संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः २४ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः २४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २४ Translation - भाषांतर श्रीराम उवाच ।अस्योड्डामरलीलस्य दूरास्तसकलापदः ।संसारे राजपुत्रस्य कालस्याकलितौजसः ॥१॥अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगब्रजैः ।आखेटकं जर्जरिते जगज्जङ्गलजालके ॥२॥एकदेशोल्लसच्चारुवडवानलपङ्कजा ।क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥३॥कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः ।तैरेव तैः पर्युषितैर्जगद्भिः कल्ववर्तनम् ॥४॥चण्डी चतुरसंचारा सर्वमातृगणान्विता ।संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी ॥५॥ज्ञध्वी करतले ज्ञथ्वी पानपात्री रसान्विता ।कमलोत्पलकह्लारलोलजालकमालिता ॥६॥विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे ।सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ॥७॥अलाबुवीणामधुरः शरद्व्योमलसच्छविः ।देवः किल महाकालो लीलाकोकिलबालकः ॥८॥अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः ।अभावनामकोदण्डः परिस्फुरति सर्वतः ॥९॥अनुत्तमस्त्वधिकविलासपण्डितोभ्रमच्चलन्परिविलसन्विदारयन् ।जरज्जगज्जनितविलोलमर्कटःपरिस्फुरद्वपुरिह काल ईहते ॥१०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालविलासो नाम चतुर्विंशतितमः सर्गः ॥२४॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP