संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः २३ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः २३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २३ Translation - भाषांतर श्रीराम उवाच ।विकल्पकल्पनानल्पजल्पितैरल्पबुद्धिभिः ।भेदैरुद्धुरतां नीतः संसारकुहरे भ्रमः ॥१॥सतां कथमिवास्थेह जायते जालपञ्जरे ।बाला एवात्तुमिच्छन्ति फलं मुकुरबिम्बितम् ॥२॥इहापि विद्यते येषां पेलवा सुखभावना ।आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ॥३॥न तदस्तीह यदयं कालः सकलघस्मरः ।ग्रसते तज्जगज्जातं प्रोत्थाब्धिमिव वाडवः ॥४॥समस्तसामान्यतया भीमः कालो महेश्वरः ।दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ॥५॥महतामपि नो देवः प्रतिपालयति क्षणम् ।कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥६॥युगवत्सरकल्पाख्यैः किंचित्प्रकटतां गतः ।रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ॥७॥ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये ।कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः ॥८॥निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः ।न तदस्ति यदद्यापि न कालो निगिरत्ययम् ॥९॥कालः कवलनैकान्तमतिरत्ति गिरन्नपि ।अनन्तैरपि लोकौघैर्नायं तृप्तो महाशनः ॥१०॥हरत्ययं नाशयति करोत्यत्ति निहन्ति च ।कालः संसारनृत्तं हि नानारूपं यथा नटः ॥११॥भिनत्ति प्रविभागस्थभूतबीजान्यनारतम् ।जगत्यसत्तया बन्धाद्दाडिमानि यथा शुकः ॥१२॥शुभाशुभविषाणाग्रविलूनजनपल्लवः ।स्फूर्जति स्फीतजनताजीवराजीवनीगजः ॥१३॥विरिञ्चिमूलब्रह्माण्डबृहद्देवफलद्रुमम् ।ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ॥१४॥यामिनी भ्रमरापूर्णा रचयन्दिनमञ्जरीः ।वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ॥१५॥भिद्यते नावभग्नोऽपि दग्धोऽपि हि न दह्यते ।दृश्यते नापि दृश्योऽपि धूर्तचूडामणिर्मुने ॥१६॥एकेनैव निमेषेण किंचिदुत्थापयत्यलम् ।किंचिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ॥१७॥दुर्विलासविलासिन्या चेष्टया कष्टषुष्टया ।द्रव्यैकरूपकृद्रूपं जनमावर्तयन्स्थितः ॥१८॥तृणं पांसुं महेन्द्रं च सुमेरुं पर्णमर्णवम् ।आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ॥१९॥क्रौर्यमत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।सर्वदौर्भाग्यमत्रैव चापलं वापि दुःसहम् ॥२०॥प्रेरयँल्लीलयार्केन्दू क्रीडतीव नभस्तले ।निक्षिप्तलीलायुगलो निजे बाल इवाङ्गणे ॥२१॥सर्वभूतास्थिमालाभिरापादवलिताकृतिः ।विलसत्येव कल्पान्ते कालः कलितकल्पनः ॥२२॥अस्योड्डामरवृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः ।प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥२३॥रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः ।शक्रो वैश्रवणश्चापि पुनरेव न किंचन ॥२४॥धत्तेऽजस्रोत्थितोद्ध्वस्तान्सर्गानमितभास्वरान् ।अन्यान्दधद्दिवानक्तं वीचीरब्धिरिवात्मनि ॥२५॥महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।देवासुरगणान्पक्वान्फलभारानिव स्थितः ॥२६॥कालोऽयं भूतमशकघुंघुमानां प्रपातिनाम् ।ब्रह्माण्डोदुम्बरौघानां बृहत्पादपतां गतः ॥२७॥सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः ॥२८॥अनन्तापारपर्यन्तबद्धपीठं निजं वपुः ।महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ॥२९॥क्वचिच्छयामतमःश्यामं क्वचित्कान्तियुतं ततम् ।द्वयेनापि क्वचिद्रिक्तं स्वभावं भावयन् स्थितः ॥३०॥संलीनासंख्यसंसारसारया स्वात्मसत्तया ।उर्व्येव भारघनया निबद्धपदतां गतः ॥३१॥न खिद्यते नाद्रियते नायाति न च गच्छति ।नास्तमेति न चोदेति महाकल्पशतैरपि ॥३२॥केवलं जगदारम्भलीलया घनहेलया ।पालयत्यात्मनात्मानमनहंकारमाततम् ॥३३॥यामिनीपङ्ककलितां दिनकोकनदावलीम् ।मेघभ्रमरिकामात्मसरस्यारोपयन्स्थितः ॥३४॥गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् ।आलोककनकक्षोदानाहरत्यभितो गिरिम् ॥३५॥संचारयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् ।जगत्सद्मनि कार्पण्यात्क्व किमस्तीति वीक्षते ॥३६॥प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् ।लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥३७॥जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे ।क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥३८॥गुणैरापूर्यते यैव लोकरत्नावली भृशम् ।भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ॥३९॥दिनहंसानुसृतया निशेन्दीवरमालया ।तारकेसरयाजस्रं चपलो वलयत्यलम् ॥४०॥शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि ॥४१॥तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥४२॥कल्पकेलिविलासेन पिष्टपातितजन्तुना ।अभावो भावभासेन रमते स्वात्मनात्मनि ॥४३॥कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः ॥४४॥सकलमप्यकलाकलितान्तरंसुभगदुर्भगरूपधरं वपुः ।प्रकटयन्सहसैव च गोपयन्विलसतीह हि कालबलं नृषु ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालापवादो नाम त्रयोविंशतितमः सर्गः ॥२३॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP