संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|विष्णुसंहिता| त्रिंशः पटलः विष्णुसंहिता प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः विष्णुसंहिता - त्रिंशः पटलः विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत. Tags : samhitasanskritvishnuविष्णुसंस्कृतसंहिता त्रिंशः पटलः Translation - भाषांतर अथ वक्ष्यामि संक्षेपाद् योगं भागवतं परम् ।यदन्यैरश्रुतं पूर्वं हितानां परमं हितम् ॥१॥युक्ताहारविहारस्तु युक्तचेष्टः समाहितः ।योगं भागवतं नित्यमभ्यसेन्नियतात्मवान् ॥२॥पञ्चकालविभागज्ञो मितभाषी मिताशनः ।कामक्रोधादिजिद् भक्तः समलोष्टाश्मकाञ्चनः ॥३॥समयाचारसंयुक्तो जपध्यानपरायणः ।एकान्ते विजने स्थाने निवाते शब्दवर्जिते ॥४॥बद्ध्वा योगासनं मौनी योगं युञ्जीत योगवित् ।पूजयित्वा हरिं पूजां तत्रैव प्रतिपादयेत् ॥५॥किङ्करत्वेन चात्मानं कृताञ्जलिरधोमुखः ।न याचेत फलं किञ्चित् प्रसन्नो दास्यति स्वयम् ॥६॥जानात्येव हि कालं स भक्तिपूजागुणागुणान् ।प्रसन्नस्त्वनुगृह्णीयात् त्वरया न कदाचन ॥७॥नत्वेव नानुगृह्णीयाज्जन्मान्तरशतेष्वपि ।कर्मणां पच्यमानानामपरेषां परिक्षये ॥८॥प्रकाशयति भक्तानां हरिः कुर्वन्ननुग्रहम् ।ततस्तु संपदेवास्य पुरस्तादुपलक्ष्यते ॥९॥क्षीयन्तेऽस्यारयो नित्यं वर्धन्ते संपदः स्वयम् ।फलं त्वयत्नाद् भूयः स्यान्नश्यन्ति व्याधयः स्वयम् ॥१०॥न क्वचिच्चास्य संक्लेशो वर्धन्ते पशवः प्रजाः ।दीर्घं चास्य भवेदायुर्जायन्ते सुभगाः प्रजाः ॥११॥प्रशंसन्ति जनाश्चैनं चोरयेयुर्न दस्यवः ।अनुपद्रवमैश्वर्यं चिरं तिष्ठत्ययन्त्रितम् ॥१२॥धर्माद्यभिमुखी धीः स्यादधर्मादिपराङ्मुखी ।सुखेनैवापरान्तश्च पुण्यकाले भविष्यति ॥१३॥जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते ।उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि ॥१४॥अक्लिष्टमष्टधैश्वर्यं तत्प्रसादाद् भविष्यति ।विहरेदिच्छया दीर्घं निर्वाणं वा तथाऽप्नुयात् ॥१५॥भक्तेष्वस्य प्रसादेन भवितव्यं तु सर्वथा ।भ्रष्टोऽपि विविधान् कामानाप्नुयान्न विमुच्यते ॥१६॥किन्तु कर्मानुबन्धेन संसारे क्लेशसम्भवः ।तस्मात् तद्भक्तिरेवास्य संपदां कारणं भवेत् ॥१७॥तज्ज्ञानेन नृणां भक्तिर्वर्धनीया प्रयत्नतः ।वर्धिता तु विशेषेण सैनं नयति सत्पथम् ॥१८॥तस्मात् कार्यो विवेकोऽत्र गुणदोषा यथा स्थिताः ।चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः ॥१९॥कामकोपादिभिर्मुक्तं मनः शुद्धं भविष्यति ।अभ्यासेन भवेच्छुद्धिर्मनसो योगवर्त्मनि ॥२०॥शुद्धे मनसि तद्भक्तिर्जायते तस्य निश्चला ।तस्यां समुपजातायां तत्त्वे चेतोऽवतिष्ठते ॥२१॥रागद्वेषपरीतस्य विफलं तत्त्वदर्शनम् ।तस्मात् तौ पूर्वमुत्सार्यौ तत्त्वं सम्यग् दिदृक्षुणा ॥२२॥पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च ।तथा रोगावमानेषु वैराग्यमुपजायते ॥२३॥मरणादिषु दृष्टेषु स्वयमेव समाहितः ।बुद्ध्या विवेकमातिष्ठेन्नित्यं वैराग्यकारणम् ॥२४॥विवेकाज्जायते भक्तिर्वैराग्यं चास्य सर्वदा ।ततस्तत्त्वगता बुद्धिर्भविष्यत्यनपायिनी ॥२५॥न भोगेषु प्रसक्तः स्यान्न कुर्याद् दुर्लभे मतिम् ।अल्पेन परितुष्टः स्यान्नित्यं भागवतो बुधः ॥२६॥विपाकं कर्मणामेव पश्येत् पश्यन् प्रियाप्रिये ।इदं युक्तमिदं नेति नानुशोचेत् कदाचन ॥२७॥प्रभुत्वं नात्मनः किञ्चिदिति पश्येद् विवेकवान् ।घोषयेन्नैव कृत्यानि न कुर्यात् संभ्रमं क्वचित् ॥२८॥न चाकाङ्क्षेद् यशः किञ्चिद् देवदेवस्य पूजनात् ।यथा मनः प्रियेष्वेवं सक्तं देवे च भावयेत् ॥२९॥नित्यं भक्तौ तु जातायां जायते तत्त्वदर्शनम् ।तत्त्वविद् यत्र तत्रस्थो मुक्तसङ्गः परिव्रजेत् ॥३०॥एक एव पुनस्तीर्थं क्षेत्रं चानुव्रजेत् सदा ।भक्त्या देवमनुध्यायेत् तन्निष्ठस्तत्परायणः ॥३१॥अन्तकाले च तं स्मृत्वा तत्सायुज्यमवाप्नुयात् ।विरक्तोऽखिलतत्त्वानि विलाप्य परमात्मनि ॥३२॥कृत्वा निर्विषयं चित्तमुदासीनो विमुच्यते ।ऐश्वर्येऽपि स्थितो योगी न देवं जातु विस्मरेत् ॥३३॥यतः कालक्रमेण स्यादुपघातोऽन्यथा ध्रुवम् ।सायुज्यं प्रतिपन्नास्तु ये भक्ताः शुद्धचेतसः ॥३४॥तेविष्णोः किङ्करा नित्यं भवन्ति निरुपद्रवाः ।तेषां भक्त्पराधेन संसारः संभवेत् पुनः ॥३५॥अन्यथा स्थितिरेव स्याद् वैराग्यान्मुक्तिरेव वा ।निवृत्तास्तु विशिष्यन्ते सर्वेभ्यस्तत्त्वदर्शिनः ॥३६॥नैव तेषां भवो भूयः प्रमादो वेह कश्चन ।मुक्तिरेव तु विज्ञेया गतीनामुत्तमा गतिः ॥३७॥अन्यास्तु गतयः सर्वाः सप्रमादाः स्युरध्रुवाः ।तथाऽपि मतिवैचित्र्यादुभयं संमतं नृणाम् ॥३८॥ऐश्वर्यमपवर्गो वा कस्यचित् किञ्चिदेव तु ।तद्गता भक्तिरेवैषामुभयस्यापि साधनी ॥३९॥समाधेर्वर्धमानस्य विभागाद् भेदकारिणः ।सत्त्वस्थे यत्नतश्चित्ते योगाङ्गानि निषेवते ॥४०॥तेषु स्थित्वा स्मरेद् विष्णुमेकाग्रेण तु चेतसा ।तमः क्षरति तेनास्य रजश्च वशिनः क्रमात् ॥४१॥ततो जन्मभिरुकृष्टैः सिद्धिमेवाधिगच्छति ।यदा तु सत्त्वमातिष्ठेदस्पृष्टो रजसा क्वचित् ॥४२॥ततोऽस्य मुक्तिरेव स्यात् सायुज्यं वा महात्मनः ।तस्माद् भक्तिं सदाऽन्विच्छेद् याऽस्य सर्वस्य कारणम् ॥४३॥भक्तावच्यमानायां भवेच्छ्रेयोऽस्य नान्यथा ।अन्तरायास्तु ये नित्यं योगाभ्यासस्य दूषकाः ॥४४॥तेषु प्रसज्यमानेषु तत्त्वदर्शनमाश्रयेत् ।नातिवेलं सदाभ्यस्येन्न शरीरं च पीडयेत् ॥४५॥विषयेभ्योऽपि यत्नेन निवर्तेत शनैः शनैः ।अपूर्वदर्शने चैव लोकवादाश्रये तथा ॥४६॥मोघचिन्ताप्रसङ्गे च योगमिच्छेन्नरो बुधः ।निवृत्तेष्वेषु सर्वेषु भक्तिः पुंसो विवर्धने ॥४७॥विषया दुस्त्यजाः सेव्या धर्मशास्त्राविरोधिनः ।बह्वपायत्वयोगेन यत्नाद् वेच्छां निवर्तयेत् ॥४८॥येभ्यो निवर्तमानस्य मनः शुद्धं भवेत् सदा ।निवृत्तेरभ्युपायश्च शुद्धिरेव परात्मनः ॥४९॥शुद्धावाद्रियमाणायां बीभत्सुर्विषयेष्वयम् ।जायते नाशुचिष्वेव संसर्गोऽस्य भविष्यति ॥५०॥अशुचीनामसंसर्गाच्चित्तमस्य प्रसीदति ।प्रसादे निःस्पृहस्यास्य भक्तिर्मुक्तिस्ततो ध्रुवा ॥५१॥शब्दादिविषयाञ् जित्वा रुद्धा द्वाराणि सर्वशः ।प्रविलाप्येन्द्रियाण्यन्तश्चिन्तयेत् परमं पदम् ॥५२॥संयम्य मारुतान् पञ्च योगाभ्यासेन योगवित् ।स्थिरीकृतमना नित्यं ध्यायेत् तत् परमं पदम् ॥५३॥वर्णाश्च पञ्चवायूनामन्तस्थानां विचिन्तयेत् ।मध्ये मध्ये तु पुर्वेषां क्रमाद् ध्येयाः परे परे ॥५४॥काशवर्णो भवेत् प्राणो रक्तोऽपानोऽस्य मध्यगः ।विद्युत्स्फुरितभा व्यान उदानः कुन्दसन्निभः ॥५५॥समानस्तु ततो ध्येयः शुद्धस्फटिकसन्निभः ।एवं ध्यात्वा निरुध्यान्तः क्रमशः पञ्च मारुतान् ॥५६॥षडङ्गानि च विज्ञाय प्रयुञ्जीत यथाविधि ।प्राणायामोऽत्र पूर्वं तु प्रत्याहारोऽथ धारणा ॥५७॥ततस्तर्कः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात् ।ये प्रोक्ता योगिभिः पूर्वं पूररेचककुम्भकाः ॥५८॥प्राणायामास्तु विज्ञेया मात्राभिस्ते पृथक् क्रमात् ।जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥५९॥क्रियते योऽङ्गुलिस्फोटः सा मात्रेह प्रकीर्तिता ।यदा द्वादशमात्राभिः पूरकः क्रियते तदा ॥६०॥रेचको द्विगुणाभिः स्यात् त्रिगुणाभिश्च कुम्भकः ।प्राणानां यस्त्विहायामः क्रमादेवं प्रकीर्तितः ॥६१॥सर्वशास्त्रेषु शास्त्रज्ञैः प्राणायामः स उच्यते ।धारणा तु भवेद् या सा प्राणायामैस्त्रिभिः स्मृता ॥६२॥श्यामा पीताऽरुणा शुक्ला क्रमाज्ज्ञेया च धारणा ।नाभिमध्यगतेनादौ बीजेन पुरुषात्मना ॥६३॥वायव्या धारणा कार्या सा श्यामा पूरकात्मिका ।ततो विश्वात्मबीजेन रक्तेन हृदि या कृता ॥६४॥आग्नेयी सा समुद्दिष्टा द्वितीया रेचका मता ।कण्ठे निवृत्तिबीजेन पीतेन क्रियते तु या ॥६५॥माहेन्द्री सा समुद्दिष्टा धारणा कुम्भकात्मिका ।मूर्ध्नि सर्वात्मबीजेन शुक्लेनैतैस्त्रिभिस्त्रिभिः ॥६६॥क्रियते धारणा यान्त्या वारुणी सा प्रकीर्तिता ।स्थितेषु तेषु बीजेषु चैतन्यं धार्यते यदा ॥६७॥तद्गुणान्वितमित्येव जगत् सर्वं तदा स्मरेत् ।नाभ्यादिषु यथोद्दिष्टं बीजं भूतगुणात्मकम् ॥६८॥क्रियाभिर्धार्यते याभिस्तत्क्रिया धारणा मता ।अन्वयव्यतिरेकाभ्यां यस्माद् यदुपलभ्यते ॥६९॥धारणादिषु कालेषु स तर्कः सम्प्रकीर्तितः ।आवप्रयासरूपेण यथाकर्म गुणात्मकम् ॥७०॥समाधिश्चेह विज्ञेयो धारणाभिस्त्रिभिस्त्रिभिः ।ध्यातृध्येयस्वरूपं यत् तत्र रुन्ध्यात् प्रदर्शनम् ॥७१॥समाधित्रिगुणं यावदेवं ध्यानस्य लक्षणम् ।एवं सर्वात्मना यस्य ज्ञेयैस्तुल्यः कथञ्चन ॥७२॥योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः ।गुणानां यः समाहारः सहायस्य च चेतसः ॥७३॥सद्भावभावतो बुद्ध्या स योगश्चेह कीर्तितः ।स च ज्ञानक्रियाभेदाद् ज्ञेयो योगो द्विधा बुधैः ॥७४॥अन्तः करणवृत्त्या या तेषामात्मैकता मता ।ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः ॥७५॥इष्ट्वाऽऽदौ कर्मयोगेन ज्ञानयोगेन तं यजेत् ।कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात् ॥७६॥स्थूले निवेशितं चित्तं पुनः सूक्ष्मे निवेशयेत् ।पररूपे यदा युक्तस्तदाऽसौ मुक्त उच्यते ॥७७॥परात्परतरं ज्योतिश्चिद्रूपमचलं ध्रुवम् ।यः प्रपश्यति बुद्ध्याऽसौ न पुनर्भुवि जायते ॥७८॥तस्मात् सर्वप्रयत्नेन भक्तो योगी भवेत् सदा ।युक्तो देवमुपासीत सिद्धिरेवं भविष्यति ॥७९॥एवं ते सकलाऽऽख्याता मयाऽल्पा विष्णुसंहिता ।साक्षाद्विष्णुमुखादेषा मया प्राप्ता युगान्तरे ॥८०॥ज्ञानानां परमं ज्ञानं गुह्यानां गुह्यमुत्तमम् ।हितानां च हितं नान्यदतो रक्ष्यमिदं त्वया ॥८१॥यथाऽहं श्रुतवान् पूर्वं साक्षाद् भगवतो मुखात् ।तथेदमखिलं तन्त्रं मया तुभ्यं निवेदितम् ॥८२॥नादीक्षिताय दातव्यं नासंवत्सरवासिने ।नाभक्तायाविनीताय नान्यभक्ताय वा क्वचित् ॥८३॥कृतज्ञाय विनीताय शुचये ब्रह्मचारिणे ।वक्तव्यं सर्वथाऽऽचार्यैरित्येवं विष्णुशासनम् ॥८४॥गुप्तं हि स्थापयेत् सर्वमगुप्तं नाशयेन्नरः ।तस्मात् सर्वप्रयत्नेन गोप्यमेतत् सदा बुधैः ॥८५॥यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः ।सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥८६॥तस्माद् भक्तैरिदं नित्यमध्येयं श्राव्यमेव च ।पुस्तके लिखितं नित्यं पूजनीयं प्रयत्नतः ॥८७॥यत्रेदं प्रयतैर्नित्यं पूज्यते पुस्तकस्थितम् ।न तत्र व्याधिचोरादिभयं किञ्चित् प्रजायते ॥८८॥तस्मात् सर्वप्रयत्नेन गृहे सततमर्चयेत् ।स्थापयेद् गोपयेच्चात्र वर्धते श्रीरचञ्चला ॥८९॥॥इति विष्णुसंहितायां त्रिंशः पटलः॥ N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP