्च ताताऽतितरामरम्येमनोरमे चेह जगत्स्वरूपे ।न किंचिदायाति तदर्थजातंयेनातिविश्रान्तिमुपैति चेतः ॥१॥बाल्ये गते कल्पितकेलिलोलेमनोमृगे दारदरीषु जीर्णे ।शरीरके जर्जरतां प्रयातेविदूयते केवलमेव लोकः ॥२॥जरातुषाराभिहतां शरीर-सरोजिनीं दूरतरे विमुच्य ।क्षणाद्गते जीवितचञ्चरीकेजनस्य संसारसरोऽवशुष्कम् ॥३॥यदा यदा पाकमुपैति नूनंतदा तदेयं रतिमातनोति ।जराभराऽनल्पनवप्रसूनाविजर्जरा कायलता नराणाम् ॥४॥तृष्णानदी सारतरप्रवाह-ग्रस्ताखिलानन्तपदार्थजाता ।तटस्थसंतोषसुवृक्षमूल-निकाषदक्षा वहतीह लोके ॥५॥शारीरनौश्चर्मनिबन्धबद्धाभवाम्बुधावालुलिता भ्रमन्ती ।प्रलोड्यते पञ्चभिरिन्द्रियाख्यै-रधोभवन्ती मकरैरधीरा ॥६॥तृष्णालताकाननचारिणोऽमीशाखाशतं काममहीरुहेषु ।परिभ्रमन्तः क्षपयन्ति कालंमनोमृगा नो फलमाप्नुवन्ति ॥७॥कृच्छ्रेषु दूरास्तविषादमोहाःस्वास्थ्येषु नोत्सिक्तमनोभिरामाः ।सुदुर्लभाः संप्रति सुन्दरीभिःरनाहतान्तःकरणा महान्तः ॥८॥तरन्ति मातङ्गघटातरङ्गंरणाम्बुधिं ये मयि ते न शूराः ।शूरास्त एवेह मनस्तरङ्गंदेहेन्द्रियाम्भोधिमिमं तरन्ति ॥९॥अक्लिष्टपर्यन्तफलाभिरामान दृश्यते कस्यचिदेव काचित् ।क्रियादुराशाहतचित्तवृत्ति-र्यामेत्य विश्रान्तिमुपैति लोकः ॥१०कीर्त्या जगद्दिक्कुहरं प्रतापैःश्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।ये पूरयन्त्यक्षतधैर्यबन्धान ते जगत्यां सुलभा महान्तः ॥११॥अप्यन्तरस्थं गिरिशैलभित्ते-र्वज्रालयाभ्यन्तरसंस्थितं वा ।सर्वं समायान्ति ससिद्धिवेगाःसर्वाः श्रियः सन्ततमापदश्च ॥१२॥पुत्राश्च दाराश्च धनं च बुद्ध्याप्रकल्प्यते तात रसायनाभम् ।सर्वं तु तन्नोपकरोत्यथान्तेयत्रातिरम्या विषमूर्च्छनैव ॥१३॥विषादयुक्तो विषमामवस्थामुपागतः कायवयोवसाने ।भावान्स्मरन्स्वानिह धर्मरिक्तान्जन्तुर्जरावानिह दह्यतेऽन्तः ॥१४॥कामार्थधर्माप्तिकृतान्तराभिःक्रियाभिरादौ दिवसानि नीत्वा ।चेतश्चलद्बर्हिणपिच्छलोलंविश्रान्तिमागच्छतु केन पुंसः ॥१५॥पुरोगतैरप्यनवाप्तरूपै-स्तरङ्गिणीतुङ्गतरङ्गकल्पैः ।क्रियाफलैर्दैववशादुपेतै-र्विडम्ब्यते भिन्नरुचिर्हि लोकः ॥१६॥इमान्यमूनीहि विभावितानिकार्याण्यपर्यन्तमनोरमाणि ।जनस्य जायाजनरञ्जनेनजवाज्जरान्तं जरयन्ति चेतः ॥१७॥पर्णानि जीर्णानि यथा तरूणांसमेत्य जन्माशु लयं प्रयान्ति ।तथैव लोकाः स्वविवेकहीनाःसमेत्य गच्छन्ति कुतोऽप्यहोभिः ॥१८॥इतस्ततो दूरतरं विहृत्यप्रविश्य गेहं दिवसावसाने ।विवेकिलोकाश्रयसाधुकर्मरिक्तेऽह्नि रात्रौ क उपैति निद्राम् ॥१९॥विद्राविते शत्रुजने समस्तेसमागतायामभितश्च लक्ष्म्याम् ।सेव्यन्त एतानि सुखानि याव-त्तावत्समायाति कुतोऽपि मृत्युः ॥२०॥कुतोऽपि संवर्धिततुच्छरूपै-र्भावैरमीभिः क्षणनष्टदृष्टैः ।विलोड्यमाना जनता जगत्यांनवेत्युपायातमहो न पातम् ॥२१॥प्रियासुभिः कालमुखं क्रियन्तेजनैडकास्ते हतकर्मबद्धाः ।यैः पीनतामेव बलादुपेत्यशरीरबाधेन न ते भवन्ति ॥२२॥अजस्रमागच्छति सत्वरैव-मनारतं गच्छति सत्वरैव ।कुतोऽपि लोला जनता जगत्यांतरङ्गमाला क्षणभङ्गुरेव ॥२३॥प्राणापहारैकपरा नराणांमनो मनोहारितया हरन्ति ।रक्तच्छदाश्चञ्चलषट्पदाक्ष्योविषद्रुमालोललताः स्त्रियश्च ॥२४॥इतोऽन्यतश्चोपगता मुधैवसमानसंकेतनिबद्धभावा ।यात्रासमासंगसमा नराणांकलत्रमित्रव्यवहारमाया ॥२५॥प्रदीपशान्तिष्विव भुक्तभूरि-दशास्वतिस्नेहनिबन्धनीषु ।संसारमालासु चलाचलासुन ज्ञायते तत्त्वमतात्त्विकीषु ॥२६॥संसारसंरम्भकुचक्रिकेयंप्रावृट्पयोबुद्बुदभङ्गुरपि ।असावधानस्य जनस्य बुद्धौचिरस्थिरप्रत्ययमातनोति ॥२७॥शोभोज्ज्वला दैववशाद्विनष्टागुणाः स्थिताः संप्रति जर्जरत्वे ।आश्वासनादूरतरं प्रयाताजनस्य हेमन्त इवाम्बुजस्य ॥२८॥पुनःपुनर्दैववशादुपेत्यस्वदेहभारेण कृतोपकारः ।विलूयते यत्र तरुः कुठारै-राश्वासने तत्र हि कः प्रसङ्गः ॥२९॥मनोरमस्याप्यतिदोषवृत्ते-रन्तर्विंघाताय समुत्थितस्य ।विषद्रुमस्येव जनस्य सङ्गा-दासाद्यते संप्रति मूर्च्छनैव ॥३०॥कास्ता दृशो यासु न सन्ति दोषाःकास्ता दिशो यासु न दुःखदाहः ।कास्ताः प्रजा यासु न भङ्गुरत्वंकास्ताः क्रिया यासु न नाम माया ॥३१॥कल्पाभिधानक्षणजीविनो हिकल्पौघसंख्याकलने विरिञ्चयाः ।अतः कलाशालिनि कालजालेलघुत्वदीर्घत्वधियोऽप्यसत्याः ॥३२॥सर्वत्र पाषाणमया महीध्रामृदा मही दारुभिरेव वृक्षाः ।मांसैर्जनाः पौरुषबद्धभावानापूर्वमस्तीह विकारहीनम् ॥३३॥आलोक्यते चेतनयाऽनुविद्धापयोनुबद्धोऽस्तनयो नभः स्थाः ।पृथग्विभागेन पदार्थलक्ष्म्याएतज्जगन्नेतरदस्ति किंचित् ॥३४॥चमत्कृतिश्चेह मनस्विलोक-चेतश्चमत्कारकरी नराणाम् ।स्वप्नेऽपि साधो विषयं कदाचि-त्केषांचिदभ्येति न चित्ररूपा ॥३५॥अद्यापि यातेऽपि च कल्पनायाआकाशवल्लीफलवन्महत्त्वे ।उदेति नो लोभलवाहताना-मुदारवृत्तान्तमयी कथैव ॥३६॥आदातुमिच्छन्पदमुत्तमानांस्वचेतसैवापहतोऽद्य लोकः ।पतत्यशङ्कं पशुरद्रिकूटा-दानीलवल्लीफलवाञ्छयैव ॥३७॥अवान्तरन्यस्तनिरर्थकांश-च्छायालतापत्रफलप्रसूनाः ।शरीर एव क्षतसंपदश्चश्वभ्रद्रुमा अद्यतना नराश्च ॥३८॥क्वचिज्जना मार्दवसुन्दरेषुक्वचित्कठोरेषु च संचरन्ति ।देशान्तरालेषु निरन्तरेषुवनान्तखण्डेष्विव कृष्णसाराः ॥३९॥धातुर्नवानि दिवसं प्रति भीषणानिरम्याणि वा विलुलितान्ततमाकुलानि ।कार्याणि कष्टफलपाकहतोदयानिविस्मापयन्ति न शवस्य मनांसि केषाम् ॥४०॥जनः कामासक्तो विविधकुकलाचेष्टनपरःस तु स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः ।क्रिया दुःखासङ्गाऽविधुरविधुरा नूनमखिलान जाने नेतव्या कथमिव दशा जीवितमयी ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नाम सप्तविंशतितमः सर्गः ॥२७॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP