संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १४ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १४ Translation - भाषांतर श्रीराम उवाच ।आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम् ॥१॥विषयाशीविषासङ्गपरिजर्जरचेतसाम् ।अप्रौढात्मविवेकानामायुरायासकारणम् ॥२॥ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।भावाभावसमाश्वासमायुस्तेषां सुखायते ॥३॥वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥४॥युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥५॥पेलवं शरदीवाभ्रमस्नेह इव दीपकः ।तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥६॥तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् ।ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥७॥अविश्रान्तमनाः शून्यमायुराततमीहते ।दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा ॥८॥संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे ।कायवल्लयाम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥९॥प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते ।पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥१०॥तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।स जीवति मनो यस्य मननेन न जीवति ॥११॥जातास्त एव जगति जन्तवः साधुजीविताः ।ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥१२॥भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥१३॥रूपमायुर्मनो बुद्धिरहंकारस्तथेहितम् ।भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥१४॥अविश्रान्तमनापूर्णमापदां परमास्पदम् ।नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥१५॥प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।आखुनेव जरच्छुभ्रं कालेन विनिहन्यते ॥१६॥शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥१७॥प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः ।दुःखैरावृश्च्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥१८॥नूनं निगरणायाशु घनगर्धमनारतम् ।आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥१९॥गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया ।अन्नं महाशनेनेव जरया परिजीर्यते ॥२०॥दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥२१॥विनाशसुहृदा नित्यं जरामरणबन्धुना ।रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥२२॥स्थिरतया सुखभासितया तयासततमुज्ज्ञितमुत्तमफल्गु च ।जगति नास्ति तथा गुणवर्जितंमरणभाजनमायुरिदं यथा ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP