संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः ७ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः ७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥सदृशं राजशार्दूल तवैवैतन्महीतले ।महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥२॥यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥३॥अहं धर्मं समातिष्ठे सिद्धयर्थं पुरुषर्षभ ।तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥४॥यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् ।तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥५॥बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥६॥अवधूते तथाभूते तस्मिन्यागकदम्बके ।कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥७॥न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥८॥ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥९॥त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥१०॥तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥११॥तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥१२॥शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥१३॥श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम्।त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥१४॥न च ते राममासाद्य स्थातुं शक्ता निशाचराः ।क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः ॥१५॥तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥१६॥वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥१७॥रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।अनारतगता धारा जलदस्येव पांसवः ॥१८॥न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥१९॥हन्त नूनं विजानामि हतांस्तान्विद्धिराक्षसान् ।नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः ॥२०॥अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥२१॥यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥२२॥दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः ।हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥२३॥अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥२४॥नात्येति कालः कालज्ञ यथायं मम राघव ।तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥२५॥कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥२६॥इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥२७॥श्रुत्वा वचो मुनिवरस्य महानुभाव-स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।नो युक्तियुक्तकथनेन विनैति तोषंधीमानपूरितमनोऽभिमतश्च लोकः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्ग ॥७॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP